Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 272
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बन्धककर्ममलविगमविशदीकृतहृदयस्य निश्चयावलम्बनदशायां शुद्धात्मस्वभावषरिणतौ प्रकटीभूतायामध्यात्मध्यानेऽपि एकाग्रत्वं समुल्लसति // 99 // . ततः किं भवति ? इत्याह--. तमि य आयसरूवं विसयकसायाश्दोसमलरहि। विन्नाणाणंदघणं परिसुद्ध होइ पञ्चक्खं // 10 // . व्याख्या-तमि य' त्ति / तस्मिंश्वाध्यात्मध्यानैकाग्रत्वे समुल्लसिते विषयाः शब्दादय इन्द्रियार्थाः कषायाः क्रोधमानमायालोभास्तदादयो ये दोषमला जीवगुणमालिन्यहेतवस्तद्रहितं, तथा विज्ञानानन्दघनं स्वरूपप्रतिभासप्रशमसुखैकरसतामापन्नं, परिशुद्धमनुपहितस्फटिकरत्नवत् प्रकृत्यैव निर्मलमात्मस्वरूपं प्रत्यक्षं भवति // 10 // ... ततश्चात्मन्येव रतस्य तत्रैव तृप्तस्य तत्रैव च सन्तुष्टस्य स्वात्ममात्रप्रतिबन्धवि. श्रान्ततया विकल्पोपरमः स्यादित्याहजलहिम्मि असंखोने पवणानावे जहा जलतरंगा। परपरिणामानावे व विअप्पा तया हुंति // 10 // व्याख्या-'जलहिम्मि त्ति / असंक्षोभे संक्षोभपरिणामरहिते जलधौ समुद्रे पवनाभावे यथा जलतरङ्गा नैव भवन्ति, तथा तदा-आत्मस्वरूपमत्यक्षतादशायां परपरिणामस्य पुद्गलग्रहणमोचनपरिणामस्याभावे नैव विकल्पाः शुभाशुभरूपाश्चित्तविप्लवा भवन्ति // 101 // अध्यात्मध्यानजनितायामात्मस्वरूपप्रत्यक्षतादशायां संहृतसकलविकल्पावस्थायां सूक्ष्मविकल्पोपरमेणैव स्थूलविकल्पोपरमदाढयमाहका अरती आणंदे केवत्ति वियप्पणं ण जत्युत्तं / अमें तत्थ वियप्पा पुग्गलसंजोगजा कत्तो // 10 // .. 'का अरति 'त्ति / का अरतिः ? को वा आनन्दः ? इति विकल्पनमपिन त(य)त्र-आत्मस्वरूपप्रत्यक्षतायामुक्तम्,अध्यात्मशास्त्रे स्वरूपानुभवममतया सन्निहितमुखदुःखविकल्पस्य सक्षमस्याप्यनवकाशात / तत्रान्ये विकल्पाः स्थला पुद्ग For Private and Personal Use Only

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276