________________
पञ्जिका
५०५
महविशेषातिशयम् । क्षोभितं पुण्यातिशयेन प्रचालितम् ॥ ७६ ॥ पञ्चाश्चर्यप्रभृतोनि । रत्नपुष्पगन्धोदकवृष्टयः सुरभिमृदुपवनो देवदुन्दुभिश्चेति ॥ ७७ ॥ चतुरा ईर्यासमित्यादिभिः सहिता गतिर्यस्य ॥ ७८ ॥ असहन्त अशक्नुत । धृत्या संतोषेण वर्मितम् । पत्रिणः रोपाः ॥ ७९ ॥ अपहस्तयितुं निराकर्तुम् ।। ८० ।। तनुतरत्वं स्वफलदानासमर्थत्वम् । अतनु प्रचुरम् ॥ ८१ ॥ नागवृक्षतले । अतुलम् असदृशम् ।। ८२ ॥ तस्मिन केवलोत्पत्तिसमये । समवसरणं सभाविशेषः ॥ ८३ ।। धूलोशालः पञ्चवर्णमणिचूर्णप्राकारः । वलयः अङ्गदः । अन्तरस्थाः मध्यस्थाः। विकचकमलानि व्याकोशाम्बजानि ॥ ८४ ॥ विशाला विस्तीर्णा । विरचितान्यागमोक्तशोभयालंकृतानि चतुर्गोपु राणि यस्य । उभयतः इतस्तत उभयपावें ॥ ८५ ॥ अर्चाः' प्रतिमाः । यागवृक्षाः चैत्यवृक्षाः । मणिमयतटैः मणिनिर्मितभित्तिभिः । लतामण्डपैः वल्लीगृ है: भ्राजमानाः शोभमानाः ॥ ८६ ।। केतुपङ्क्तिः ध्वजमाला। विचित्रा मालामृगेन्द्रादिनानाविधा । हेमशाल: स्वर्णप्राकारः ॥ ८७ ।। पराणि पराानि (णि ) । सभामण्डपाः सभागृहाणि ।। ८८ ।। अच्छस्फटिकः शुद्धस्फटिकः । अन्ते मध्ये । अनुपमम् अनन्यसदृशम् ॥ ८९ ।। स्फुरिता दीप्यमानाः । भासुररत्नानां रश्मयः किरणा यत्र । बोधः अनन्तज्ञानमनन्तदर्शनं च सहचरितत्वात् ॥ ९०॥ उदयं पुण्यप्रादुर्भावमाकांक्षन्ते इति उदयाकांक्षिण ॥ ९१ ॥
इति चन्द्रप्रमकाव्यपन्जिकायां सप्तदशः सर्गः ॥ १७ ॥
अष्टादशः सर्गः सम्यग्ज्ञानसुधाप्रवाहनिचयैर्येनेह शिष्यव्रजोधौताज्ञानरजश्चय. शुभमतिर्वाग्मी कृतः सद्गुणैः । स्यान्नित्यादिनयप्ररूपणपरैः स श्रीश्रुतादिमुनिः
संभूयात् प्रशमाय संयतपतिर्बोधप्रकर्षाय नः ।। सर्वभाषास्वभावेन बोध्यजीवानुभाषानुकारिलक्षणेन ध्वनिना अनवरात्मकभाषातिशयेन ॥ १॥ शासने मते ॥ २॥ पृथक्त्वपृक्षे भिन्नोच्चारणे ॥ ३ ॥ अवस्थानजनननाशलक्षणलक्षणः ॥४॥ भवितुं योग्यो भव्यस्तद्विलक्षणोऽभव्यः, शुद्धयशुद्धिभेदात् । यथा-'शुद्धयशुद्धी पुनः शक्तो ते पाक्यापाक्यशक्तिवत् । साद्यनादी तयोव्यक्ती स्वभावोऽतर्कगोचरः ॥ ॥ ५ ॥ प्रथमायां भूमौ उत्सेधः ७ धनु० ३ ह० ६ अं० । अन्त्ये इन्द्रके ततश्च द्वितीयाया अन्त्ये द्विगुणः-१५ धनु० २ ह० १२ अं० । तृतीयेऽन्त्ये ३१ धनु० १ ह । चतुर्थे। न्त्ये ६२ धनु० २ ह० । पञ्चमेऽन्त्ये १२५ धनु० । षष्ठेऽन्त्ये २५० धनु० । सप्तमे ५०० धनु० ॥ ९, १० ॥ प्रथमेऽन्त्ये सागरैकमायुः ( एक सागरोपममायुः ) । सा० १, सा० ३, सा० ७, सा० १०, सा० १७, सा. २२, सा० ३३ । प्रथम पटले १०००० जघन्यमायुः । प्रथमे पटले १०००० जघन्यमायुः । प्रथमे नरके यदुत्कृष्टं सागरैकम् ( एक सागरोपमम् ) आयुः, तद्वितीये जघन्यम् । शेषं सुगमम् ॥ ११, १२ ॥ २२ (?) प्रथमायां विलानि ३०००००० द्वितीयायां २५००००० तृतीयायां १५०००००। ( अवशिष्टासु क्रमशः) १०००००० । ३०००००० । ९९९९५ । ५ ।। १३, १४ ॥ देवकुरुः उत्तमभोगभूमिः ॥२९॥ शेषं सुगमम् । कर्मभूम्युद्भवानामुत्सेधः-धनु० ५२५ । इति उक्तप्रकारेण । गत्यादिभेदेन यथा-'गइ इंदिये य काये जोए वेए कसाय नाणे य । संजमदंसणलेस्सा भविया संमत्त संण्णि आहारे॥' इति परमागमे विस्तारः।। ६८ (?) ॥ शेषं स्पष्टम् । पञ्चधा अजोवभेदाः । एकीकृता जीवेन सह षड् द्रव्याणि । कालरहितानि द्रव्याणि पञ्चास्तिकायाः ॥ ७०(?) ॥ वर्तना ॥ इति द्रव्याणां नवजीर्णतालक्षणम् । परमार्थकालः । समयावल्य दिर्व्यवहारकालः ॥ ७७ ।। सकषायः। दशमगुणस्थानं यावत् ॥ उपशान्ताद्ययोगगुणस्थानं यावन्निःकषायः ॥ ८५ ॥
१.ब अर्वा। Jain Education Internate
For Private & Personal Use Only
www.jainelibrary.org