Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 249 यतिजीतकल्पसूने प्रोक्तम् / " आलोचनाप्रायश्चिचं विवेकप्रायश्चित्तमित्येते द्वे प्रायश्चित्ते निर्ग्रन्थस्य भवतः, स्नातकस्य केवल एको विवेकः।" इति तत्तौ। अत्र स्नातकस्य केवलविवेकप्रायश्चित्तभणनेन निग्रन्थयोरुपशान्तक्षीणमोहयोसलोचनाविवेकप्रायश्चित्ते देऽविशेषेणैवोक्ते सम्भाव्येते; अन्यथा निर्ग्रन्थे विकल्पायमकरिष्यत्; यथा-कुत्रचिन्निग्रन्थे विवेकमायश्चित्तमेव, कुत्रचिवालोचनाविवेकरूपे दे इति; न चैवं कचिदुपदर्शित मिति माध्यस्थ्येन पालोच्यम् / तथा चालोचनाप्रायश्चित्तशोध्या द्रव्यविराधना केवलिविलक्षणे क्षीणमोहे शाखसिद्धति द्रव्यतो मृषाभाषणं क्षीणमोहे न भवतीति यद्वचनं तन्निरर्थकमेव / यत्तु तत्रानाभोगहेतुकं सम्भावनारूढं जीवविराधनावत्मृषाभाषणमुपपादितं तत्र दृष्टान्तासिद्धिः, द्रव्यतो जीवविराधनाया तत्रोपपादितखाद्, भगवत्यामपि तत्र जीवविराधनायाः स्पष्टमुक्तत्वाच / तथा च तत्सूत्रं 18 श०-" अणगारस्स णं भंते ! भाविअप्पणी पुरओ दुहओ जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुकुडपोए वा बट्टापोए वा कुलिंगच्छाए वा परियावजेजा, तस्स णं भंते ! किं इरियावरिया किरिया कज्जइ, संपराइआ किरिया कज्जइ ? गो० अणगारस्सगं भविअप्पणों जाव तस्स गं इरियावहिआ किरिया कज्जइ, णो संपराइथा किरिया कज्जइ / केणटेणं भंते ! एवं वुच्चइ ? जहा सत्तमसए संवुड्डद्देसए व जाव अट्ठो मिक्सितो" ति // 'पुरो 'त्ति अग्रतः, 'दुहओ'त्ति द्विधा--अन्तराऽन्तरा पार्वतः पृष्ठतशेत्यर्थः, 'जुगमायाए 'त्ति यूपमात्रया दृष्टया, 'पेहाए 'त्ति प्रेक्ष्य 'रीयंति गतं गमनं 'रीयमाणस्स 'त्ति कुर्वत इत्यर्थः, 'कुकुडपोयए' ति कुकुंदादिपोतः, * वट्टापोयए 'त्ति इह वर्तकः पक्षिविशेषः, 'कुलिंगच्छाए व 'त्ति पिपीलिकादिसदृशः, 'परियावज्जेज 'त्ति पर्यापयेत-म्रियते / एवं जहा सत्त मसए' इत्यादि। अनेन यत्सूचितं तस्यार्थलेश एवम्-अथ केनार्थेन भदंत ! एवमुच्यते ? गौतम! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति, तस्येर्यापथिक्येव क्रिया भवति "-इत्यादि तवृत्तावुक्तम् / - अत्र भावितात्माऽनगार उपशान्तः क्षीणमोहच ग्राह्यः, अन्यस्येपथिकीक्रियाऽभावात् , केवलिनथानाभोगपयुक्तोक्तविशिष्टगसनासम्भवादिति वदन्ति / तथा सम्भावनारुवं मृषाभाषणं द्रव्यभावाभ्यां भिन्नै न कुलाप्युपदर्शित मिति क्षीणमोहे तदभिधानं भवतोऽपूर्वपाण्डित्याभिव्यकमेव, द्रसभावाविस्तिस्य सम्भावनारूढस्य शविषामचदवस्तृत्वात् / मब व्यक्तिमतिरूपं सम्भवे सम्भाव्ये For Private and Personal Use Only

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276