Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 265
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 254 स्थानवर्तिनि तदभ्युपगन्तव्यं स्यात् / किञ्च-क्षीणमोहस्य केवलित्वविवक्षा केनापि न कृतेति कथं भवता कर्त्तव्या ? नहि स्वल्पकालभाविकेवलज्ञानस्यापि छद्मस्थस्य केवलित्वविवक्षा कर्तुं युज्यते / अत एव " छ ठाणाई छउमत्थे सबभावणं ण जाणइ, ण पासइ / तं०-धम्मत्थिकायं अधम्मत्यिकायं आगासं जीवं असरीरपडिबद्धं परमाणुपोग्गलं / एताणि चेव उप्पण्णणाणदंसणधरे जाणति'-इत्यादि स्थानाङ्गसूत्रे / " इह छमस्थो विशिष्टावध्यादिविकलः, नत्वकेवली, यतो यद्यपि धर्माधर्माकाशान्यशरीरजीवं च परमावधिर्न जानाति, तथापि परमाणुशद्वौ जानात्येव, रूपित्वात् तयोः, रूपिद्रव्यविषयत्वाचावधेः।"-इत्यादि वृत्तावुक्तम् / अत्र परमावधेरन्तर्मुहर्तादूर्ध्वमुत्पत्स्यमानकेवलज्ञानस्यापि केवलित्वविवक्षा न कृता। यदि च परमावधिमतः केवलित्वविवक्षामकरिष्यत् तदा व्यभिचारशङ्खव नास्तीति छमस्यपदस्य विशेषपरत्वं नावक्ष्यद् वृत्तिकारः / तस्मात् क्षीणमोहस्याप्यन्तर्मुहूर्तादूर्ध्वमुत्पत्स्यमानकेवलज्ञानस्य. कथश्चित्केवलित्वविवक्षा शास्त्रबाधितैवेति / यदि च क्षीणचारित्रावरणत्वाद्धेतोः क्षीणमोहे केवलित्वं दुर्निवारं, तदा निरतिचारसंयमत्वादप्रतिषेवित्वाचोपशान्तमोहे कषायकुशीले च तदुर्निवारं स्यादिति बोध्यम् / यञ्च रागद्वेषवत्त्वच्छमस्थत्वादीनामैक्यौद्भावनेन दूषणं दत्तं, तत्तु न किश्चिद्; एवं सति समनियतधर्ममात्रव्याप्त्युच्छेदप्रसङ्गादिति दिग् / / 'इदं खिहास्माकमाभाति-यदालोचनायोग्यविराधनादिकं छद्मस्थमालिङ्ग, तदभावश्च केवलिनो लिङ्गम् , 'कदाचिद्' इत्यनेन 'कदाचिदपि' इत्यनेन चैतदर्थस्यैव स्फोरणात् / आलोचनायोग्यताया अनाभोगप्रयुक्तकादाचित्कतानियतत्वाद् , इतरत्र च तदभावाद् / इत्थं च केवली न कदाचिदपि प्राणानामतिपातयिता भवति, क्षीणचारित्रावरणत्वाद्-इत्यादौ विशिष्टो हेतुरनुसन्धेयः, अन्यथा केवलित्वगमकानि लिङ्गानि क्षीणमोहे न सन्ति, किन्तु स्वरूपतः सन्ति / यथा-वहिरनुष्णः, कृतकत्वाद्-इत्यनुमाने कृतकत्वं वह्नौ स्वरूपतः सदप्यनुष्णत्वंगमकलिङ्गत्वेन नास्तीति प्रत्यक्षबाधितपक्षत्वादगमकं प्रोच्यते, तद्वत् 'क्षीणमोहे सप्तापि स्थानानि' इत्युक्तावपि न निस्तारः, तद्वदेवामयोजकत्वेन प्रकृतिलिङ्गव्यभिचारानुद्धारात्। नह्ययः पिण्डो धूमवान् ,, वह्निमत्वाद्-इत्यत्र पक्षदोषमात्रेण हेतुदोषो निराकत्तुं शक्यते-इत्यनुमानहेतुत्वे उक्तमकार आश्रयणीयः, सम्भावनाहेतुत्वे तु न किमप्युपपादनीयम्-इत्युपयुक्तैविभावनीयमिति दिक् // 87 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276