Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 250
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 239 इत्यादि " / कथं तर्हि घातिकर्मक्षयावाप्तलब्धिभाजः केवलिनो जीवविराधनासम्भवः ? एकस्या अपि क्षायिकलब्धेः सर्वक्षायोपशमिकलब्ध्यात्मकत्वेन क्षायोपशमिकलब्धिसाध्यस्य जीवरक्षादिकार्यमात्रस्य साधकत्वात् / सा च क्षायिकी लब्धिर्भगवतो जीवरक्षाहेतुरनुत्तरचारित्रान्तर्भूता द्रष्टव्या। तत्प्रभावादेव न केवलिना कदाप्यारम्भ इति / तदपि मतमनया दिशा निराकृतं ज्ञातव्यं भवति, लब्धिस्वभावादेव जीवरक्षोपपत्तौ केवलिन उल्लङ्घनादिव्यापारवैयर्थ्यांपत्तेरेति भावः // 8 // दिग्दर्शितमेव दूषणं विकल्प्य स्फुटीकुर्वन्नाह-- तं खलु नवजीवंतो पमायवं तुह मए जिणो हुका / सेलेसीए वि फलं ण तस्स नवजीवणालावे // 3 // व्याख्या--' तं खलु ' त्ति / तं लब्धिविशेषमुपजीवन्-जीवरक्षार्थ व्या. पारयन् खलु निश्चितं जिनः केवली तव मते प्रमादवान् स्याद्, लब्ध्युपजोवनं हि प्रमत्तस्यैव भवतीति शास्त्रमर्यादा / अस्तु तर्हि स लब्धिविशेषोऽ नुपजीवित एव जीवरक्षाहेतुः, क्षायिकीनां हि लब्धीनां न प्रयुञ्जना भवति, तासामनवरतमेकस्वभावेनैव सर्वकालीनत्वात् , तासां च फलवत्त्वमपि तथैव / तदितराणां तु कादाचित्कत्वेन फलवत्वात् प्रयुअति विशेषः-इत्येव ह्यस्मन्मतमित्यत्राहतस्य लब्धिविशेषस्योपजीवनाभावे तु शैलेश्यामपि फलं जीवरक्षारूपं नास्ति, तदानी तत्कायस्पर्शेन मशकादिव्यापत्तेस्त्वयापि स्वीकारात् , कि पुनः सयोगिकेवलिनि वाच्यम्; तथा चोपजीवनानुपजीवनविकल्पव्याघातात् तादृशलब्धिविशेषकल्पनमप्रामाणिकमेवेति भावः // 83 // - अथ चारित्रमोहनीयकर्मक्षयजनिता जोवरक्षाहेतुर्लब्धिर्योगगतैव कल्प्यत इति शैलेश्यवस्थायां नोक्तदोष इत्याशङ्कायामाह-- जोगगया सालही अजोगिणो खाइगावि जणत्यि। ता तकम्मस्सुदो तस्सेव हवे पराहुत्तो // 4 // ___ व्याख्या--'जोगगय ' त्ति / सा जोवरक्षाहेतुर्लब्धिर्योगगतेति कृत्वा क्षायिपि यदि अयोपियोऽयोगिकेवलिनो नास्ति, तदा तस्येवायोगिकेवलिन एव तत्कर्मणश्चारित्रमोहनोयकर्मण उदयः परावृत्तो भवेत् , चारित्रमोहक्षयकार्याभावस्य चारित्रमोहोदयव्याप्यत्वादिति भावः // किंच-यदि लब्ध्युपजीविजल For Private and Personal Use Only

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276