Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 270
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त् तत्र गुरौ विषघातादीन् इमाननन्तरमेव वक्ष्यमाणान् सुवर्णगुणान् योजयन्ति // 93 // ___ अत्रार्थेऽष्टसुवर्णगुणप्रतिपादनाय भावसाधौ गुरौ तद्योजनाय च पूर्वाचार्यकृता एव तिस्रो गाथा उपन्यस्यतिविसघाइ-रसायण-मंगलत्थ-विणए-पयाहिणावत्ते / गुरुए अडऊ-कुच्छे अह सुवन्ने गुणा हुति // ए४॥ ___ व्याख्या--' विसघाइ' इत्यादि / विषघाति-गरदोषहननशीलं सुवर्ण भवति / रसायनमङ्गलार्थविनीतमिति कर्मधारयपदम् / रसायनं-वयःस्तम्भनम्, मंगलार्थ-मंगलप्रयोजनम, विनीतमिव विनीतम्, कटककेयूरादीष्टविशेषैः परिणमनात् / तथा प्रदक्षिणावर्त्तमतितापने प्रदक्षिणात्ति, तथा गुरुकम्, अलघुसारत्वात् / अदाह्याकुत्स्यमिति कर्मधारयपदम, तत्रादायमग्नेरदहनीयम्, सारत्वादेव: अकुत्स्यमकुत्सनीयम्, अकुथितगन्धत्वादिति / एवमष्टौ सुवर्णे हेम्नि गुणा असाधारणधर्मा भवन्ति स्युरिति गाथार्थः // 94 // एतत्समानान् साधुगुणानाहइय मोहविसं घायइ सिवोवएसा रसायणं होइ। गुणन य मंगलत्थं कुण विणीन अ जोग्गो त्तिए॥ ____व्याख्या-'इय' ति / इत्येवं सुवर्णवदित्यर्थः, मोहविर्ष-विवेकचैतन्यापहारिघातयति-नाशयति केषांचित, साधुरिति प्रक्रमः। कुतः ? इत्याह-शिवोपदेशान्मोक्षमार्गप्ररूपणात् / तथा स एव रसायनमिव रसायनं भवति जायते, शिवोपदेशादेवाजरामररक्षाहेतुत्वात् / तथा गुणतश्च स्वगुणमाहात्म्येन च मालार्थ मा. लपयोजनदुरितोपशममित्यर्थः, करोति विधत्ते, विनीतश्च प्रकृत्यैव भवत्यसौ योग्य इति कृत्वा // 95 // मग्गणुसारि पयाक्षिण गंजीरो गरुअओ तहा होइ कोहग्गिणा अडज्जो अकुच्छो सइसीखनावणं // 6 // .. व्याख्या--' मग्गणुसारि 'त्ति / मार्गानुसारित्वं सर्वत्र यत्साधोस्तत्पदक्षिणावर्तत्वमुच्यते / गम्भीरोऽतुच्छचेताः गुरुकको गुरुक इत्यर्थः ' तथा ' इति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276