Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 235
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 प्रायश्चित्तं दशविधं तस्यान्यतरं भेदमुपैति तद्विवेकं वाऽभावाख्यमुपैति, तत्करोति येन कर्मणोऽभावो भवतीति // " - अत्र गुर्वादेशविधायिनमभिक्रमणादिव्यापारवन्तमप्रयत्तसंयतमवश्यंभाविजीव विराधनाभागिनमनूद्य कर्मबन्धाअन्धविशेषविधानं वृत्तौ पूरितम् , अनाकुट्टिकयाऽऽकुट्टिकया च जीवविराधनाकारिणं प्रमत्तसंयतमन्येहलोकवेदनवेद्यापतितस्य विवेकयोग्यस्य च कर्मबन्धस्य विधानं साक्षादेव सूत्रेऽभिहितम्, तत्र केवली * उद्देसोपासगस्स पत्थि ! ति वचनाद् गुर्वादेशविधायित्वाभावात् सम्भावितभाविजीवघातभयाविनाभाविनियताभिक्रमणादिक्रियाभावाच नानूद्य इति तद्वहि र्भावेनैवावश्यंभाविजीवविराधनानिमित्तकबन्धाबन्धविचार इति परोऽभिमन्यते, तन्महामृषावादविलसितम् / साक्षादेव केवलिनमन्द्य वृत्तौ तत्समर्थनस्य ब्रह्मणापि पराकर्तुमशक्यत्वात् / तत्रानूद्यतावच्छेदकधर्म विरोधोद्भावनेन च वृत्तिकृत एव सूत्राभिप्रायानभिज्ञतां वक्तुमुपक्रान्तो देवानां प्रियस्तमेव मन्यमानस्तमेव वाऽवमन्यस इति महाकष्टं तद् / न चैतद्विरोधोद्भावनं विचार्यमाणं चमत्कारकारि,गु देशविधायित्वस्य भगवति फलतोऽभिधानाविरोधाद् , अत एव " किं ते भंते ! जत्ता ? सोमिला ! जं मे तवणियमसंजमसज्झायज्झाणावस्सयमाईसु जयणा / सेतं जत्ता”। इत्यत्र सूत्रे एतेषु च यद्यपि भगवतो न किश्चित्तदानीं विशेषतः सम्भवति, तथापि तत्फलसद्भावात्तदस्तीत्यवगन्तव्यमित्युक्तम् / अभिक्रमणादियतनाव्यापाराश्च याशाश्छमस्थसंयतानामयतनाभयाविनाभाविनस्तादृशा एवायतनामयाभावेऽपि भगवतः सम्भवत्येव, साधुसमानधर्मतयैव कल्पिकपरिहारादियतनावदभिक्रमणादियतनाया अप्युपपत्तेरिति न किञ्चिदेतत् / यत्ववश्यंभावित्वं प्रायोऽसम्भविसम्भविकार्यत्वम् , यदेव हि प्रायोऽसम्भवि सत् कदाचित्सम्भवति तदेवावश्यम्भावीति व्यवहियते, अन्यथा सर्वमपि कार्यमवश्यमावित्वेन वक्तव्यं स्यात् ; पञ्चसमवायवादिभिर्जनैः सर्वस्यापि कार्यस्य नियतिजन्यतामधिकृत्यावश्यभावित्वेनेष्टत्वात् , कालादिषु पञ्चसु कारणेषु नियतेरपि परिगणनाद् , अत एव जमालिनिमित्तकनिहवमार्गोत्पत्तिरवश्यभाविनीति प्रवचने प्रतीतिः / तोर्थकरदीक्षितशिष्यात् निद्भवमार्गोत्पत्तेः प्रायोऽसम्भविसम्भवाद् , एवमप्रमत्तसंयतस्य कायादिव्यापाराज्जायमानानाभोगवशेन कादाचिकीत्यवश्यभाविनी वक्तुं युज्यते नतु केवलिनः, तस्य तत्कादाचित्कतानियामकानाभोगाभावादिति नावश्यंभाविविराधनावन्तं केवलिनमन्ध किमपि विचार For Private and Personal Use Only

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276