Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 257
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 करणे प्राणातिपातकत्वादयः सर्वेऽपि हेतवः स्वरूपासिद्धतामाप्नुवन्ति, प्राणातिपातादिनिमित्तक्रियाभावेन तस्य प्राणातिपातकत्वाद्यभावात् / यथा हि-कर्मग्रन्यायभिप्रायेण निद्रोदयस्याप्रमत्तादिगुणस्थानेषु सत्त्वेऽपि न तेन प्रमत्तत्यम्, द्रव्यतो निद्राविषयादिवत्वस्य प्रमत्तत्वाप्रयोजकत्वात् तथा द्रव्यतो जोवविराधनायामप्यप्रमत्ताःप्राणातिपातकानप्रोच्यन्त इति / न चौपचारिकैरपारमार्थिकद्रव्यतः प्राणातिपातकत्वादिभिस्त्वत्कल्पितैरपि पारमार्थिकं छद्मस्थत्वं साधयितुं शक्यते, द्रव्यतो विरतिमहाव्रतवत्वादिभिः परिव्राजकेष्वभव्यनिहवादिषु च पारमार्थिकविरतत्वचारित्रित्वादिसाधनप्रसक्तेः। किं च-औपचारिक प्राणातिपातकत्वं 'यावजीवः सयोगस्तावदारभते' इत्याद्यागमवचनादेव प्रसिद्धव्यभिचारमिति सद्भूतप्राणातिपातकत्वादिभिश्छद्मस्थत्वस्य साधनात् प्रमत्त एवात्र पक्षोकार्यः, तेन न स्वरूपासिद्धिः, तत्र पारमार्थिकानां हेतूनां सत्यादिति / किंच-'व्यापादनशीलो . भवति ' इत्यत्र फलनिरपेक्षा वृत्तिः शीलमिति, शीलार्थत्वात् , तस्याश्च स्वभावनिवन्धनत्वात् प्राणातिपातादिस्वभावहेतुसिद्धयर्थं प्रमत्त एव पक्षीकर्तव्य इति / न च प्रमत्तत्वादेव तत्र छद्मस्थत्वरूपसाध्यस्यापि प्रतीतत्वात्साध्यत्वाभावः, 'अप्रतीतमनिराकृतमभीप्सितं साध्यम् ' इति वचनादिति वाच्यम् , व्यामूढमनसां तव्यामोहनित्यर्थं छद्मस्थत्वस्य साध्यमानत्वोपपत्तेः। "प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम् / तव्यामोहनित्तिः स्याद् व्यामूढमनसामिह // " / इति न्यायावतारवचनात् / यथा हि-सास्नादिमत्वाद् गवि गोत्वसिद्धेऽपि व्यामूढस्य तत्प्रतिपत्त्यर्थं प्रयोगः क्रियते-यथा इयं गौः, सास्नादिमत्वात् , यत्र गोत्वाभावस्तत्र सास्नादिमत्वाभावो यथा महिष इत्यादि / एवमत्रापि पुरुषविशेषे प्रमत्तत्वाच्छद्मस्थत्वे सिद्धेऽपि व्यामूढस्य ज्ञापनार्थमनुमाने कर्तव्ये छद्मस्थत्वस्य साध्यत्वं घटत एवेति / एतेन निद्राविकथादिपमादवतश्छद्मस्थत्वेन संशयानुपपत्तेन तत्परिज्ञानाय लिङ्गापेक्षेत्यपि निरस्तम्, उक्तयुक्त्या व्यामोहनिरासार्थं तदुपपत्तेः, विपतिपत्यादिना केवलिच्छमस्थविशेषज्ञस्यापि संशये सति तत्साधनोपपत्तेश्च। न च सूत्रे प्राणातिपातकत्वादीनां सामान्येन छद्मस्थलिङ्गत्वेन प्रोक्तत्वात प्रमत्तछद्मस्थरूपविशेषे व्याख्यायमाने सूत्राशात For Private and Personal Use Only

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276