________________
पञ्जिका
५०३
वर्णोऽक्षरादिः, स्तुतिश्च ॥ १८ ॥ मन्दत्वं गमने मन्दता, मूर्खत्वं च ॥ १९ ॥ पारे । आत्मना स्वयम् ॥२०॥ सार्वभौमं चक्रिणम् ।। २१ ॥ मदनफलैः धत्तूरबीजैः ॥ २२ ॥ मन्दोद्य मं शिथिलसाहसम् । स्वातन्त्र्यं स्वाधीनत्वम् । अभिभूत्यै तिरस्काराय ॥ २३ ॥ व्युत्थानं प्रतिरोधवृत्तिम् । निशम्य आकर्ण्य । प्रतस्थे प्रस्थानं चक्रे ॥ २४ ॥ धूत० निर्जितधन्वा । स्वशरव्यं स्वेन वेध्यम् । विदधत् ददत् । उपाय० प्राभृतोकृतगजे ॥ २५ ॥ प्रोद्दाम० प्रोत्कटाश्च ते द्विरदा दन्तिनश्च तेषां रदानां दन्तान् (-नां) प्रभेदात् प्रहाराद् निर्याता, भग्नाश्च ते योधाश्च तेषामसृताप्लुतं रथचक्रस्य चक्रवालं मण्डलं यत्र । वलयम् अङ्गदादि ॥ २६ ॥ शिलीमु० भ्रमरायमानम् ( णम् ) । व्ययुक्त व्ययविषयमकृत ॥ २७ ॥ उद्घान् उद्भटान् । अचिरांशुशोभान् विद्युत्सदृशान् । मरुदनुकारकारि पवनप्रचण्डम् ॥ २८ ॥ क्षितितलपालिनः भूमिपतेः । बलौघः सेनाप्रवाहः। प्रोत्खात० समूलमुत्पाटितं द्विषदवनोरुहाणां शत्रुराज्ञां (-राजानां ) प्रतिरोधिवृक्षाणां च प्रतानं संततिर्येन सः। जज्ञे जातः । संगमाभः संगमसदृशः ॥ २९॥ विदीर्णा प्रस्फुटिता। ते प्रसिद्धाः । अनुवेलं वेला कल्लोलम् अनु ॥ ३० ।। प्रहरणम् आयुधम् । शुचि निर्मलम् । अन्तर्वणं वनमध्ये । कक्कोलं' चन्दनफलम् । ववल्गः जगणुः ॥ ३१ ॥ जयककुदं जयचिह्नम् । 'प्राधान्ये राजलिङ्गे च वृषाङ्के ककुदोऽस्त्रियाम् ।' इत्यभिधानात् । निखानयांबभूव निचखान । नाकं स्वर्गम् । आरुरुक्षोः चटितुमिच्छोः ॥ ३२ ॥ यियासोः गन्तुमिच्छोः । सैकतैः सिकतामयैः। उडुवम गगनम् ॥ ३३ ॥ अन्ध्रीणाम् अन्ध्रप्रदेशस्त्रीणाम् । गण्डभित्तिः कपोलतलम् ॥ ३४॥ व्यपगतधामसु प्रतापप्रकाशरहितेषु । नयनोपलेषु सूर्यकान्तेषु ॥ ३५ ॥ उपयुक्ततोयाः पीतपीयूषाः । स्रोतोभि: प्रवाहैः । प्रवृद्धः प्रचुरैः ॥ ३६॥ ग्रेवेयैः कण्ठभूषाभिः । अकृषत आकृष्टाः ।। ३७ ।। पण्यस्त्रीमिव गणिकां यथा । अपाचों दक्षिणां दिशम् । संसर्पता प्रसरता । अकटाक्षि भोक्तुमुत्प्रेक्षिता ।। ३८ ॥ प्रतिहतशक्तिः निःसामर्थ्य: । अपसारसंज्ञा साररहितनामा ॥ ३९ ॥ पयोधराग्रं स्तनाग्रम् । लाटोये लाटदेशोद्भवनरसंबन्धिनि ॥ ४० ॥ विपक्षाणां कक्षं पक्ष, वनं च। ज्वलितं संतपितुम् ॥ ४१ ॥ पारसीकान् पारसोकदेशोद्भवान् । वैतस्या वेतसवन्नम्रया। वृत्त्या वर्तनेन । विनीय विनदान विधाय। आदित गृहीतवान् ॥ ४२ ॥ अनुकारि ( णो) सदशा। करेण भागधेयेन हस्तेन च ।। ४३ ।। संरम्भात् क्रोधोद्रेकात् । अभिपततः संमुखमागच्छमानान् । जलगजान् । निहत्य । मुक्तान् मुक्ताफलानि ( ? ) । उदलम्बयत् प्रलम्बयामास ।। ४४ ।। कुबेरगुप्ताम् उदीचोम् ।। ४५ ।। तिग्मांशोः सूर्यस्यापि । व्याक्षेपक्षणं कलहकालम् ॥ ४६ ॥ अनन्तस्य भाव आनन्त्यम् । स्वस्यानन्त्यम् । 'अनन्त उत्तरापथः' इति लोकोक्तिः ॥ ४७ ॥ शीकरोघैः हस्तिनोजलकणसमूहैः ॥ ४८॥ हुत्वापि गृहीत्वापि । अभोगबृद्धं भोगं विना चिरतरसंचितम् । टक्कानाम् उत्तरदेशोद्भवानां भिल्लानाम् ॥ ४९ ॥ भूमिभृत्सु राजसु भूधरेषु च । वज्रोभूय निर्वाशको भूत्वा, वज्रं पविश्च अजनिष्ट चकोरेत्पर्थः ॥ ५० ॥ खशाः खशदेशोद्भवा एव । मशकाः देशभेदाः । मशकेषु किल धूमो ध्वंसकः ।। ५१ ॥ शुश्राव शृणोति स्म ।। ५२ ॥ हस्तमर्दिताः बलिदिताश्च ॥ ५३ ।। वसनं वस्त्रं [ तद्-] युगादिः । यथायथं यथायोग्यम् ।। ५४ ।। प्रागेव षण्मासानिति संबन्धः । अहिद्विषा इन्द्रेण ।। ५५ ।। कर्तव्यं कार्यविशेषम् । व्यधिषत चक्रुः ।। ५६ ॥ कल्याणाङ्गी भद्राङ्गो ।। ५७ ।। शैलेन्द्राभं विजयाद्धतुल्यम् । रेकमाणं शब्दयन्तम् ( नदन्तम् ) ॥ ५८ ।। शोतभानु चन्द्रम् ॥ ५९ ॥ सिंहव्यूढं सिंहोद्धृतम् ॥ ६० ॥ धूमकेतुं वह्निम् ।। ६१ ॥ कल्याणं मङ्गलम् । तत्फलज्ञा स्वप्नफलावगमनशीला ॥ ६२ ।। उदार उत्कट ( टो ) दुर्लङ्घयो लचि तुमशक्यः ।। ६३ ॥ हे सुभ्र सुलोचने ॥ ६४ ॥ पाथोनाथात् समुद्रात् ।। ६५ ॥ धक्ष्यति भस्मोकरिष्यति ॥ ६६ ॥ दयितात् वल्लभात् ॥ ६७ ।। अनुत्तरवैजयन्तनामविमानात् ।। ६८ ॥ क्षोभः व्याकुलत्वम् । आटोपेन संभ्रमेण ॥ ६९ ॥ तन्वतीभिः विस्तारयन्तोभिः ॥ ७० ॥
इति चन्द्रप्रमकाव्यपञ्जिकायां षोडशः सर्गः ॥ १६॥
१. जवषाणां । २. ब वन्दन। ३. ज युगादिः यानादिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org