SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ * * धर्मः सम्यग्ज्ञानक्रियात्मकः। तथा विपद्यपि श्रेयां सानुकूलगति सृजेत् ॥ २॥ पुण्यं पुण्यानुवरव्येव प्रायः सद्भावतः कृतम् । दत्तेऽन्तरायं निर्मथ्य जन्तोः सौख्यं शिवावधि ॥३॥ सम्भावसुंदरं जं थोवं च बहुंच धम्मणुट्टाणं। होइ सुविसुद्धफलयं तचिवरी न उ बहुं पि॥ ४ ॥तबेदम्-परोपतापविरतिः परानुग्रहनिर्मितिः । निजेन्द्रिवजयः शुद्धपात्रदानं दयानिषु ॥५॥ द्विधाऽप्यावश्यकं सम्यग् द्विसंध्यं विधिना कृतम् । अजिसब्रह्मनिष्ठत्वं पुण्यं पुण्यानुबन्ध्यदः ॥६॥ तच्चेदम्-सामायिकं चतुर्विशत्यहतां संतवस्तथा । वन्दनं प्रतिक्रमणं कायोत्सर्गो द्विधाऽपि च ॥७॥प्रत्याख्यानं दशविधं सम्यग्धर्मक्रियामयम् । पशिधावश्यकमिदं क्लिष्टकर्मविशोधनम् ॥ ८॥ तथा देवपूजा गुरूपास्तिः खाध्यायः संयमस्तपः। दानं चेति गृहस्थानां षट् कर्माणि दिने दिने ॥१॥ - इदं सामान्यतः ख्यातं षडावश्यकमङ्गिनाम् । विधूय पञ्च पापानि दत्ते खर्गादिपञ्चकम् ॥९॥ द्विधाऽप्यावश्यक शुद्धं विधिना यः सृजेत्सुधीः । तस्य स्युः संपदः सर्वा मित्रानन्दसुमित्रवत् ॥ तथाहि___ आसीत्पुष्पपुरे सूर्ययशा नाम महीपतिः । सुरेन्द्रवत्पवित्रश्रीः परं कापि न गोत्रभित् ॥१॥ मित्रानन्दोऽभवन्मत्री तस्स राज्यभरोद्वहः । यो जात्यतिलवत्सम्यग्धर्मवासैकवासितः ॥ २ ॥ यतः केचिच कम्बलवदेव न वासयोग्याः खल्पे विशुद्धसिचया इव यन्न वास्याः । वासं वहन्ति वरशैल्यकरीवदन्ये धन्यास्त्यजन्ति न तिला इव जातु वासम् ॥१॥ ACKAGANA * * * *
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy