Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 247 नेति वाच्यम्, सूत्रस्य सूत्रान्तरसम्मत्या व्याख्यानकरणे आशातनायाः परित्यागात् / किंच-भवतोऽप्यप्रमत्तरूपछद्मस्थविशेषमुपादायैव व्याख्यानकरणान्नैतद्विषये पर्यनुयोग एव युज्यते / " यत्रोभयोः समो दोषः परिहारोऽपि वा समः / नैकः पर्यनुयोक्तव्यस्तागर्थविचारणे // " इति वचनात् / ननु प्रमत्तस्य पक्षत्वेऽप्रमत्तसंयते कथं छमस्थत्वं स्याद् ? लिङ्गाभावाद्-इति चेद्, न / लिङ्गिनि लिङ्गावश्यंभावनियमाभावाद्, धूमं विनापि तप्तायोगोलके वह्रिदर्शनात् / ननु यद्येवं प्रमत्तस्य पक्ष भावतः प्राणातिपातकत्वादीनां च लिङ्गत्वं तदा छद्मस्थत्वगमकलिङ्गेषु कदाचिद् '-इति विशेषणं यत्टीकाकारेण दत्तं तदनुपपन्नं स्याद्, अप्रमत्तसंयतपक्षे द्रव्यप्राणातिपातादीनां लिङ्गत्वे हि तेषां सार्वदिकत्वाभावेन स्वरूपासिद्धिवारणार्थं तदुपपन्नं स्यात् / प्रमत्तसंयतपक्षे भावाप्राणातिपातस्य सार्वदिकत्वेन तद्विशेषणस्यानुपपत्तिरेवेति / भैवम् , अविशेषेणो. क्तस्य प्राणातिपातकत्वादेः स्वरूपसिद्धत्वाभावेन 'कदाचिद्'-इत्यस्योभयमतेऽपि स्वरूपविशेषणत्वात् कालिकसम्बन्धेन व्याप्तेरभिप्रेतत्वेऽपि 'कदाचिद् ' इत्यस्य कालान्तरोपसङ्ग्रहेऽनुपयोगाद्, यदा प्राणातिपातकत्वादिकं तथा छद्मस्थत्वमिति नियमसिद्धौ ‘कदाचिद् ' इत्यनेन किमुपकर्त्तव्यमेतादृशनियमस्फोरणं विनेति / केचित्तु केवली कदाचिदपि प्राणानामतिपातयिता न भवतीति यत्केवलिना लिअमुक्तं तत्सर्वाप्रमत्तानामपि समानमिति तव्यावृत्यर्थं छद्मस्थलिङ्गेषु कदाचिद् ' इति विशेषणमुक्तम् / इत्थं चाप्रमत्तानां प्रमत्तगुणस्थानवतित्वे प्रमत्तत्वात् कदाचिद्रावतोऽपि यत्पाणातिपातकत्वं सम्भवति, न तु केवलिनः, तस्य देशोनपूर्वकोटीकालमप्यप्रमत्तत्वस्यैव भावादिति विशेषोऽबबुद्धो भवति / न चाप्रमत्ता अपि सर्वदा माणानतिपातका एव भवन्ति, प्रमत्तत्वेन प्राणातिपातकत्वेऽत्वप्रमत्ता एव नोच्यन्ते इत्यतिप्रसक्त्यैवैतल्लक्षणमिति वाच्यम्, अप्रमत्तस्य प्रमत्सगुणस्थानवर्तिनो जीवधाते अहो ' अप्रमत्तोऽपि जीवघातं करोति' इति व्यपदेशसम्भवात् , चतुदशपूर्व्यादीनां चतुर्गतिकत्वा दिवचनवदेतदुपपत्तेः / यथाहि-'भगवानपि भुवनगुरुरुन्मार्गदेशनात्सागरोपमकोटाकोटीं भ्रान्तः' इति योगशास्त्रदृत्तिवचनम् / लोकेऽपि च घृतघटे घृताभावेऽपि 'घृतघट ' इति व्यपदेशो भाविनि भूतवदुपचारेण दृश्यते, तथैवाप्रमत्तादिगुणस्थानवर्तिनोऽपि प्रमादवत्त्वे भावतः प्राणातिपातक For Private and Personal Use Only

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276