Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 69
________________ कृतोपायोऽपि न जज्ञे त्रिजगत्कण्टकः प्रभुः ॥ २० ॥ अत्रान्तरेऽवदत् प्रोद्यद्विचारैकबृहस्पतिः । संभिन्नमतिमन्रीशः सर्वेषां विस्मयावहम् ॥ २१ ॥ सुबुद्धिमत्रिणा पूर्व निजबुद्धिप्रपञ्चतः । विप्रतार्य वचोव्याजाद्वञ्चितो विधिरप्यहो ! ॥ २२ ॥ परं नैमित्तिकेनैतत्पुराधीशोपरि स्फुटम् । विद्युत्पतनमाख्यायि न स्वकीयनृपोपरि ॥ २३ ॥ ततोऽत्र क्रियते राजा सद्यः कश्चिन्नरः परः । खखकार्याणि कुर्वन्तु लोकाः सर्वे तदाज्ञया ॥ २४ ॥ श्रुत्वैतद्वचनं राजा दयार्द्रहृदयोऽवदत् । मन्त्रिन् ! न युज्यते कर्तुं जिनधर्मविदामिदम् ॥ २५ ॥ यतः आ सका आ कीडीआओ पाणीण दुश्वया पाणा । तो कह परमरणकरं ति जुज्जए मह इमं काउं ॥ १ ॥ अपि चअन्नसिं पाणीणं पाणताणकारणिक्कमुज्जया गरुआ । अम्हे कहं सजीवियकए अपरपाणिणं हणिमो ॥ १ ॥ इकं चिय इत्थ वयं निहिं जिणवरेहिं सधेहिं । तिविहेण पाणिरक्खणमविसेसा तस्स रक्खट्ठा ॥ २ ॥ इत्युक्ते भूभुजाऽवोचत्सुबुद्धिः सचिवो वचः । स्वामिंस्तत्क्रियते येनानर्थहानिर्वधस्तु न ॥ २६ ॥ शीतोऽग्निरितिवन्मत्रिन् ! कथमेतद्भवेदिह । आत्मरक्षा भवेदन्यप्राणिहिंसा च नो भवेत् ॥ २७ ॥ आत्मवत्सर्वजीवेषु कल्याणागमचिन्तनम् । तत्कदुःखजिहासा च धर्मबीजमनुत्तरम् ॥ २८ ॥ इत्युक्तं नृपतेः श्रुत्वा स मन्त्री पुनरब्रवीत् । सप्ताहं स्थाप्यते राज्ये धनदप्रतिमा प्रभो ! ॥ २९ ॥ एवं कृते समीचीनः प्रकारः प्राक्तनो भवेत् । स्वयं धर्मपरैः | स्थेयं युष्माभिः सप्तवासरी ॥ ३० ॥ धर्मानुभावतः खामिन्नापदां विलयो भवेत् । संपदश्च मनोऽभीष्टा भवन्त्यत्रैव

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148