Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत एव च लोकनाथत्वमपि भगवतो बीजाधानादिसंविभक्त. भव्यलोकापेक्षया व्याख्यातं ललितविस्तरायाम् , अनीशि नाथत्वा. नुपपत्तरिति / न चैतावता भगवतो वाक प्रयत्नस्य विफलत्वं, शक्यविषय एव विशेषतः साध्यत्वाख्यविषयतया तत्प्रवृत्तेस्तत्फलयत्यव्यवस्थितेः। सामान्यतः सर्वजीवरक्षाविषयोऽपि भगवतः कायप्रयत्नो विशेषतः शक्यजीवरक्षाविषयत्वेन सफलः सन् नाशक्यविषये वैफल्यमात्रेण प्रतिक्षेप्तुं शक्यत इति / . न चाधिकृतविषये वाक्प्रयत्नो न विफलः, स्वल्पसंसार्यपेक्षया साफल्याद् , इतरापेक्षया वैफलस्य तत्रावास्तवत्वाद् ; अशक्यपरिहारजीवविराधनायां तु तद्रक्षाप्रयत्नः सर्वथैव विफल इति वैषम्यमिति तत्र वीर्यान्तरायक्षयवैफल्यापत्तिरिति तत्साफल्यार्थ भगवद्योगानां हिंसायां स्वरूपायोग्यत्वमेवाभ्युपेयमिति शङ्कनीयम् / एवं सति हि भगवतः क्षुत्पिपासापरीषहविजयप्रयत्नः क्षुत्पिपासानिरोधं विना विफल इति वीर्यान्तराय क्षयवैफल्यापत्तिनिरासाथै भगवतः क्षुत्पिपासयोरपि स्वरूपायोग्यत्वं कल्पनीयमिति दिगम्बरस्य वदतो दूषणं न दातव्यं स्यादिति / यदि च क्षुत्पिपासयोर्निरोद्धुमशक्यत्वात् तत्परीषहविजयप्रयत्नो भगवतो मार्गाच्यवनादिस्वरूपेणैव फलवानिति विभाव्यते तदाऽशक्यपरिहारजीवविराधनाया अपि त्यक्तुमशक्यत्वात् , तत्र जीवरक्षाप्रयत्नस्यापि भगवतस्तथा स्वरूपेणैव फलवत्वमिति किं वैषम्यम् ? इत्थं च-" तस्स असं चेययओ संचययओ अ जाई सत्ताई जोगं पप्प विणस्संति / णत्थि हिंसाफलं तस्स // " तस्यैवंप्रकारस्य ज्ञानिनः कर्मक्षयार्थमुद्यतस्यासश्चेतयतोऽजानानस्य, किं ? सत्त्वानि, कथं ? प्रयत्नं कुर्वतापि, कथमपि न दृष्टो व्यापादितश्च / तथा सञ्चेतयतो जानानस्य कथम् ? अस्त्यत्र प्राणो ज्ञातो दृष्टश्च, न च प्रयत्नं कुर्वताऽपि रक्षितुं पारितः, ततश्च तस्यैवंविधस्य यानि सत्त्वानि योगं कायादिव्यापार प्राप्य विनश्यन्ति / न च नास्ति तस्य साधोहिंसाफलं साम्परायिकं संसारजननमित्यर्थः / यदि परमीर्याप्रत्ययं कर्म भवति, 1 तस्यासंचेतयतः संचेतयतश्च यानि सत्त्वानि योगं प्राप्य विनश्यन्ति, नास्ति हिंसाफलं तस्य // For Private and Personal Use Only

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276