________________
-१७, ७.]
सप्तदशः सर्गः धनयौवनप्रभृति सर्वमनुगतमिदं शरीरिणाम् । न क्षणमपि भवति स्थितिमन्निजपूर्वजन्मकृतपुण्यसंक्षये ॥६८।। विषयेषु शत्रुसदृशेषु विविधपरितापहेतुषु । सक्तिमविरतमतिः कुरुते हतबुद्धिरेव न तु बोधभासुरः ॥६९॥ विविधासु योनिषु वपूंषि विविधरचनानि धारयन् । इन्द्रियसुखलवलुब्धमतिर्नटवत्प्रयाति तनुमान्विडम्बनाम् ॥७०।। वपुरादधत्प्रविजहच्च विविधमिह येविडम्बितः। कर्मभिरहमधुना तपसा क्षपयामि तानि निखिलानि मूलतः ॥७१।।
भवस्थिति भवस्य संसारस्य स्थितिम् । इति वक्ष्यमाणप्रकारेण । अचिन्तयत् चिन्तयति स्म ॥६७॥ धनेति । शरीरिणां संसारिणाम् । अनुगतम् अनुयातम् । धनयौवनप्रभृति धनं द्रव्यं यौवनं प्रभृति मुख्यं यस्य तत् । इदम् एतत् । सर्व समस्तम् । निजपूर्वजन्मकृतपुण्यसंक्षये निजस्य स्वस्य पूर्वस्मिन् जन्मनि कृतस्य विहितस्य पुण्यस्य शुभकर्मणः संक्षये नाशे। क्षणमपि अल्पकालपर्यन्तमपि । 'कालाध्वनोाप्तौ इति द्वितीया। स्थितिमत् स्थितियुक्तम् । न भवति । लट् । ६८॥ विषयेष्विति । विविधपरितापहेतुषु विविधानां नानाप्रकाराणां परितापानां हेतुषु कारणेषु । शत्रुसदृशेषु शत्रणां सदृशेषु समानेषु । विषयेषु पञ्चेन्द्रियविषयेषु । अविरतमतिः अविरता वैराग्यरहिता मतिर्बुद्धिर्यस्य सः । हतबुद्धिरि(रे)व सम्यग्ज्ञानशून्य इ (ए) व । सक्तिम् आसक्तिम् । कुरुते करोति । लट् । ( न तु ) बोधभासुरः बोधेन ज्ञानेन भासुरो भासमानः । न तु भवति । उपमा ॥६९॥ विविधास्विति । विविधासु नानाप्रकारासु । योनिषु जन्मसु । विविधरचनानि नानारचनानि संनिवेशसहितानि । वपूषि शरीराणि । नटवत् नर्तकवत् । धारयन् । इन्द्रियसुखलवलुब्धमतिः इन्द्रियेभ्यः पञ्चेन्द्रियेभ्यो जातस्य सुखस्य लवे स्तोके लुब्धा सक्ता मतिर्बुद्धिर्यस्य सः । तनुमान् संसारिजीवः । विडम्बनां तिरस्कारं हास्यं वा प्रयाति । लट् ॥७०।। वपुरिति । इह संसारे । विविधं नानाविधम् । वपुः शरीरम् । आददत् स्वीकूर्वन । प्रतिजहत च त्यजन् । अहम् । यैः कर्मभिः शुभाशुभरूपैः । विडम्बितः तिरस्कृतः। अधना इदानीम् । निखिलानि सकलानि । तानि कर्माणि । मूलत: निःशेषतः। तपसा बाह्याभ्यन्तररूपेण । क्षपयामि
की स्थितिके बारेमें यों सोचने लगे-॥६७॥ संसारी जीवोंको जो ये धन और यौवन आदि सारी वस्तुएं प्राप्त हैं, वे उनके अपने पूर्वजन्मके पुण्यके नष्ट होते ही नष्ट हो जाती हैं, फिर वे एक क्षण भी नहीं रह सकतीं ॥६८॥ इन्द्रियोंके विषय शत्रु सरीखे हैं और वे शत्रुओंके समान नाना प्रकारके सन्तापके कारण हैं। इनमें बुद्धिहीन संसारी ही-जिसकी बुद्धि में कभी विषयसे विरक्तिका विचार भी नहीं उत्पन्न होता-आसक्त होता है, न कि सम्यग्ज्ञानी ॥६९॥ नाना योनियोंमें तरह-तरहके शरीर धारण करके और जरासे इन्द्रियसुखके लोभमें फंसकर यह संसारी जीव नटकी भांति विडम्बनाको प्राप्त करता है। परिहास या तिरस्कारका पात्र बनता है ॥७०॥ नाना प्रकारके शरीरको धारण करते और छोड़ते हुए मुझे जिन शुभ और अशुभ कर्मोने तिरस्कृत किया है, उन सबको मैं अब तपस्याके द्वारा मूलसे नष्ट कर डालूंगा ।।७१॥ भगवान्
१. अ विखण्डितः, म विवञ्चितः। २. म क्षिपयामि । ३. = तारुण्यम् । ४. = यस्मिन् । ५. = स्थिरमित्यर्थः । ६. आ समानेषु सदृशेषु । ७. = न कुरुते । ८. = उत्पत्तिस्थानेनु । ९. =
लेशे । १०. एष टोकाश्रयः पाठः, प्रतिषु तु 'आदधत्' वर्तते । Jain Education International For Private & Personal Use Only
www.jainelibrary.org