________________
५०४
चन्द्रप्रमचरितम्
सप्तदशः सर्गः सदादिनयमासुरैरघहरैरशेषप्रियैचोमिरिह सप्तमङ्गविषर्विनेयात्मनाम् ।
प्रणाशयति हृत्तमः करुणया रविर्वा परं श्रुतादिमुनिरन्वहं मुनिवरः स नः स्तान्मुदे ॥ द्रष्टुमिच्छुना दिदृक्षुणा। प्रसूतिसमयेन पौषे मासे कृष्णदशम्या अपगमे एकादशी तिथिमाप्य । अजीजनत जनयांचकार ॥ १ ॥ प्रसेदुः प्रसन्ना बभूवुः । सुरभयन् सुगन्धीकुर्वन् ॥ २॥ वृन्दं समूहः । दिविभवैदिव्यैः । बद्धमण्डलैः कृतवेष्टनैः ।। ३ ॥ रेणुः शब्दं चक्रः । अकरहति कराताडिता यथा भवन्ति । गजारयः सिंहाः ॥ ४॥ जलदवत् मेघवत् पटु सुन्दरं यथा भवति तथा। प्रतिध्वनि कुर्वाणाः ॥ ५॥ समसमयम् एकवारं युगपत् । प्रतस्थिरे प्रस्थानं विदधिरे ॥ ६॥ किरणानां निकुरम्बं कदम्बकं तेन रञ्जिता रागवत्यः ॥ ७ ॥ व्यनक्ति प्रकाशयति । तिरोहितः व्यवहितः ॥ ८॥ अमरालयात् स्वर्गात् । नृपगृहं यावत् ॥९॥ सवासवः इन्द्रसहितः ॥ १० ॥ जनित० यथाजातरूपसदृशम् । अर्भकं बालम् । उज्जहार उद्धृतवती ॥ ११ ॥ भासुरं दीप्यमानम् । अशीतरुचि सूर्यम् ॥ १२ ॥ सुरैश्चतुनिकायैर्देवैबृंहिते वृद्धि नीते। तं बालम् ॥ १३ ॥ अन्तगताः समीपस्थाः । अब्दः दर्पणः ॥ १४ ॥ मुखरं वाचालम् । समुपतस्थिरे जग्मिरे ॥ १५ ॥ नेदः शब्दिताः । भेरिकाः पटहाः ॥ १६ ॥ पेटकैः वन्दैः । दिगन्तरसहितम ।। १७॥ विनिहितानि आरोपि. तानि । सुराद्रिवर्म मेरुमार्गः ॥ १८॥ उरूणि गरिष्ठानि । रुचिराणि मनोहराणि चैत्यमन्दिराणि यत्र सः ॥ १९॥ कृतविततं (ति) विहितमालाम् । अमलतरम् अतिनिर्मलं दुग्धं क्षीरार्णवः तस्य जलकुटैः ॥ २०॥ ललितानि सुखव्याप्यानि वृत्तानि । निशिता तीक्ष्णा ॥२१।। त्रैलोक्यालंकारम् ॥२२॥ आह्वयन् आह्वाननं नाम चक्रः ॥ २३ ॥ प्रथमकल्पपतिः सौधर्मेन्द्रः। इतरैः ईशानादिभिर्वासवैरन्वितः सहितः ॥ २४ ॥ अकलङ्गं कलङ्करहितम् ॥ २५ ॥ कार्यिण: कार्याकांक्षिणः ॥ २६ ॥ हरिविष्टरस्थितं सिंहासनस्थम् ॥ २७ ॥ नौस्थितं ( तः ) प्रवहणमाश्रितः ॥ २८ ॥ अविचलितभक्ति स्थिरमनस्कतया दृढभक्ति ।। २९ ॥ अभव्यम् । अपहाय त्यक्त्वा ॥ ३० ॥ विस्रसा स्वभावेन ॥ ३१ ॥ कृती पुण्यवान् ।। ३२ ॥ आपदः ऐहिका आमुत्रिकाश्च ॥ ३३ ॥ भवदघ्रिपङ्कहसेवनं पदकमलोपासनम् ॥ ३४॥ उपलब्धचरी पूर्वं नोपलब्धा। नियंपेक्षा नि:कारणा ॥ ३५ ॥ अभिगम्य प्राप्य । प्रसाधिका अलंकरिष्णुः ॥ ३६ ॥ भाक्तिकाः भक्तिकरणशीलाः ॥ ३७ ।। अस्य असुभृतः । हृदयं मनः । न लीयते न लीनं स्यात् ॥ ३८ ॥ वाग्मिनां वचनपाटवयुक्तानाम् ॥ ३९ ॥ सिद्धं नुतिकृतं फलं यस्य स तेन ॥ ४० ॥ प्रणुत्य ( सं ) स्तुत्य ॥ ४१ ॥ विनिवेद्य पुनरुत्सवादिना निगद्य ॥ ४२ ॥ योजितामृतं ( तां ) न्यस्तपीयूष (षाम् ) ॥ ४३ ।। अनुवासरम् अनुदिनम् ।। ४४ ॥ अरीरमत् रमयांचकार ॥ ४५ ॥ प्रतिबुद्धबुद्धिः विचारचतुरमतिः ॥ ४६ ॥ मन्दनिहितचरणः मन्दारोपितपदः ॥४७॥ अविबद्धमल्यः अज्ञातमल्य: स्वभावः ॥४८॥ प्रजिघाय आददो (ददो) ॥ ४९ ॥ अनयत अप्रापयत् ॥ ५० ॥ नृपतिपट्टबन्धनं राज्याभिषेकम् ॥ ५१ ॥ अनुरोधतः अनुग्रहात् ॥ ५२ ॥ अभिननन्द जहर्ष ववृधे वा ।। ५३ ॥ जनाकुलतां व्यग्रताम् ॥ ५४॥ समोरणः वायुः । कर्णकटककठोरशब्दभीष्मः ॥ ५५ ॥ ईतिभिः सप्तभिः । 'अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः । स्वचक्रं परचक्रं च सप्तता ईतयः स्मताः । ॥ ५६ ॥ उपायनैः प्राभूतैः ॥ ५७ ॥ विभज्य विभागं कृत्वा ॥ ५८॥ प्रतिवासरम् अनुदिनम् ॥ ५९॥ यथाभिमतं यथेष्टम् ॥ ६॥ कोऽपि वृद्धः ॥ ६१ ॥ कृपणं कदर्यम् ॥ ६२ ॥ जगदीश त्रिलोकीपते ॥ ६३ ॥ तिरोहितवपुः विलीनकायः ॥ ६४ ॥ सभ्यजनमारुता वचनेन ॥ ६५ ॥ विकारेण कृतो वृद्धविग्रहः शरीरं येन ॥६६॥ इति वक्ष्यमाणाम् ॥६७ ।। अनुगतं विनश्वरम् ॥६८॥ अविरतमतिः संतप्तमति: ॥६९ ॥ विविधरचनानि विविधाकाराणि ॥ ७० ॥ तानि कर्माणि ॥ ७१ ।। जगदन्तिकामराः लो (लो) कान्तिका देवाः ॥ ७२ ॥ अमरपतिः इन्द्रः ॥ ७३ ॥ प्रवितीर्य दत्वा । अवदातचरितः निर्मलाचरणः अभिहितसिद्धनुतिः 'नमः सिद्धेभ्यः' इत्युच्चरितसिद्धस्तवः ॥ ७४ ।। अपाकृतान् उत्पाटितान् ॥७५ ॥ उत्सवं
१. जपाद्यानि । २ ब कार्याणां कांक्षिणः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org