Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 218
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 207 भावः सूत्रपरमार्थः, न पुनस्त्वदभिमतः सर्वथा वस्त्रपरित्यागोऽपरिग्रहतेति सूत्राभिमायः, तस्मादपरिज्ञातसूत्रभावार्थों मिथ्यैव खिद्यसे त्वमिति // " किश्च यदि द्रव्यहिंसया कृतप्रत्याख्यानभङ्गः स्यात् तदा तवाप्युपशान्तमोहस्य यथाख्यातचारित्रं न स्यात् , अंशतो भङ्गावश्यंभावादिति / यच्च सर्वविरतिसिद्धयर्थं द्रव्यहिंसाया अपि प्रत्याख्यानमुपपादितम् , तदयुक्तम् , एवं योगानामपि प्रत्याख्यानापत्तेः 'अयोगिकेवलिष्वेव सर्वतः संवरो मतः' इति वचनादयोगिन्येव सर्वसंवरसिद्धेः / यच्च द्रव्याश्रवस्य सूक्ष्मपृथिव्यादीनामिवाविरतिप्रत्ययकर्मबन्धहेतुत्वमुक्तं तथैव, तेषामविरतिभावं प्रतीत्यैव कर्मबन्धाभिधानात् , तद्योगानां द्रव्य हिंसाऽहेतुत्वाद्, भावहिंसाकारणत्वं च योगानामिव द्रव्य हिंसाया अपि न बाधकमिति / 'यत्त्वेतेनेत्यादिना पाशचन्द्रमतमुपेक्ष्य तस्मादयं भावः' इत्यादिना किश्चित् सम्प्रदायानुसारि भणितं तदर्द्धजरतीयन्यायानुकारि, हिंसांशे जिनोपदेशाभावेन तन्मताश्रयणे ' पूजाधुपदेशाभावापत्तेः, तदविनाभाविहिंसांशे उपदेशाभावेन प्रकृतोपदेशसमर्थनसम्भवेऽपि तदङ्गकुसुमार्चनाद्यशे तस्य कुसुमादि जीववधानुकूलव्यापाररूपहिंसावगाहित्वस्य निराक मशक्यत्वाद्, एवमनिष्टबीजरूपमनपोयेष्टफलहेतुत्वेन कल्प्यखाभिव्यक्तेरप्यनुपपत्तेः, कुसुमादिहिंसायाः सन्दिग्धत्वेन तथाविधपातकाहेतुत्वे मिथ्यादृशामपि तस्यास्तथात्वापत्तेः, तस्माद् द्रव्यस्तवस्थलीयहिंसायामनुबन्धशुद्धत्वेनैव भगवदाज्ञा सम्यक्त्वादिभावहेतुत्वादिति।।५९॥ तदेवमाभोगेऽपि द्रव्यहिंसाया दोषानावहत्वं यत्सिद्धं तदाह'तम्हा दव्वपरिग्गह-दव्यवहाणं समंमि आभोगे। णहु दोसो केवलिणो केवलनाणे व चरणे वा / / 60 // 'तम्ह 'त्ति / तस्माद् द्रव्यपरिग्रह-द्रव्यवधयोः समेऽप्याभोगे साक्षात्कार केवंलिनो नैव दोषः, केवलज्ञाने चारित्रे वा ज्ञानावरण-चारित्रमोहनीयक्षयजन्ययोः केवलज्ञान-चारित्रयोर्द्रव्याश्रवमात्रेणानपवादात् / यत्तु क्षीणमोहस्यापि स्नातकचारित्राभावात्संभावनारूढातिचाररूपस्यापि द्रव्याश्रवस्य यदि तत्पतिबन्धकत्वं तदा साक्षाजीवघातस्य द्रव्यरूपस्यापि तन्यायप्राप्तमेवेति केवलिनोऽपि द्रव्यहिंसा चारित्रदोष एवेति परेण प्रोच्यते तदसत् , स्नातकस्य निर्ग्रन्थभेदत्वाद् यथाख्यातस्यैव चारित्रभेदत्वात् तत्प्रतिबन्धकत्वस्य च द्रव्यहिंसायां त्वयाऽप्यनभ्युपग 1 तस्माद् द्रव्यपरिग्रह-द्रव्यवधपोः समेऽप्याभोगे / नैव दोष: केवलिनः केवलज्ञाने च चरणे वा // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276