Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 च योगवीर्यमुक्तं तद्भावपरिणामरूपमेव, ययोक्तं सूत्रकृताङ्गवीर्याध्ययनवृत्तौ / तथा मनोवाकायादीनां तद्भावपरिणतानां यद्वीय सामर्थ्य तद्विविध-सम्भवे सम्भाव्ये च। सम्भवे तावत्तीयकृतामनुत्तरोपपातिकानां च सुराणामतीव पटूनि मनोद्रव्याणि भवन्ति / तथाहि-तीर्थकृतामनुत्तरोपपातिकसुरमनःपर्यायज्ञानिमश्नव्याकरणस्य द्रव्यमनसैव करणाद्, अनुत्तरोपपातिकमुराणां च सर्वव्यापारस्यैव मनसा निष्पादनादिति / सम्भाव्ये तु यो हि यमर्थ पटुमतिना पोच्यमानं न शक्नोति साम्पत परिणमयितुं, सम्भाव्यते त्वेष परिकर्यमाणः शक्ष्यत्यमुमथै परिणमयितुमिति / वाग्वीर्यमपि द्विविध-सम्भवे संभाव्ये च।तत्र सम्भवे तीर्थकृतां योजननिर्हारिणी वाक् सर्वस्वभाषानुगता च; तथाऽन्येषामपि क्षीरमध्वाश्रवादिलब्धिमतां वाचः सौभाग्यमिति / तथा हंसकोकिलादीनां सम्भवति स्वरमाधुर्यम् / सम्भाव्ये तु सम्भाव्यते श्यामायाः स्त्रियो गानमाधुर्यम् / तथा चोक्तम्-“श्यामा गायति मधुरं काली गायति खरं च रूक्षे(क्षं चे)"त्यादि / तथा सम्भावयाम एनं श्रावकदारकमकृतमुखसंस्कारमप्यक्षरेषु यथावदंभिलप्तव्येष्विति, तथा सम्भावयाम:-शुकसारिकादीनां वाची मानुषभाषापरिणामः / कायवीर्यमप्यौरस्यं यद्यस्य बलम् / तदपि द्विविधंसम्भवे सम्भाव्ये च / सम्भवे यथा चक्रवर्तिबलदेववासुदेवानां यहाहुबलादिकायवलम् / तद्यथा-कोटिशिला त्रिपृष्ठेन वामकरतलादुद्धृता, यदि वा 'सोलसरायसहस्सा' इत्यादि यावदपरिमितवला जिनवरेन्द्रा इति / सम्भाव्ये तु-सम्भाव्यते तीर्थकरो लोकमलोके कन्दुकवत् प्रक्षेप्तुम् , तथा मेरुं दण्डवत् गृहीत्वा वसुधां छत्रकवद्ध मिति / तथा सम्भाव्यतेऽन्यतरसुराधिपो जम्बूद्वोपं वामहस्तेन छत्रकवद्धतुमयत्नेनैव मन्दरमिति / तथा सम्भाव्यतेऽयं दारकः परिवईमानः शिलामेनामुद्धर्तु हस्तिनं दमयितुमचं वाहयितुमित्यादि, तदिह यदि क्षीणमोहे सम्भावनारूढं मृषाभाषणं सम्भवे वक्तव्यं तदा व्यक्तित एव भावरूपं संपन्नम् / यदि च सम्भाव्ये तदा शक्तित इति न कथमपि पृथग् भवितुमर्हति / न च क्षीणमोहे मृषाभाषणं केवल सम्भाव्यमेव, अपूर्वादिषु पञ्चसु गुणस्थानकेषु चतसृणां भाषाणां कर्मग्रन्थे द्वितीयतृतीयवाग्योगौ मिथ्यादृष्टेरारब्धो यावत् क्षीणकषायवीतरागछमस्थस्तावल्लभ्येते / तथोपशान्तकषायस्थाने क्षीणकषायस्थाने च 'नवयोगा बन्धहेतवः' इत्यस्य चार्थस्याविशेषेणैवाभिधानाद् / अवश्यंभावित्वाभिप्रायेण च यत्सम्भाव्यत्वाभिधान तत्तु सत्संयतमात्रस्यैव मृषाभाषणादेः स्यादिति द्रष्टव्यम् / किश्च-सर्वमपि मृषाभाषणं क्रोधमूलकमेवेति वदतस्तव सम्भावनारूढमपि For Private and Personal Use Only

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276