Book Title: Chandraprabhacharitam
Author(s): Virnandi, Amrutlal Shastri
Publisher: Lalchand Hirachand Doshi Solapur

View full book text
Previous | Next

Page 547
________________ चन्द्रप्रमचरितम् यन्मतिमतां संवादकं प्रतीतिजनकं तत्प्रमाणम् ॥ ७८ ॥ प्रह्लादिना आनन्दजनकेन ॥ ७९ ॥ आकस्मिकोद्गता अकारणोत्पन्ना चासो बहती गरिष्ठा परचक्रशङ्का च तस्यास्थ्यस्यन्तश्च ते जनाश्च तैरुक्तः किमिदमितिध्वनिस्तेन पूर्यमाणो वर्द्धमानः ॥ ८० ॥ वचस्वी वाग्मो ॥ ८१ ॥ क्षरत्करटभित्तिः उद्भिन्नकपोलः। ऐरावतपराक्रमः । आरटन्तम् आक्रन्दन्तम् ॥ ८२ ॥ प्रकट: तदृष्टिपथप्राप्तः । संहारकालः प्रलयः ।। ८३ ॥ करटिनः गजस्य ॥ ८४ ।। बाहुबलद्वितीयः भुजबलेन दृढः, अथवा मूलबलम् ॥ ८५ ॥ परिकरं तनुत्राणनितम्बपरिधानादिकम् । आजुहवे आह्वानयति स्म डुढोके वा ।। ८६ ॥ आयतः अभिगच्छतः । हस्तिनीमूत्रवासितम् ।। ८७ ॥ तलेन उदराधोभागेन । निर्गतवान् ॥ ८८ ॥ परिधिः प्राकारः। सौधतलं राजसदनवेदिका ॥ ८९ ॥ निःस्पन्दं निश्चलम् । विधृतसृणि: गृहीताङ्कुशः ॥ ९० ॥ अनुपमबलवीयें: असदृशपराक्रमप्रभावः । लीलया हेलया ॥ ९१ ॥ केलि क्रीडाम् । निवासं चक्रे । अवितथं सत्यम् । महेन उत्सवेन । उद्गीर्यमानं ( णं) प्रघुष्यमाणम् ॥९२॥ इति चन्द्रप्रभकाम्यपञ्जिकायामेकादशः सर्गः ॥११॥ द्वादशः सर्गः जीयाच्छु तमुनिनामा मुनिपः सच्छास्त्ररत्ननिकरस्य । शिष्यानुरोधबुद्ध्या प्रकाशको योऽत्र सदृष्टिः ।। शासनात् अनुरोधात् । निजभर्तुः पृथ्वीपालराज्ञः ( जस्य ) । इलाधिपति तं पद्मनाभम् । कुशाग्रधीः जाग्रत्प्रतिभः । वचोहरः संदेशधारी दूतः ॥ १ ॥ कठिनान् कठोरान्, पक्षे स्तब्धान् । महीभृतः पर्वतान् राज्ञश्च । मित्रबान्धवैः बन्धूकपुष्पविशेषैः । सार्द्धम् । रिपवः क्षुद्राः । महापदाश्रिताः पर्वतादिगुहास्थिताः कृताः, पक्षे रिपवः शत्रवो मित्रबान्धवैः साद्धं महती गरिष्ठामापदमाश्रिताः कृताः ॥ २ ॥ प्रभुशक्तिः इन्द्रस्येव माहात्म्यसंपत् । शक्तयस्तिसः प्रभावोत्साहमन्त्रजाः ॥ ३॥ द्वितयेन द्विधावृत्त्या । मानदः म (मा) नं पूज्यत्वं ददाति यच्छति द्यति खण्डयतीति वा मानदः । तद्विपरीतवृत्तिषु अप्रणतेषु ॥ ४ ॥ संक्रामित. नियोजितवचनावलिः । इति वक्ष्यमाणम् । अक्षतस्नेहम् । दूता वचोहरा मुखं येषां ते दूतमुखाः । 'गन्धेन गावः पश्यन्ति ब्राह्मणा वेदचक्षुषा। चारैः पश्यन्ति राजानश्चक्षुमितरे जनाः ॥ इति वचनात् ॥ ५॥' ते सौजन्यादयो गुणाः । 'क्व सरसि वनखण्डं पङ्कजानां क्व सूर्यः क्वच कुमुदवनानां कौमुदीबन्धुरिन्दुः । अति परिचयबद्धा प्रायशः सज्जनानां नहि विचलति मैत्री दूरतोऽपि स्थितानाम् ॥' इति न्यायः ॥ ६॥ विनयकवत्तिता विशिष्टो नयो विनयः प्रश्रयविशेषः, तत्र एकवृत्तिता एकतानत्वम् । सुमनोभिः प्रसूनैरिव ॥ ७ ॥ लज्जया द्रवता द्रवरूपतां गच्छता ॥ ८॥ निजनेतुः स्वहस्तिपकस्य ॥ ९ ॥ पुरातनं पूर्वजैरनुष्ठितम् । क्रम परिपाटीम् ॥ १०॥ करिणा हस्तिना ॥ ११॥ स्वयमेव । भवानेव । आत्मवान् वशीकृतेन्द्रियः ॥ १२॥ जात्यन्धः स्वभावान्धः । धिया अन्तःकरणेन ॥ १३ ।। मदादयः-'कामः क्रोधश्च हर्षश्च लोभो मानस्तथा मदः । षडमी रिपकः प्रोक्ताः शरीरस्था हि देहिनाम् ॥' । शास्ति अनुकलतया विदधाति ॥ १४ ॥ परिभूतिभयात् पराभवसाध्वसात् । अपास्य परित्यज्य । अपसरन्ति अपगच्छन्ति ॥ १५ ॥ शठता मदान्धता। अवधोरिता अवगणिता। दुःसहः अवधीरयितुमशक्यः ॥ १६ ॥ धृतः अवरुद्धः । सत्वरैः सवेगैः । चरैः गूढपुरुषैः ॥ १७॥ आत्मसात्कृतः स्वीकृतः। मत्तः सकाशात् । अपेक्षारहितेन निर्भयेन ॥ १८ ॥ अज्ञजनः नीतेरनभिज्ञः ॥ १९॥ अपय प्रयच्छ । मतङ्गजं सामजम् ॥ २० ॥ प्रसादितः प्रसन्नतां नीतः ॥ २१ ॥ जिगीषुतां जेतुमिच्छुताम् । प्रणक्ष्यति विनश्यति ॥ २२ ॥ अतिलङ्घनम् अतिक्रमः । १. पर। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616