Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 255
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 तस्पतिबन्धकत्वादिति / अत्र च छमस्थत्वज्ञापकलिङ्गानां समानामपि मोहनीयकमजन्यत्वेन परस्परानुविद्धानां स्वरूपयोग्यतया निश्चयतः सर्वकालीनत्वेऽपि फलो-. . पहितयोग्यतया व्यवहारेणानवरतं नियमाभावोऽप्यायेषु पञ्चस्वेव, चरमयोस्तु इयोलियोः सामान्यतः सर्वकालीनत्वेन सूक्ष्मदृशां पुरःस्फूर्तिकत्वात् , ताभ्यां छा. स्थस्वनिर्णयो विवक्षितपरीक्षाकाले सुलभ एव / तथा हि-इच्छाकारादिसाधुसामाचारोपरायणस्य छमस्थसंयतस्य गमनागमनस्थितिशयनाशनासनपत्युपेक्षणादिकियासु चक्षुषा पुनः पुननिरीक्षणं, (निरीक्ष्य) च यथासम्भवं रजोहरणादिना प्रमार्जन, प्रमृज्य च हस्तपादायवयवानां यथास्थानेऽभ्यसनं त्वपरावर्तन, तथैव वखपात्रायु. पकरणानामादाननिक्षेपणम्, प्रमृजतश्च रजोहरणादिक्रियया मक्षिकापिपीलिकादीनां भयत्रासोत्पादनेनेतस्ततो नयनं चेत्याधनेकपकारमनुष्ठानं सम्भावितभाविजीवधातादिदोषभयजन्यं काल मधिकृत्यानियतमप्यन्यतमत्किंचिदनवरतं भवत्येव, तत्रापि पिरिलीकादिजन्तूनां भयत्रासोत्पादनं सावधमिति प्रज्ञाप्य जीवघातवर्जनाभिमायवतोऽप्यशक्यपरिहारेण तत्प्रतिषेवणं षष्ठलिङ्गात्मकं छद्मस्थत्वाभिव्यञ्जकं सामान्यतः सर्वकालीनसुलभमेव / तत्सतिषेवणे च संयतो न यथावादी तथा कर्तेत्यपि मन्तव्यम्, अशक्यपरिहारेणापि प्रत्याख्यातस्य सावद्यस्य प्रतिषेवणादिति केवलिनोऽपि परीक्षायां विपरीतानि छद्मस्थलिङ्गानि द्रव्यरूपाप्येव ग्राह्याणि, तेषामेव छबस्थज्ञानगोचरत्वेनानुमितिजनकत्वात् / यथाहि-छद्मस्थसंयतोऽनाभोगसइकृतमोहनीयवशेन कदाचित्माणानामतिपातयिता भवति, परीक्षोपयोगिधात्यजीवानां सम्पर्कस्य तद्विषयकानाभोगस्य च कादाचित्कत्वात् ; तथा केवली न भवतीत्येवं प्राणातिपातादिविपर्ययलि.द्रव्यरूपैः केवलित्वं साध्यमिति / स च केवली द्विविधो प्रायः-सद्भूतकेवली, अन्तर्मुहूर्तभाविकेवलज्ञानाभिमुखः क्षोणमोहश्च / यथा बद्धदेवायुर्देवगत्यभिमुखत्वेन देवखव्यपदेशविषयः प्रवचने प्रतीतः, तयाऽन्त: मुहर्त्तनोत्पत्स्यमानकेवलज्ञानः क्षीणमोहोऽपि केवलिव्यपदेशविषयो भवत्येवेति, तथा भाविनि भूतवदुपञ्चारः' इनि न्यायात् प्रत्यासन्नभाविपर्यायस्य भूतवद्भणनं युक्तमेव / यया गर्भस्थोप्यर्हन् शक्रेण भावाहर्तया स्तुतः / एवं क्षोणमोहमात्रस्य मास्यवीतरागस्यापि कयश्चित्केवलित्वव्यपदेशो न दोषावहः / किं च-केवलिस्वगमकानि सप्तापि लिङ्गानि मोहनीयक्षयसमुत्यान्येव, 'केवली हि क्षीणचारिप्रावरणत्वानिरतिचारसंयमत्वादमतिषेवित्वान्न कदाचिदपि प्राणानामतिपात For Private and Personal Use Only

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276