Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 251 मृषाभाषणं तन्मूलकमेव स्यात् , तथा च क्षीणमोहे तस्याप्यभावः प्राप्नोति / न. नूक्तं तदनाभोगहेतुकमेवेति चेत् , तर्हि तादृशं द्रव्यतो मृषाभाषणमेव किमिति नाभ्युपेयते ? किं सम्भावनया ? न च द्रव्यभूतेन तेन प्रत्याख्यानभङ्गो भवति, भावभूतस्यैव तस्य प्रत्याख्यातत्वात् , “प्रमत्तयोगादसदभिधानं मृषा" इति तत्त्वाथवचनात् / न च भावतः प्राणातिपातमृषाभाषणादेर्यत्कारणं तदेव तस्य द्रव्यतोऽपीति क्षीणमोहेन तत्सम्भवतीति वाच्यम्, एवं सति भावतो ज्ञानदर्शनचारित्राणां यानि कारणानि तान्येव द्रव्यभूतानां तेषां कारणानि स्युरिति अभव्यादोनामपि द्रव्यता ज्ञानदर्शनचारित्रवतां ज्ञानावरणीय-दर्शनमोहनीय-चारित्रमोहनीयकर्मक्षयोपशमाः कारणानि स्युः / तथा चागमवाधा। .. किञ्च-एवं केवलिनो द्रव्येन्द्रियाणामध्यभावापत्तिा, भाषेन्द्रियहेतुज्ञानावरणदर्शनावरणक्षयोपशमयोः केवलिन्यभावाद् / न च द्रव्येन्द्रियाभावः केवलिन्युक्तः, किन्तु भावेन्द्रियाभाव एवेति / किं च-उपशान्तमोहे यथा जीवविराधना मोहनीयकारणमन्तरेणापि भवति, तथा क्षीणमोहे मोहाभावेऽपि द्रव्यतो जीवविराधनामृषाभाषादिसद्भावे किंवाधकम् ? अथास्त्येवागमबाघा / तथा हि-" रायगिहे जाव एवं वयासी, अह भंते ! पाणाइवाए मुसावाए अदिण्णादाणे मेहुणे परिग्गहे': एसणं कतिवण्णे कतिगंधे, कतिरसे कतिफासे पण्णत्ते ? गोयमा ! पंचवण्णे दुगंधे पंचरसे चउफासे पण्णते " इत्यादि भगवतीसूत्रे द्वादशशते पञ्चमोद्देशके प्रोक्तम् / 'रायगिहे' इत्यादि / 'पाणाइवाए' ति प्राणातिपातजनितं तज्जनकं वा चारित्रमोहनीय कर्मोपचाराद प्राणातिपातः, एवमुत्तरत्रापि, तस्य च पुद्गलरूपत्वात् वर्णादयो भवन्ति, अत उक्तं 'पंचवण्णे' इत्यादि। आहच-"पंचरस-पंचवणेहिं परिणाय दुविहगंधचउफासं। दवियमणंतपएस सिद्धेहिं गतगुणहीण // " इत्याघेतवृत्तायुक्तम् / एतदनुसारेण च प्राणातिपातादीनां चारित्रमोहनीयत्वात् क्षीणमोहे तदनुपपत्तेः। उपशान्तमोहे तु मोहसद्भावात्माणातिपाताधङ्गीकारे न किञ्चिद्वाधकमिति चेद् / एतदप्यसत, भाषमाणातिपातापेक्षयैवोक्तोपचारव्यवस्थितेः, अन्यथा द्रव्यमाणाविपातादीनां चारित्रमोहनीयकर्मजनकत्वे सूक्ष्मसम्परायादौ षड्विवन्धकत्वादि न स्यात् / तजन्यत्वे च तस्योदितस्यानुदितस्य वा जनकत्वं वाच्यम् / आधे उपशान्तमोह. द्रव्यमाणातिपातायनुपपत्तिः / अन्त्ये च चारित्रमोहनीयसत्तामात्रादुपशान्तमोहे. तत्कार्यमाणातिपातस्वीकारे नान्यादीनां सप्तानां परीषहाणामपि तत्र स्वीकारा For Private and Personal Use Only

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276