Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 268
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 257 वर्गादिसुखहेतुह्येति योगः। साऽऽज्ञा सर्वा नाममात्रेणापरीक्षिता सती न ग्राह्या, प्रेक्षावत्महत्ते परीक्षानियतत्वादिति भावः // 89 // एतत्परोक्षोपायमाहकस-छेय-ताव जोगा परिस्कियव्वा य सा सुवएणं व / एसा धम्मपरिग्का णायव्वा बुधिमंतेणं // 9 // . व्याख्या--सा-आज्ञा कपच्छेदतापयोगात् सुवर्णमिव परीक्षणीया / यथाहि-युक्तिस्वर्णे जात्यस्वर्णे च सुवर्णमात्रसाम्येन मुग्धलोकैरभेदेन प्रतीयमाने कषच्छेदतापैविचक्षणास्तत्परीक्षणं कर्तुमुत्सहन्ते, तथाऽऽज्ञायामपि मुग्धैः सर्वत्र नाममात्रादेकत्वेन प्रतीयमानायां विचक्षणास्तत्परीक्षां कपच्छेदतापैः कर्तुमुत्सहन्त इति बुद्धिमतैषा धर्मपरीक्षा ज्ञातव्या। यैव ह्याज्ञा स एव धर्म इत्याज्ञापरीक्षैव धर्मपरीक्षे. ति भावः // 90 // कषादीनेवार योजयितुमाह- . विहिपमिसेहान कसो तङोगकेमकारिणी किरिया। छेन तावो य इहं वान जीवाश्तत्ताणं // ए१ // __व्याख्या--' विहिपडिसेहाउ' त्ति / विधि:-अविरुद्धकर्तव्यार्थोपदेशक वाक्यम् / यथा- स्वर्ग-केवलार्थिना तपोध्यानादि कर्त्तव्यमित्यादि / प्रतिषेधः पुनर्न हिंस्यात् सर्वभूतानोत्यादि / एतौ द्वाविह धर्मपरीक्षायां कप एव, सुवर्णपरीक्षायां कषपट्टकरेखेव / इदमुक्तं भवति- यत्र धर्म उक्तलक्षणौ विधिप्रतिषेधा पुष्कलावुपलभ्येते स धर्मः कपशुद्धः, न पुन: " अन्यधर्मस्थिताः सत्त्वा असुरा इव विष्णुना। . उच्छेदनीयास्तेषां हि वधे दोषो न विद्यते // " -इत्यादिवाक्यगर्भ इति / तयोविधिप्रतिषेधयोर्योगोऽनाविर्भूतयोः संभवम्, क्षेम चाविर्भूतयोः पालना, तत्कारिणी क्रिया भिक्षाटनादिबाह्यव्यापाररूपा छेदः। यथा कपशुद्धावप्यन्तर्गतामधुद्धिमाशङ्कमानाः सौवर्णिकाः सुवर्णगोलिकादेश्छेदमाद्रियन्ते, तथा कपशुद्धावपि धर्मस्य छेदमपेक्षन्ते प्रेक्षावन्तः / स च छेदो विशु For Private and Personal Use Only

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276