Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च छद्मस्थस्यैव भवति, स च यैः स्थानैर्ज्ञायते तान्याह-'सत्तहिं ठाणेहिं' इत्यादि / सप्तभिः स्थानहेतुभूतेश्छमस्थं जानीयात् / तद् यथा-माणानतिपातयिता-तेषां कदाचिद् व्यापादनशीलो भवति / इह च प्राणातिपातनमिति वक्तव्येऽपि धर्मधर्मिपोरभेदादतिपातयितेति धर्मिनिर्दिष्टः। प्राणातिपातनाच्छयस्थोऽयमित्यवसीयते / केवली हि क्षीणचारित्रावरणत्वान्निरतिचारसंयमत्वादप्रतिषेवित्वान्न कदाचिदपि प्राणानामतिपातयिता भवति / इत्येवं सर्वत्र भावना कार्या / तथा मृषा वड़िता भवति / अदत्तमादाता-गृहीता भवति / शब्दादीनास्वादयिता भवति / पूजासकारौ-पुष्पार्चनवस्त्राद्यर्चनेऽनुहयिता-परेण स्वस्य क्रियमाणस्य तस्यानुमोदयिता तद्भावे हर्षकारीत्यर्थः / तथेदमाधाकर्मादि सावधं सपापमित्येवं प्रज्ञाप्य तदेव प्रतिषेविता भवति / तथा सामान्यतो नो यथावादी तथाकारी-अन्यथाभिधायान्यथा कर्त्ता भवति / चापीति समुच्चये / एतान्येव विपर्यस्तानि केवलिगमकानि भवन्ति / इत्येतत्प्रतिपादनपरं केवलिमूत्र सुगममेवेति / " अत्रेयं परस्य प्रक्रिया-छद्मस्थसंयतः परीक्षावसरेऽप्रमत्त एव पक्षीकर्तव्यः, तत्रैव चक्षुःपक्ष्मनिपातमपि सूत्रोक्तयतनया कुर्वागे 'किमयं छद्मस्थ उत केवली' इति संशये सति छद्मस्थत(ता)साधनाय लिङ्गापेक्षोपपत्तेः, उक्तस्वरूपरहितस्य तु निद्राविकथादिप्रमादवतश्छमस्थत्वेन संशयाभावान्न परीक्षायां प्रवेश इति न तस्य पक्षत्वम् , आह " छ उमत्थो पुण केवलिकप्पो अपमत्तसंजओ णेओ। सो विष संजमजोगे उवउत्तो सुत्तआणाए // " ति। - लिंगानि च तत्र पञ्चमहाव्रतातिक्रमापवादानाभोगविषयसप्तस्थानप्रतिपादितानि द्रव्यप्राणातिपातादिरूपाण्येव ग्राह्याणि, नतु भावप्राणातिपातादिरूपाण्यपि, तेषां छद्मस्थज्ञानागोचरत्वेन लिङ्गत्वाभावाद् / लिङ्गं हि छमस्थज्ञानहेतवे प्रयुज्यते, तच्च ज्ञातमेव ज्ञापकं नाज्ञातमपीति, तानि च मोहनीयाविनाभावीनि यावदुपशान्तवीतरागं भवन्ति, न परतोऽपि; तत ऊर्च मोहनीयसत्ताया अप्य भावाद् / आह च "छउमत्थनाणहेऊ लिंगाई दवओ ण भावाओ। . उवसंतवीयरायं जा तावं ताणि जाणाहिं // " ति / - नन्वपूर्वादिषु पञ्चसु गुणस्थानकेषु चतस्रोऽपि भाषा भवन्तीति कर्मग्रन्थे भ For Private and Personal Use Only

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276