Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 199
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 तरुणाणं चउमासे वुड्राणं होइ छम्मासे // 1 // " इत्यादि। तत्तस्माद्विधिना जिनोपदेशेन यतितव्यम्-इत्येवं महावाक्यार्थस्य प्राक्चालि(त)तत्सत्यवस्थानरूपस्य रूपं तु स्वभावः पुनः। महावाक्यार्थमेव गाथापूर्वार्द्धनोपसंहरदंपर्यमाह " एवं एसा अणुबंधभावओ तत्तओ कया होइ / __ अइदंपज्जं एवं आणाधम्ममि सारोत्ति // 1 // " एवं विधिना यत्नेन क्रियमाणेनैषा हिंसाऽनुबन्धत उत्तरोत्तरानुबन्धभावान्मोक्षप्राप्तिपर्यवसानानुगमात् तत्त्वतः परमार्थतः कृता भवति, मोक्षमसंपाद्य जिनाज्ञाया उपरमाभावादिति ऐदंपर्यमेतदत्र यदुताज्ञाधर्म सारः / इति परिसमाताविति / प्रतिबन्धकाभावत्वेनोक्तहिंसाया निर्जराहेतुत्वे चाभ्युपगम्यमाने केवलायास्तस्याः प्रतिबन्धकत्वाभावाज्जीवघातपरिणामविशिष्टत्वेन प्रतिबन्धकत्वे विशेषणाभावप्रयुक्तस्य विशिष्टाभावस्य शुद्धविशेष्यस्वरूपत्वे विशेष्याभावप्रयुक्तस्य तस्य शुद्धविशेषणरूपस्यापि सम्भवाजीवघातपरिणामोऽपि देवानांप्रियस्य निर्जराहेतुः प्रसज्येतेत्यहो ! काचनापूर्वयं तर्कागमचातुरी / वर्जनाभिप्रायेण जीवघातपरिणामजन्यत्वलक्षणं स्वरूपमेव विराधनायास्त्याज्यतेऽतो नेयमसती प्रतिबन्धिकेति चेत् , किमेतद्विराधनापदप्रतिनिमित्तमुत विशेषणं विराधनापदार्थस्य / आये पदप्रवृत्तिनिमित्तं नास्त(स्ति), पदार्थश्च प्रतिपाद्यते इत्ययमुन्मत्तप्रलापः / अन्त्ये च विशिष्टप्रतिबन्धकत्वपर्यवसाने उक्तदोषतादवस्थ्यमिति मुग्धशिष्यप्रतारणमात्रमेतत् / न च ' यद्धर्मविशिष्टं यद्वस्तु निजस्वरूपं जहाति स धर्मस्तत्रोपाधिः' इति नियमाद् वर्जनामिभप्रायविशिष्टा हि जीवविराधना जीवघातपरिणामजन्यत्वं संयमनाशहेतुं परित्यजतीति भावार्थपर्यालोचनादनुपहितविराधनात्वेन प्रतिबन्धकत्वं लभ्यत इत्युपहितायास्तस्याः प्रतिबन्धकाभावत्वं स्वरूपेणैवाक्षतमित्यपि युक्तम्, प्रकृतविराधनाव्यक्ती जीवघातपरिणामजन्यत्वस्यासत्त्वेन त्याजयितुमशक्यत्वाद्, अत एव तत्पकारकप्रमितिप्रतिबन्धरूपस्यापि तद्धानस्यानुपपत्तेः। अथ वर्जनाभिप्रायाभावविशिष्टविराधनात्वेन प्रतिबन्धकत्वे न कोऽपि दोषः, प्रत्युत वर्जनाभिप्रायस्य पृथक्कारणत्वाकल्पनाल्लाघवमेवेति चेत् , न / वर्जनाभिप्रायमात्रस्याज्ञाबाह्यानुष्ठानेऽपि सत्त्वान्नोत्तेजकत्वमित्याज्ञाशुद्धभावस्येहोत्तेजकत्वं वाच्यम्, स च विशिष्टनिर्जरामात्रे स्वतन्त्रकाणघ मिति न तत्रास्येहोत्तेजकत्वं युज्यते; अन्यथा दण्डाभावविशिष्टचक्रवादिनापि बटादौ प्रतिबन्धकता कल्पनीया स्यादिति न किञ्चिदेतत् / तस्मादाज्ञाशुद्धभाव For Private and Personal Use Only

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276