Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 लसंयोगजा गृहधनस्वजनभोजनादिपुद्गलसंसर्गजनिताः कुतो भवन्ति ? अपितु न कुतश्चित् ; स्वाभाविकधर्मज्ञानसामच्या औपाधिकधर्मज्ञानमात्र प्रति प्रतिबन्धकत्वादिति भावः। तदयं शुद्धात्मस्वभावानुभवनामा सन्मात्रार्थनिर्भासो धर्मशुक्लध्यान. फलं विगलितवेद्यान्तरचिदानन्दनिष्पन्दभूतोऽविकल्पः समाधिरुपगीयते // 102 // अस्यैवाविकल्पसमाधेरुपायभूतं शुद्धं विकल्पमुपदर्शयतिअएणे पुग्गलजावा अएणो एगो य नाणमित्तोहं / सुघो एस वियप्पो अविअप्पसमाहिसंजणओ // 13 // ...'अण्णे 'ति / पुद्गलभावाः पुद्गलपरिणामाः-कायमनोवागानमाणकर्मवर्गणाधनगृहक्षेत्रारामादिसंस्थानभाजोऽविद्यापपञ्चोपराचतममकारविषयीभूता अन्ये-मदात्मद्रव्यादेकान्तेन पृथग्भूताः, कालत्रयेऽप्युपयोगलक्षणासंस्पर्शादिति भावः / अहं च ज्ञानमात्रमुपयोगमात्रस्वभाव इति हेतोः पुद्गलभावेभ्योऽन्य एकश्च, कालत्रयेऽप्यन्यद्रव्यसंसर्गेऽपि तत्स्वभावापरिग्रहाद् अनन्तपर्यायाविर्भावतिरोभावाभ्यामप्यविचलितशुद्धात्मद्रव्यैकशक्तिमखाच / न च ज्ञानदर्शनचारित्ररूपरत्नत्रयस्वभावशालित्वेनापि शुद्धात्मद्रव्यस्यैकत्वक्षतिः सम्भवति प्रभानैर्मल्यदोपहरणशक्तिगुणयोगाजात्यरत्नस्येवेति / एष शुद्धात्मद्रव्यविषयत्वेन शुद्धो विकल्पोऽविकल्पसमाधेः सम्यक् प्रकारेण जनकः, एतजनितसंस्कारस्य विकल्पान्तरसंस्कारविरोधित्वेन ततस्तदनुत्यानाद्, एतस्य च वढेचं विनाश्यानु वि. नाशवदशुभविकल्पजालमुच्छेद्य स्वत एवोपरमादिति // 103 // ... ____" तदेतदध्यात्मध्यानमविकल्पसमाधिसम्बन्धबन्धुरमित्येतदेवाभिष्टुवन्नाहएयं परमं नाणं परमो धम्मो मो चिय पसिघो। एयं परमरहस्सं णिच्छयसुद्धं जिणा बिति // 104 // व्याख्या-एयं परमं 'ति / एतदध्यात्मध्यानं परमं ज्ञानं, ज्ञानस्य विरतिफलत्वाद्, विस्तेश्च समतासारत्वात् , समतायाश्चेतदायत्तत्वादिति भावः / परमो धर्मोऽयमेव प्रसिद्धः, दुर्गतौ पततो जन्तोरणात, सिद्धिगतौ नियमेन धारणाच / एतच्च परमरहस्यमुत्कृष्टोपनिषद्भुतं निश्चयशुद्धं पारमार्थिकनयविशदीकृतं जिनास्तीर्थकरा ब्रुवते / थदागम:-- For Private and Personal Use Only

Page Navigation
1 ... 271 272 273 274 275 276