________________
पञ्जिका स्वमाहात्म्यं शब्दयतः । 'रु शब्दे' धातो रु -- प्रत्ययः । उणादिकः । पुनः किंविशिष्टस्यारेः । उरूरूरो: स्थूलस्थूलोरो: स्वसदृशजङ्घस्य । पुनरपि किंविशिष्टस्य । उरो गरिष्ठस्य जनप्रसिद्धस्येत्यर्थः । एकाक्षरः ॥ ३९ ॥ कक्षा स्पर्द्धा । आह्वास्त आकारयति स्म ॥ ४० ॥ अस्थास्नुभिः अस्थिरैः । क्रेतुं मोल्येनादातुम् ॥ ४१ ॥ अरिशरजालं शत्रुबाणसमूहम् ॥ ४२ ॥ निजाश्च ते इषवो बाणाश्च० । नाज्ञासिषुः न ज्ञातवन्तः ।। ४३ ।। स्मारं स्मारं स्मृत्वा स्मृत्वा ॥ ४४ ॥ समुदा सहर्षेण । येन शत्रुणा । यः शत्रुजितः । तेन जितेनापि । सः शत्रुः । अस्त्रसमुदायेन शस्त्रसमूहेन योजितः ॥ ४५ ॥ ततः इभकुम्भकुम्भात् ॥ ४६ ॥ भूरितापाः प्रचुर संतापकराः । रणाशयाः समराभिप्रायाः । भूतैः देवभेदैः । युद्धभूः संग्रामभूमिः । इता प्राप्ता । पारणाशया भोजनाभिप्रायेण ॥ ४७ ॥ बाणधो भस्त्रे ॥ ४८ ॥ धीरधीरारिरुधिरैः धीराश्च घोराश्च धोरधीराः निष्कम्पाः ते च तेऽरयश्च अन्योन्यशत्रवस्तेषां रुधिराणि तैः । उरुधाराधरैः उरवश्च ते धाराधरा मेघारच, अथवा गरिष्ठधारया पतमानैः । अरम् अतिशयेन । धराधराः पर्वतास्ते आधारोऽवष्टम्भो यस्याः सा । अधः प्रदेशेऽधरा घरा निम्ना निम्ना' धरा भूमिस्तै रुरुधे पूरिता आघृता इत्यर्थः । द्वयक्षरचित्रम् ।। ४९ ।। जज्ञिरे जाताः । प्रगुञ्जन्निनदाः प्रगुञ्जच्छब्दाः । नदाः द्रहाः । आसन् जाताः । मूल० मूलतरिछन्नाः । मकराः जलजीवाः । करा: शुण्डादण्डानि ( - ण्डा : ) । ५० ॥ अङ्गमङ्गं प्रति प्रत्यङ्गम् ॥ ५१ ॥ केन पतता मस्तकेन । तत्रसुः त्रस्ताः । आलोकं दृष्टिगोचरताम् । गतेन प्राप्तेन । मृतकसंबन्धिना । के प्रसिद्धाः । तत्र आजी । सुराः देवाः । स्वम् आत्मीयम् । लोकं देवलोकम् ' । त्यक्त्वा । कौतुकं द्रष्टुमागताः ।। ५२ ।। कबन्धैः अ-प मूर्द्धकलेवरैः ॥ ५३ ॥ निरन्तरनिपातिनां सान्द्रवर्षिणामिषूणां बाणानां जालैः समूहैः ॥ ५४ ॥ रणरङ्गभूः समरोत्साहभूमिः ॥ ५५ ॥ स्वामिनामा प्रभुशब्दवाच्यः । ना पुमान् । येनैकोऽपि न जितः । तस्य नृता पुरुषत्वं न बभूव । स्वामिना प्रभुणा च । अनृता असत्या । मानना मान्यत्वम् । न कृता ॥ ५६ ॥ धीरः निष्कम्पः ॥ ५७ ॥ प्रजह: युयुधुः ॥ ५८ ॥ प्रति । पत्ति ] सादिता: पदातिभिर्मारिताः ।। ५९ ।। रणाङ्गणम् ।। ६० ।। भङ्गं पलायनम् । उत्तस्थौ ढोके ॥ ६१ ॥ कृच्छ्रे कृ [क] ष्टे ॥ ६२ ॥ संभ्रमं भङ्गम् । न पूर्वं दृष्टं कैश्चिदित्यदृष्टपूर्वम् ।। ६३ ।। रणे युद्धे ॥ ६४ ॥ कोदण्डेन धनुषा दारुणो भीष्मः ॥ ६५ ॥ शत्रुकुलं यूथम् ॥ ६६ ॥ कटाक्षयामास अभिस ( से ) ॥ ६७ ॥ 'तुमुलं रणसंकुले' । इत्यमरः ॥ ६८ ॥ हुतभुक्शिखम् अग्निज्वालम् । रोपाः इषवः ॥ ६९ ॥ आरात्रः शब्दविशेषः । 'मत्ते शोण्डोत्कटक्षीबा:' । इत्यमरः । मेघच्छन्नाहः ॥ ७० ॥ रन्ध्रम् अवसरम् । शशिशेखरः पृथ्वीपालसेनानीः ॥ ७१ ॥ शक्त्या आयुधविशेषेण ।। ७२ ।। प्रभोः पृथ्वीपालस्य । पुरः अग्रे । केतुनामा; केतुर्ग्रहविशेषः ।। ७३ ।। स्फुरदहंकारबृहद्विषः ॥ ७४ ॥ केतौ भग्ने पलायिते । सुकेतुनाम्नः ( म्ना ) ॥ ७५ ॥ शतशः | बहुखण्डम् ॥ ७६ ॥ छिन्नपक्षं भग्नबाहुम् । विरोचन इव सूर्यो यथा || ७७ || विमुखं वृत्तपृष्ठम् ।। ७८ दुधुवे प्रकम्पितम् । समुद्दी ० दर्पितमनसा ।। ७९ ।। अभिशत्रुपताकिनीं शत्रुसैन्यसन्मुखम् ॥ ८० ॥ अरिवाहिनीं शत्रुसेनाम् ॥ ८१ ॥ प्रत्यवतस्थे स्थगितः ।। ८२ ॥ विस्मितामराः आश्चर्यं गतदेवा: ( ? ) ॥ ८३ ॥ नूनं निश्चितम् । अमूर्तमेव ॥ ८४ ॥ नाजीगणत् न ज्ञातवती ॥ ८५ ॥ शङ्कुजा [ ना ] आयुधविशेष: ( विशेषेण ) ॥ ८६ ॥ प्रतीक्षते अवलम्बते । दशनच्छदम् उष्टम् ( ओष्ठम् ) ॥ ८७ ॥ गाढः दृढः ॥ ८८ ॥ प्रतीच्छन् लभमानः ॥ ८९ ॥ समुत्तेजित ० त्वरित० ॥ ९० ॥ समापतन्तं समागच्छन्तम् ॥ ९१ ॥ प्रहृत्य चिरकालं युद्ध्वा ।। ९२ संबन्धिनि ॥ ९३ ॥ कोलाहल : कलकलः ।। ९४ ।। धृतं गृहीतं दिव्यं संभूय एकीभूय । राजकं क्षत्रियगणः ।। ९६ ।। ' भक्षको घस्मरोऽद्मरः' । इत्यभिधानात् ।। ९७ ।। वाहित रथं व्यापारितस्यन्दनम् ।। ९८ ।। प्रहर्तुं घातं कर्तुम् ॥ ९९ ॥ नः अस्मान् । असदृशसंग्रामम् ॥ १०० ॥ शक्तुथ शक्ता भव ॥ १०१ ॥ धनुर्ज्या मौर्वीम् । आस्पृशन् टङ्कारयन् ॥ १०२ ॥ चापलसूचनैः दुश्चरित्र प्रकाशनैः
1
19
।।
ववले व्याघुटितः । माहीरथे महीरथमन्त्रात्मकं शरासनं धनुर्येन ॥ ९५ ॥
१. ब ' निम्ना' इति नोपलभ्यते । २. ब वृता । ३. व ग्रहाः । ४. ज 'न्धिनाः । ५. ब ' देवलोकम्' इति नास्ति । ६. ब दृष्टनागताः । ७. ज तस्थे । ८. ब 'यूथम्' इति नास्ति । ९. व तुर्नामा । १०. ज सुकेतुना नाम्ना । ११. ब शतत् ।
Jain Education International
५०१
For Private & Personal Use Only
www.jainelibrary.org