________________
५०२
चन्द्रप्रमचरितम्
॥१०३ ॥ अधमैः न्यग्भिः ॥ १०४ ॥ दुर्नयैः दुरभिप्रायैः ॥ १०५॥ न लक्ष्यो मोक्षो मुञ्चनं संघानं च येषां ते, तान् ॥ १०६॥ अविच्छिन्नः निरन्तरैः ॥ १०७ ॥ प्रजह्रतुः प्रहारं चक्रतुः ॥ १०८॥ समशेत संदिदेह ॥१०९॥ दधे जीवन् गृहीतः ॥११० ॥ अन्तिकम् उपकण्ठम् ॥ १११ ।। विजिग्ये जितवान् ॥ ११२॥ भग्नमनोरथाः गतमनोऽभिप्रायाः ॥ ११३ ॥ करालीकृते विषमीकृते लोचने येन सः ॥ ११४॥ असाधारणैः लोकोत्तरैः ।। ११५ ॥ न मनुष्यस्येव बलं यस्य सः-असमसामर्थ्यः ।। ११६ ॥ अवज्ञा शिथिलत्वम् ।। ११७॥ दयितां वल्लभाम् ।। ११८॥ असाधारणपराक्रमौ ॥ ११९॥ महाहवम् अधिकसंग्रामम् ॥ १२० ।। दिगाभोगाः दिग्मण्डलानि ।। १२१ ॥ निष्कम्पनयनम् ॥ १२२ ॥ दृप्त० दर्पोद्धतयोर्दोद्द (-दोर्दर्प-) प्रगल्भयोश्च ॥ १२३ ।। लुलाव चिच्छेद ॥ १२४ ।। प्रयासेन खेदेन विजितो रहितः ॥ १२५ ॥ गुरुः जनकः ॥ १२६ ॥ सुवर्णमालाया अपत्यम् ॥ १२७ ॥ वन्ध्यां निरर्थ (-थि.) काम्' ॥ १२८ ॥ कणीकृतः चूर्णी विहितः । ॥ २२९ ॥ चिच्छेद द्विधा व्यधात् ॥ १३० ।। स्पृशन् आस्फालयन् ।। १३१ ॥ शि (श.) वोभूतान् प्रेत्यभावं गतान् ॥ १३२ ।। निर्वेदं वैराग्यम् ॥ १३३ ।। कुलटया दुश्चरित्रया ॥ १३४ ।। जागति कटाक्षते ॥ १३५ ॥ अवज्ञाय अनादरीकृत्य । शिश्रिये आश्रितः । श्रमणश्रियं मुनिभावम् ॥ १४७ ॥ एकादश श्लोकाः सुगमाः ॥ शिक्षासमयतां ज्ञानग्रहणयोग्यताम् ॥ १४८॥ बृहयामास प्रवृद्धं चकार ॥ १४९ ॥ तनुः कृशः। अतन्द्रिणा आलस्योज्झितस्य ॥ १५० ॥ इति वक्ष्यमाणानि ॥ १५१॥ शङ्कादिरहिता। अधिकः संपन्नता ॥ १५२॥ अतिचारविपर्ययः शीलवतेष्वतिचारः ।। १५३ ।। उपधानादिपर्वकः अभीक्ष्णज्ञानोपयोगः ।। १५४ ॥ सामर्थ्य वीर्यमनतिक्रम्य ।। १५५ ॥ समुद्यमः करणम् ।। १५६ ॥ भेदिषु रहस्यज्ञेषु ॥ १५७ ॥ अवश्यकार्याणाम् आवश्यकक्रियाणाम् ॥१५८ ॥ दशनवात्सल्य प्रवचनवत्सलत्वम् ।। १५९।। व्रतनियमः पूर्णः ॥ १६० ॥ दृक्करणबोधतपांसि आराधनाचतुष्टयम् । अपांसुः विरजः (जाः) ॥ १६१ ॥ त्रयस्त्रिंशत्सागरायुः ।। १६२ ॥
इति चन्द्रप्रमकाव्यपञ्जिकायां पञ्चदशः सर्गः ॥ १५॥
षोडशः सर्गः यो बुध्वा सर्वशास्त्राम्बुधिमनुगनरस्वान्तसंशीतिगाढध्वान्तध्वंसं विधाय प्रमितिनयसुधापूरपूतैः स्ववाक्यैः । चक्रेऽत्यन्तं प्रबुद्धान सुरजनसहितान् शिष्यवर्गान् श्रुतादि
भूयात् सोऽयं मुनि! दृगवगमचरित्रादिहेतुर्यतीशः ॥ १॥ सरोजखण्डैः कमलवनैः । परितः इतस्ततः ।। १॥ असहाः असमर्थाः। विदग्धाः चतुरा गोप्यः क्षेत्ररक्षिकाः॥२॥ आरवः शब्दविशेषः । सरसरसामृतं स्वादुरसपीयूषम् ॥ ३ ॥ सच्छायाः सतो प्रशस्ता छाया येषां ते. पक्षे सत्सु छाया कान्तियेभ्यस्ते ॥ ४॥ नीरन्ध्रः निरन्तरैः। सुरकुरु: उत्कृष्टभोगभूमिः । अवग्रहाः अन्तरायाः ॥ ५ ॥ मुखरः वाचालः । त्रिदशपुरी अमरावती ॥ ६ ॥ करानः हस्ताः । पवनपथस्य गगनस्य । गोपुरं पुरद्वारम् ।। ७॥ काचाद्रिक नीलपर्वतसदृशः ।। ८॥ वियोगी वोनां पक्षिणां योग: संगतिर्यस्य. नान्यः कश्चिद् वियोगवान् । विलमाप्नोतीति, विशालपरिदेवनशब्दयुक्तो न। विगतो रसो विरसस्तस्य भावो वैरस्यम। कलियुक्तता न च । गदया शस्त्रभेदेनाभिघातः; गदेन व्याधिना न ।। ९॥ नागानां गजानां सणां च । उरु गरिष्ठं विपुलं च । शाक्यानां सौगतानाम् ।। १०॥ महादिसेनः महासेनः ।। ११ ॥ कल्याण शुभं तत्स्वभावेन स्वर्ण च । मेरुम् ।। १२ । प्रलयपराकृतं (त) व्यवस्थः । अभ्भोधेर्व्यवस्था स्थितिः प्रलयन पराकृता, अस्य न ॥ १३ ॥ राजविद्या आन्वीक्षिक्यादिः ॥ १४ ॥ विशेषकस्य तिलकस्य । इतया [-तैव] अनेनैव प्रकारेणैव । गुरुत्वं पितृत्वम् ॥ १५ ।। पुष्पेषोः कामस्य । परमेश्वरी मान्या ।। १६ ॥ वंशोऽन्वयः, वेणुश्च ॥ १७ ॥
१. जरर्थकम् । २. व क्षति। ३. व पुष्पेशोः । Jain Education International For Private & Personal Use Only
www.jainelibrary.org