Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 255 'तदेवं केवलिनोऽवश्यंभाविनी जीवविराधना न भवति'इति स्वमतिविकल्पनमनर्थहेतुरित्येतादृशाः कुविकल्पा मोक्षार्थिना त्याज्या इत्याहतिवासग्गहदोसा एयारिसया हवं ति कुविगप्पा। ते नच्छिंदिय सम्म आणा मुणी पयट्टिका // // तीवात्-सम्यग्वक्तृवचनानिवर्तनीयत्वेनोत्कटाद्, अभिनिवेशाद्विपर्ययग्रहादेतादृशकाः कुविकल्या भवन्ति, तानुच्छिद्य सम्यगाज्ञायां गुरुशास्त्रपारतन्यलक्षणायां मुनिः प्रवर्त्तत, न तु बहुश्रुतखादिख्यातिमात्रेण स्वमतिविकल्पजाल. ग्रथनरसिको भवेदिति / 'एतादृशकाः' इत्यतिदेशेन यः परस्यायं कुविकल्पोऽ स्ति-यो मांसमश्नाति तस्य सम्यक्त्वं न भवत्येवेति, सोऽप्यपास्तो बोद्धव्या, केवलसम्यक्त्वधारिणोऽविरतेरेव माहात्म्यादितराभक्ष्यभक्षणस्येव मांसभक्षणादपि निवृत्तेरनियमात् / यदि च सद्यः सम्मूच्छितानन्तजन्तुसन्तानदूषितं तद् ज्ञात्वा भुञानस्य सर्वांशानुकम्पाराहित्यान सम्यक्त्वमित्यभ्युपगमा, तदाऽनन्तजन्तुमयं ज्ञात्वा मूलकादिकं भक्षयटोऽपि सम्यक्त्वक्षतिरभ्युपगन्तव्या स्याद् / यदि च मांसभक्षणस्यातिनिन्द्यत्वात्तस्य सम्यक्त्वनाशकत्वं तदा परदारगमनस्य तत्सुतरां स्यादिति तयसनवतः सत्यकिमभृतेः सम्यक्त्वमुच्छिद्येत। एतेन 'बिल वासिनामपि मनुजानां तथाविधकर्मक्षयोपशमेन यदि मांसपरिहारनियन्तृत्वं तदा सम्यग्दृशां तत्सुतरां स्यादिति मांसभक्षणे सम्यक्वक्षतिरेव' इति निरस्तम्, सम्यक्त्वस्य भधर्मत्वेन कुलधर्ममात्रत्वाभावात् , तथाविधकर्मपरिणतेरनुचितप्रवृत्तिमतोऽपि श्रद्धानगुणेन तदनपगमात् / अन्यथा स्तेनानामपि केषाञ्चित्परदारगमनपरिहारनियन्तृत्वात् , ततोऽनिवृत्तस्य सत्यकिमभृतेः सम्यक्त्वमुच्छिद्येतैवेति। न च मांसाहारस्य नरकायुर्बन्धस्थानत्वादेव तदनिवृत्तौ न सम्यक्त्वमिति शङ्कनीयम् , महारम्भमहापरिग्रहादीनामपि तथात्वात् , तदनिवृत्तौ कृष्णवासुदेवानामपि सम्यक्त्वापगमापत्तेः / किं च-सम्यक्त्वधारिणां कृष्णप्रभृतीनां मांसभक्षणेऽपि सम्यक्त्वानपगमः शालेऽपि श्रूयते / तदुक्तं षष्ठाणे-तएणं दुवए राया कंपिल्लपुरं णगरं अणुपविसइ, अणुपविसित्ता विउलं असणं 4 उवक्खडावेइ, उवक्खडावित्ता कोडुबियपुरिसे सहावित्ता एवं वयासी-गच्छह णं तुम्मे देवाणुप्पिया विउलं असणं 4 मुरं मर्ज मंसं च पसन्नं च मुबहुपुष्फफलवत्थगंधमलालंकारं वासुदेवपामोक्खाणं रायसहस्साणं आवासेसु साहरह / तेवि साहरंति / तएणं ति For Private and Personal Use Only

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276