Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 271
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुच्चये, भवति स्यात् / तथा क्रोधाग्निना अदाह्यः, सुवर्णवत् / तथाऽकुत्स्यः सदाशील भावेन-शीललक्षणसौगन्ध्यसद्भावेनेति // 96 // निगमयन्नाहएवं सुवन्नसरिसो पडिपुन्ना हिअगुणो गुरू णेश्रो। श्यरो विसमुचियगुणो ण न मूलगुणेहि परिहीणो॥७॥ व्याख्या-' एवं 'ति / एवमुक्तप्रकारेण सुवर्णसदृशः, सामान्यतो भावसाधुगुणयोगात् / तथा प्रतिपूर्णा अन्यूनाः अधिकगुणाः प्रतिरूपादिविशेषगुणा यस्य स तथा गुरु यः। अपवादाभिप्रायेणाह-इतरोऽपि कालादिवैगुण्यादेकादिगुणहीनोऽपि समुचितगुणः पादार्द्धहीनगुणो गुरु यः, नतु मूलगुणैः परिहीनः, तद्रहितस्य गुरुलक्षणवैकल्यप्रतिपादनाद् / उक्तं च-गुरुगुणरहिओ अ इहं दहवो मूलगुणविउत्तो जो" ति / मूलगुणसाहित्ये तु समुचितगुणलाभाद् न किश्चिद्गुणवैकल्येनागुरुत्वमुद्भावनीयमिति भावः // उक्तं च-"ण उ गुणमित्तविहणोत्ति चंडरुद्दो उदाहरणं / " ति // 97 // . . . . . . . उचितगुणश्च गुरुन परित्याज्यः, किन्तु तदाज्ञायामेव वर्तितव्यमित्याहएयारिसो खलु गुरू कुलवहणाएण णेव मोत्तव्यो। एयस्स उ आणाए जणा धम्ममि जश्अव्वं // एज॥ एतादृश उचितगुणः खलु निश्चये गुरुः कुलवधूज्ञातेन नैव मोक्तव्यः / यथाहि-कुलवधूभर्ना भत्सिताऽपि तच्चरणौ न परित्यजति, तथा मुशिष्येण भत्सितेनाप्युचितगुणस्य गुरोश्चरणसेवा न परित्याज्येति भावः / 'तु' पुनः, एतस्योचितगुणस्य गुरोराज्ञया यतिना धर्मे यतितव्यम् // 98 // " तदाज्ञास्थितस्य च यो गुणः सम्पद्यते तमाहगुरुआणा ठियस्स य बज्झाणुट्ठाणसुद्धचित्तस्स / अझप्पज्झाणम्मिवि एगग्गत्तं समुन्नस // एए॥ व्याख्या-'गुरुआणाइ 'त्ति / गुर्वाज्ञास्थितस्य च परिणतव्यवहारस्य सतो बाह्यानुष्ठानेन-विहितावश्यकादिक्रियायोगरूपेण, शुद्धचित्तस्य. ज्ञानयोगमति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276