Book Title: Chandraprabhacharitam
Author(s): Virnandi, Amrutlal Shastri
Publisher: Lalchand Hirachand Doshi Solapur

View full book text
Previous | Next

Page 558
________________ पञ्जिका ५०५ महविशेषातिशयम् । क्षोभितं पुण्यातिशयेन प्रचालितम् ॥ ७६ ॥ पञ्चाश्चर्यप्रभृतोनि । रत्नपुष्पगन्धोदकवृष्टयः सुरभिमृदुपवनो देवदुन्दुभिश्चेति ॥ ७७ ॥ चतुरा ईर्यासमित्यादिभिः सहिता गतिर्यस्य ॥ ७८ ॥ असहन्त अशक्नुत । धृत्या संतोषेण वर्मितम् । पत्रिणः रोपाः ॥ ७९ ॥ अपहस्तयितुं निराकर्तुम् ।। ८० ।। तनुतरत्वं स्वफलदानासमर्थत्वम् । अतनु प्रचुरम् ॥ ८१ ॥ नागवृक्षतले । अतुलम् असदृशम् ।। ८२ ॥ तस्मिन केवलोत्पत्तिसमये । समवसरणं सभाविशेषः ॥ ८३ ।। धूलोशालः पञ्चवर्णमणिचूर्णप्राकारः । वलयः अङ्गदः । अन्तरस्थाः मध्यस्थाः। विकचकमलानि व्याकोशाम्बजानि ॥ ८४ ॥ विशाला विस्तीर्णा । विरचितान्यागमोक्तशोभयालंकृतानि चतुर्गोपु राणि यस्य । उभयतः इतस्तत उभयपावें ॥ ८५ ॥ अर्चाः' प्रतिमाः । यागवृक्षाः चैत्यवृक्षाः । मणिमयतटैः मणिनिर्मितभित्तिभिः । लतामण्डपैः वल्लीगृ है: भ्राजमानाः शोभमानाः ॥ ८६ ।। केतुपङ्क्तिः ध्वजमाला। विचित्रा मालामृगेन्द्रादिनानाविधा । हेमशाल: स्वर्णप्राकारः ॥ ८७ ।। पराणि पराानि (णि ) । सभामण्डपाः सभागृहाणि ।। ८८ ।। अच्छस्फटिकः शुद्धस्फटिकः । अन्ते मध्ये । अनुपमम् अनन्यसदृशम् ॥ ८९ ।। स्फुरिता दीप्यमानाः । भासुररत्नानां रश्मयः किरणा यत्र । बोधः अनन्तज्ञानमनन्तदर्शनं च सहचरितत्वात् ॥ ९०॥ उदयं पुण्यप्रादुर्भावमाकांक्षन्ते इति उदयाकांक्षिण ॥ ९१ ॥ इति चन्द्रप्रमकाव्यपन्जिकायां सप्तदशः सर्गः ॥ १७ ॥ अष्टादशः सर्गः सम्यग्ज्ञानसुधाप्रवाहनिचयैर्येनेह शिष्यव्रजोधौताज्ञानरजश्चय. शुभमतिर्वाग्मी कृतः सद्गुणैः । स्यान्नित्यादिनयप्ररूपणपरैः स श्रीश्रुतादिमुनिः संभूयात् प्रशमाय संयतपतिर्बोधप्रकर्षाय नः ।। सर्वभाषास्वभावेन बोध्यजीवानुभाषानुकारिलक्षणेन ध्वनिना अनवरात्मकभाषातिशयेन ॥ १॥ शासने मते ॥ २॥ पृथक्त्वपृक्षे भिन्नोच्चारणे ॥ ३ ॥ अवस्थानजनननाशलक्षणलक्षणः ॥४॥ भवितुं योग्यो भव्यस्तद्विलक्षणोऽभव्यः, शुद्धयशुद्धिभेदात् । यथा-'शुद्धयशुद्धी पुनः शक्तो ते पाक्यापाक्यशक्तिवत् । साद्यनादी तयोव्यक्ती स्वभावोऽतर्कगोचरः ॥ ॥ ५ ॥ प्रथमायां भूमौ उत्सेधः ७ धनु० ३ ह० ६ अं० । अन्त्ये इन्द्रके ततश्च द्वितीयाया अन्त्ये द्विगुणः-१५ धनु० २ ह० १२ अं० । तृतीयेऽन्त्ये ३१ धनु० १ ह । चतुर्थे। न्त्ये ६२ धनु० २ ह० । पञ्चमेऽन्त्ये १२५ धनु० । षष्ठेऽन्त्ये २५० धनु० । सप्तमे ५०० धनु० ॥ ९, १० ॥ प्रथमेऽन्त्ये सागरैकमायुः ( एक सागरोपममायुः ) । सा० १, सा० ३, सा० ७, सा० १०, सा० १७, सा. २२, सा० ३३ । प्रथम पटले १०००० जघन्यमायुः । प्रथमे पटले १०००० जघन्यमायुः । प्रथमे नरके यदुत्कृष्टं सागरैकम् ( एक सागरोपमम् ) आयुः, तद्वितीये जघन्यम् । शेषं सुगमम् ॥ ११, १२ ॥ २२ (?) प्रथमायां विलानि ३०००००० द्वितीयायां २५००००० तृतीयायां १५०००००। ( अवशिष्टासु क्रमशः) १०००००० । ३०००००० । ९९९९५ । ५ ।। १३, १४ ॥ देवकुरुः उत्तमभोगभूमिः ॥२९॥ शेषं सुगमम् । कर्मभूम्युद्भवानामुत्सेधः-धनु० ५२५ । इति उक्तप्रकारेण । गत्यादिभेदेन यथा-'गइ इंदिये य काये जोए वेए कसाय नाणे य । संजमदंसणलेस्सा भविया संमत्त संण्णि आहारे॥' इति परमागमे विस्तारः।। ६८ (?) ॥ शेषं स्पष्टम् । पञ्चधा अजोवभेदाः । एकीकृता जीवेन सह षड् द्रव्याणि । कालरहितानि द्रव्याणि पञ्चास्तिकायाः ॥ ७०(?) ॥ वर्तना ॥ इति द्रव्याणां नवजीर्णतालक्षणम् । परमार्थकालः । समयावल्य दिर्व्यवहारकालः ॥ ७७ ।। सकषायः। दशमगुणस्थानं यावत् ॥ उपशान्ताद्ययोगगुणस्थानं यावन्निःकषायः ॥ ८५ ॥ १.ब अर्वा। Jain Education Internate For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616