Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 248
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं चापसरणादिद्वारं विना स्वरूपत एव केवलियोगानां जीवरक्षाहेतुत्वे उल्लङ्घनादिव्यापारवैकल्यापत्ती व्यवस्थापितायां केवलियोगव्यापारकाले जीवानां स्वत एवापसरणस्वभावत्वं यत्परेण कल्पितं तदपि निरस्तमित्याहएएण मच्चियाई सहाव किरियापरायणा हुँति / ण ह जिण किरियापेरिअकिरियं जंतित्ति पमिसिदा ___ व्याख्या--'एएण मच्छिआइ' त्ति / एतेनोक्तहेतुना मक्षिकादयो मक्षिकापिपीलिकादंशमशकादयः स्वभावक्रियापरायणाः सहजसमुत्थगमनादिक्रियाकारिणो भवन्ति, 'णहु ' नैव जिनस्य या क्रिया गमनागमनादिरूपा तया प्रेरिता-तनिमित्तका या क्रिया तां यान्ति-केवलियोगहेतुकस्वशरीरसङ्कोचमपि न कुर्वन्तीत्यर्थः / केवलिनो हि गमनागमनादिपरिणतौ पिपीलिकादयः क्षुद्रजन्तवः स्वत एवेतस्ततोऽपसरन्ति, अपमृता वा भवन्ति / यदि च कदाचिदसातवेदनीयकर्मोदयेन दंशमशकादयो नापसरन्ति, तदा केवली तत्कर्मक्षयनिमित्तं तत्कृतवेदनां सम्यगधिसहते, केवलज्ञानोत्पत्तिसमय एव तेनैव प्रकारेणात्मोयासातवेदनीयकर्मक्षयस्य दृष्टत्वात् / ननु केवलियोगजनितां किमपि क्रियां कुर्वन्ति तदिदमाह" तेणं मच्छिअपमुहा सहाव किरिया परायणा हुँति / ___ण य जिणकिरियापेरिअकिरियालेसंपि कुवंति " // इत्येतत् प्रतिषिद्धं, स्वत एव जीलानामपसरणस्वभावत्वे केवलिन उल्लङ्घनादिव्यापारवैफल्यापत्तेर्वजलेपत्वाद् / यच्च केवलियोगव्यापारमपेक्ष्य जीवानां स्वतोऽपसरणस्वभावत्वकल्पनं तदपां दहनान्तिके दाहजननस्वभावकल्पनसदृशमेव / अथ केवलिनः प्रतिलेखनादिव्यापाराज्जीवानामपसरणस्य प्रमाणसिद्धत्वात् केवलि क्रियानिमित्तकं क्रियामात्रं न तेषां प्रतिषिध्यते, किन्तु भयपूर्विका क्रिया प्रतिषिध्यते; नाभयदस्य भगवतः प्राणिनां साक्षात्रासजनकव्यापाररूपं भयदानं सम्भवति, परेषां भापनस्य भयमोहनायाश्रवत्वात् , ततः केवलिक्रियातः प्रतिलेखनादिव्यापारकाले या प्राणिनामपसरणादिक्रिया भवति सा न भयमूलेति स्वत एवेत्युच्यत इति चेत् / न, भयं विनैव केवलियोगात् सत्त्वापसरणकल्पने हिंसां विना तन्मरणकल्पनेऽपि वाधकामावाद्, अदृष्टकल्पनाया उभयत्र तुल्यत्वाद् / आवश्यकक्रियावश्यंभाविना च पाणिभयेन च यदि भयमोहनीयाश्रवभूतं भा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276