________________
-२,१५]
द्वितीयः सर्गः
मुनेस्तस्य प्रभावेण या विभूतिरभूदने । तां विवक्षाम्यहं किं तु वक्त्रं नोक्तं करोति मे ॥१२।। वसन्तमनपेक्ष्यैव तस्यातिशयविस्मिताः। रोमाञ्चानिव मुञ्चन्ति कोरकांश्चतपादपाः ॥१२॥ तत्संगादिव संजातशान्तचित्तेन पुष्प्यता। न विसोढमशोकेन कामिनीपादताडनम् ॥१३।। बकुला अपि दृष्ट्वा तमणुव्रतमिवाश्रिताः। यद्वधूमधुगण्डूषाननादृत्यैव पुष्पिताः॥१४॥ तिलकस्तिलकं पृथ्व्यास्तं दृष्ट्वा व्यकसत्क्षणात् ।
स्वपक्षदर्शनातकस्य न प्रीतिरुपजायते ।।१५।। स्फुटयति । काशि दीप्तौ णिजन्ताल्लट् ॥१०॥ मुनेरित्यादि । तस्य मुनेः श्रीधरमुनिपस्य । प्रभावेण सामर्थ्येन । वने मनोहरोद्याने। या विभूतिः संपत्तिः । अभूत् अभवत् । तां विभूतिम् । अहं विवक्षामि वक्तुमिच्छामि । वच परिभाषणे । 'कम्येककत कात' इत्यादिना सन् प्रत्ययः तस्माल्लट । किंतु विशेषोऽस्ति । मे मम । 'ते मयावेकत्व' इति अस्मच्छब्दस्य षष्ठयेकवचने मे इत्यादेशः। वक्त्रं वदनम् । उक्तं भाषितम् । न करोति न विदधाति । डुकृञ् करणे लट् । तद्विभूतिर्वाचामगोचरेति भावः ।।११।। वसन्तमित्यादि । तस्य मुनिपतेः । अतिशयविस्मिताः अतिशयेन उत्कर्षेण विस्मिता: आश्चर्यं गताः । चतपादपाः सहकारवृक्षाः। वसन्तं वसन्तकालम् । अनपेक्ष्यैव अपेक्षामकृत्वैव । रोमाञ्चानिव रोमहर्षणानीव । कोरकान् मुकुलानि । मुञ्चन्ति धरन्तीत्यर्थः । मुच्छृ मोक्षणे ॥१२॥ तत्संगादित्यादि । पुष्प्यता विकसता। अशोकेन अशोकवृक्षण। तत्संगात् तस्य मुनिपतेः संगात् सम्पर्कात् । संजातशान्तचित्तेन सम्यग्ज्ञानशान्तहृदयेनेव । कामिनीपादताडनं कामिनीनां स्त्रीणां पादताडनं चरणाघातम् । न विषोढं न मृष्टम्, वाञ्छितं न भवतीत्यर्थः ।।१३।। बकुला इत्यादि । बकुलाः बकुलवृक्षाः अपि । तं मुनीन्द्रम् । दृष्ट्वा वीक्ष्य । अणुव्रतं सूक्ष्मव्रत-श्रावकव्रतम् । श्रिता इव आश्रिता इव । "श्रितादिभिः' इति समासः । यन यस्मात्कारणात । वधमधुगण्डषान वधूनां स्त्रीणां मधुनो मद्यस्य गण्डूषान निष्ठोवनक्रियाः । अनादृत्यैव उदासीनं कृत्वैव । पुष्पिताः पुष्पाणि संजातानि एषाम् इति पुष्पिताः कुसुमिताः । बकुलवृक्षाणां स्त्रीणां मधगण्डूषण पुष्पाणि जायन्तेऽत्र तदपेक्षा नास्तीत्यर्थः ।।१४।। तिलक इत्यादि । तिलकः उनके प्रभावसे मनोहर बागकी जो विभूति प्रकट हुई है, उसे मैं तो कहना चाहता हूँ, किन्तु मेरा मुँह कहना नहीं मान रहा है । शब्दोंमें इतना सामर्थ्य ही कहाँ, जो वे उसे कह सकें; वह तो केवल देखते ही बनती है ॥११॥ सभी जगह वसन्त ऋतुके आनेपर ही आमके पेड़ोंमें बौर लगती है, किन्तु राजन्, आपके मनोहर बागमें बिना वसन्तके आये ही उनमें बौर लग गई है । लगता है मुनिराजके अतिशयसे चकित हो जाने के कारण उन्हें रोमाञ्च हो आया है ॥१२॥ स्त्रियोंके चरणोंकी चोट सहे बिना ही अशोक वृक्ष विकसित हो गये हैं। मानो मुनिराजके समागमसे उनका चित्त शान्त हो गया है ॥१३॥ मौलसिरी वृक्ष स्त्रियोंके मद्यके कुरलोंकी अवहेलना करके अपने-आप विकसित हो गये हैं। मानों मुनिराजके दर्शन पाकर उन्होंने पाँच अणुव्रत ग्रहण कर लिये हैं ॥१४॥ मुनिराज पृथिवीके तिलक हैं। मानो इसीलिए उनके दर्शन
१. क ख ग घ प्रभावेन। २. अ तिशयि । ३. अ आ इ क ख ग घ श स पुष्यता। ४. कास दीप्तो इति शाकटा० धातुपाठे, काशृ दीप्तौ इति पाणिनीये। ५. श स भावेन । ६. श स मुच । ७. शस ङ्गादिति । ८. श स पुष्यता । ९. = अनपेक्ष्यैव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org