________________
षष्ठः सर्गः
अथ तेन परिभ्रमय्य मुक्तः सरुषासावसुरेण राजसूनुः । निपपात मनोरमाभिधाने सरसि 'प्रोन्मिषदुग्रनक्रचक्रे ॥ १ ॥ गगनात्पतितस्य तस्य घातादपविद्धेषु पयःसु सर्वदिक्कम् । जलधाम तदा स्थलीबभूव स्थलमासीच्च जलाशयो मुहूर्तम् ॥ २ ॥ परितः परिचूर्णयन्नुपेतान्मकरादीन्धनमुष्टिपाणिघातैः । प्रकटीकृतपूर्व पुण्यशक्तिस्तटमाप प्रविलङ्घय वारि दोर्भ्याम् || ३ ||
वस्तुस्थिति कथयतस्तव दिव्यमार्ग मिथ्यामतं त्विति वदन्ति कुदर्शनस्थाः । यत्पश्य हा विमल तद्विपरीतवृत्ति काले कलौ च विपरीतमतिः स्वभावा रे ( ? ) ॥
[ %, 1
अथेति । अथ मुनीन्द्रबोधनानन्तरम् । सरुषा कोपसहितेन 3 । तेन असुरेण देवविशेषेण । परिभ्रमय्य परितो भ्रामयित्वा । मुक्तः सन् त्यक्तः सन् । असो अयम् । राजसूनुः राजकुमारः । प्रोन्मिषदुग्रनक्रचक्रे प्रोन्मिषदुद्गच्छदुग्राणां क्रूराणां नक्राणां ग्रहाणां चक्रं वृन्दं यस्मिन् तस्मिन् । मनोरमाभिधाने मनोरमम् इत्यभिधानं यस्य तस्मिन् । सरसि सरोवरे । निपपात पतति स्म । पत्लृ गतौ लिट् । जातिः ॥ १ ॥ गगनादिति । गगनात् आकाशात् । पतितस्य प्रच्युतस्य । तस्य कुमारस्य । घातात् प्रतिस्खलनात् । सर्वदिक्क सर्वा दिश एव सर्वदिक्कम् । पुनस्तत् ( ? ) । पयःसु सलिलेषु । अपविद्धेषु सत्सु प्राप्तेषु सत्सु । तदा तत्समये । जलधाम जलानां धाम स्थानं सरोवर इत्यर्थः । स्थली बभूव प्रागस्थलमिदानीं स्थलं बभूवेति तथोक्तम्, ‘कर्मकर्तृभ्यां प्रागतत्त्वे -' इति चित्रः, स्थलं भवति स्म । मुहूर्त्त घटिकाद्वयपर्यन्तम् । 'कालाध्वनोव्र्व्याप्ती' इति द्वितीया । जलाशयः सरोवरः । स्थलं जलरहितप्रदेशः । आसीच्च अभवच्च । अस भुवि लङ् ||२|| परित इति । परितः समन्तात् । उपेतान् समायातान् । मकरादीन् मकरादिजलचरान् । घनमुष्टिपाणिघातैः घनैर्मुष्टिपायर्घातः प्रतिघातैः । परिचूर्णयन् परिमर्द्दयन् । दोर्भ्यां भुजाभ्याम् । वारि सलिलम् ।
उधर उस चण्डरुचि नामके क्रोधी असुरने राजकुमार अजितसेनको - जिसे वह हर ले गया था— दोनों हाथोंसे चारों ओर घुमाकर फेक दिया । वह मनोरम नामके सरोवर में - जिसमें भयंकर मगरमच्छ उछल-कूद मचा रहे थे - जा गिरा ॥ १ ॥ आकाशसे गिरे हुए उस राजकुमारके आघातसे सरोवरका सारा जल ऊपर की ओर उछल गया, जिससे जलसे लबालब भरा हुआ सरोवर थोड़ी देर के लिए स्थल हो गया और जहाँ-जहाँ वह जल जा गिरा वे स्थल जलमय हो गये ॥ २ ॥ कुछ ही क्षणों में सरोवर फिर जलसे भर गया । जलके साथ मगरमच्छ आदि जल-जन्तु भी वहीं-के-वहीं आ गये, और राजकुमारके ऊपर झपटने लगे । किन्तु पूर्वोपार्जित पुण्यकर्म की शक्ति से उसने उन्हें जोरके मुक्कों और एड़ियोंसे मार-मारकर चकनाचूर कर दिया,
१. अ प्रोन्मिलौं । २. आ प्रती पद्यमिदं न दृश्यते । ३. श स कोपेन सहितेन । ४. दुच्छलदु । ५. आ पुस्तत् । ६. श स रुद्धेषु । ७ = स्वल्पकालं यावत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org