Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 256
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यिता भवति' इति वचना, तेन लिङ्गापेक्षया द्वयोरपि साम्यमेव / एवं च सति यदि क्षीणमोहस्य छअस्थवीतरागस्य कथंचित्केवलित्वं नाभ्युपगम्यते, सहि क्षीणमोहे छत्रस्यवीतरागे सप्तापि लिङ्गानि व्यभिचरन्ति, तत्र हेतुषु विद्यमानेषु साध्यस्य केवलित्वस्यासत्त्वात् / नन्वास्तामन्यत् , परं केवलिनः पञ्चानुत्तराणि भवन्ति / यदागमः-"केवलिस्स थे पंच अणुत्तरा पं० / तं०-अणुत्तरे नाणे, अणुत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तबे, अणुत्तरे विरिए"त्ति / एतानि पश्चापि केवलिनिवर्तमानानि कथं केवलित्वममकलिङ्गतया नोक्तानि ? इति चेद्, उच्यते-एतेषां पञ्चानामपि छपस्थज्ञानागोचरत्वेनानुमितिजनकत्वाभावात् न लिङ्गानि भवितुमईन्ति, प्रत्युत केवलज्ञानादिपरिज्ञानार्थमेवोक्तलिङ्गानां प्रज्ञापनेति / एतेन सप्तापि प्राणातिपातादीनि छद्मस्थानां रागद्वेषजनितानि, तेषां तयोः सच्चात् / केवलिनस्तु रागद्वेषजनितानां तेषां निषेधो न पुनः सर्वथा निषेधा, चक्षुःपक्ष्मनिपातमात्रजन्याया असङख्येयवायुकायजीवविराधनायाः केवलिनोऽप्यनिवृत्तेरिति नि. रस्तम्, अशक्यपरिहारस्यापि केवलिनि निरासात् / 'किंच-परकीयरागद्वेषयोस्तदभावस्य च निरतिशयच्छवस्थज्ञानागोचरत्वेन तयाभूतच्छवस्थमात्रानुमितिजनकलिङ्गानां विशेषणत्वासम्भवात् , सम्भवे च यो रागद्वेषवान् स छमस्थः, यस्तु रागद्वेषरहितः स केवलोति विशेषणज्ञानमात्रेण छद्मस्थकेवलिनोविवेकेन सम्यग्निर्णये जाते प्राणातिपातादीनां तन्निषेधरूपाणां च विशेष्यपदानां भणनमुन्मत्तप्रलापकल्पं सम्पयेत, प्रयोजनाभावात् , धर्मोपदेशादिक्रियामात्रस्यापि तथात्वेन सप्तसङ्ख्याभणनस्यायुक्तत्वाच्च / किंच-अप्रसिद्धविशेषणदानेन हेतूनां सन्दिग्धस्वरूपासिद्धतापि, तथा रागद्वेषवत्त्वछद्मस्थत्वयोस्तद्राहित्यकेवलित्वयोश्चैक्यमेवेति हेतोः साध्यघटितत्वेन हेतुस्वरूपहानिः; तस्मादविशिष्टानामेव छद्मस्थगम्यमाणातिपावादिनिषेधरूपाणां केवलित्वगमकलिङ्गत्वं पतिपन्यम् / यत्तु छद्मस्थत्वज्ञापकलिङ्गेषु कदाचिद् ' इति विशेषणं टीकाकारण दत्तं वत्ससानामपि लिङ्गानां स्वरूपासिद्धिचारणार्थम्, नहि छअस्थसाधावनवरत प्राणातिपातादिशीलत्वं सम्भवतीति / यच्च केवलित्वज्ञापकलिङ्गेषु 'कदाचिदपि, इति विशिष्टविशेषणमुपात्तं तच्छद्मस्थसाधौ व्याभचारवारणाय; भवति ह्येतद्विशेषणं विना छप्रस्थसाधौ प्राणातिपातायभावावस्थायां हेतुषु विद्यमानेषु केवलित्वाभावेन व्यभिचार इति / . अत्र वदन्ति-'सत्तहिं ठाणेहिं छउमत्थं जाणिज्जा' इत्यत्राममत्तस्य पक्षी. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276