Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 267
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वासुदेवप्पामोक्खा विउलं असणं जाव संपवं आसाएमाणा विहरति "त्ति / न चात्र मांसभक्षणादिकं स्वपरिवारभूतमिथ्यादृशामेव तदाज्ञानिमित्तकत्वात् तत्कर्तृक व्यपदिष्टमिति शंकनीयम् , 'वासुदेवप्रमुखा' इत्यत्र सर्वेषामेकक्रियायोगात् सम्यक्त्वनाशके तत्र तदाज्ञानस्याप्यनुपपत्तेश्च / यत्तु वर्णनमात्रत्वेनैतत्सूत्रस्याकिञ्चिस्करत्वं परेणोद्भाव्यते, तस्य महानेव कृतान्तकोपः। एवं सति स्वर्गदर्यादिमतिपादक सूत्राणामपि वर्णनमात्रत्वेनाकिश्चित्करताया वावदूकेन वक्तुं शक्यत्वाद्, लोकनिन्द्यविषयमात्रेणापि यथास्थितार्थप्रतिपादकसूत्रविलोपे नास्तिकत्वस्यानिवारितप्रसरतया सर्वविलोपप्रसङ्गादिति / किश्व-यद्यनन्तकायादिमांसादिभक्षणे सस्यक्त्वस्य मूलोच्छेदः स्यात्, तदा तत्र तपःप्रायश्चित्तं नोपदिष्टं स्यात्, उक्तं च तत्तत्र / तदुक्तं श्रादजीतसूत्रवृत्त्यो: " चउगुरुणं ते चउलहु परित्तभोगे सचित्तवजिस्स। - मंसासववयभंगे छग्गुरु चउगुरु अणाभोगे॥" व्या-सचित्तवर्जस्य श्रावकादेः 'अनन्त'त्ति अनन्तकायानांमूलकादीनां भक्षणे चतुर्गुमायश्चित्तं भवति / यदागम:-" सो उ जिणपडिकुट्ठो अणंतजीवाण मा(बा)यणिप्फण्णो / गेहीपसंगदोसा अणंतकाओ अओ गुरुगा" // 1 // तथा सचित्तवर्जस्यैव श्राद्धादेः 'परित्त 'त्ति प्रत्येकपरिभोगे-प्रत्येकाम्रादिपुष्पफलादिभोगे चतुर्लघुप्रायश्चित्तम् / तथा मांसासवयोरुपलक्षणान्मधुनवनीतयोश्च 'वयभंगे' चि अनाभोगतः पृथग्रवक्ष्यमाणत्वादत्राभोगतो ज्ञेयम् / ततश्चाभोगे सति व्रतस्य नियमस्य भङ्गे षड्गुरु, 'चउगुरु 'त्ति अनाभोगे मांसासवमधुनवनीतानां व्रतभङ्गेषु चतुर्गुरुपायश्चित्तं भवतीति गाथाक्षरार्थ इति / ततो 'मांसभक्षणे सम्यक्त्वं नश्यत्येव ' इत्ययमपि कुविकल्प एवेति बोध्यम् , // 88 // ___ ननु विकल्पोच्छेदेनाज्ञया प्रवृत्तिहितावहोक्ता / न चाज्ञामात्रानुसरणं हितावह सम्भवति, सर्वत्र सौलभ्याद्, दृश्यन्ते हि सर्वेऽपि निजनिजगुर्वाधाज्ञायत्ता इत्युपादेयाज्ञाविशेषमाहआणा पुण जगगुरुणो एगंतसुहावहा सुपरिसुद्धा। अपरिस्किप्राण गिज्का सा सहाणाममित्तणं // 5 // व्याख्या-' आणा पुण 'त्ति / आज्ञा पुनर्जगद्गुरोत्रिभुवनधर्मगुरोर्भगवतो वीतरागस्य सुपरिशुद्धा सम्यक्परीक्षामाता एकान्तसुखावहा नियमेन स्वर्गाप For Private and Personal Use Only

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276