SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमचरितम् पञ्चदशः सर्गः श्रीमत्तार्किकचक्रचर्चितपदं सिद्धान्तसत्तोयधेमध्योन्मज्जनलब्धदृष्टिधिषणासवृक्तरत्नत्रयम् । स्याद्वादास्तसमस्तशिष्यहृदयध्वान्तं स्वसंवेदन ज्ञानज्ञातनिजं श्रुतादिकमुनिं वन्दे जनोद्बोधकम् ॥ अथ आनन्तर्ये' भूभृतां पर्वतानां राज्ञां च । कटकाः नितम्बाः सैन्यानि च । संनाहाथ पटहानां ध्वनिः ॥ १ ॥ तस्मिन् ध्वनी पताकिनी सेना ।। २ ।। मदोद्धताकारैः प्रोन्मत्तावयवैः । 'चक्षुषो द्वे कपोली च पाणिपान्नाभिमेहनाः । अष्टौ स्थानानि नागानां मदस्य स्रुतिहेतवः ।। ३ ।' आनशिरे पूरितानि । पुलकोद्गमैः रोमाञ्चैः ॥४॥ उपचक्रमे प्रारब्धम् । समरे संग्रामे । समरेखकं चतुरस्रम् । हृष्यति पुलकिते । तनुच्छदं कङ्कटकम् । अपर्याप्तम् अनीप्सितम् । ना पुमान् कश्चित् । नामुञ्चत् शरीरे न त्यक्तवान् । पुनरमुचत् त्यक्तवान् । पुनः वारं वारम् ॥ ६॥ लघुभूतं स्तोकोभूतम् । स्वकरस्पर्शात् स्वहस्तसंश्लेषात् ।। ७ ।। वीररसे विद्यमानेऽपि कान्तां दृष्ट्वा शृङ्गाररसेन द्विगुणीभूतैः । अन्तर्दधे अन्तहिता ।। ८ ॥ रिपुरोषेणारुणोभूता या छविः तया छुरित० कबुारतकवचः ॥ ९ ॥ बहुभयानकगभीरायाः। भूः भूमिः । इभैः गजैः । अवधि ताडिता। इरायाः सुरायाः । 'इरा भूवाक्सुराप्सु स्यात्' इत्यमरः । सदृशमदैः । अत्र मद्यसदृशे दाने भूमौ पतिते स्वमेव प्रतिबिम्बं दृष्ट्वा पूर्वदृष्टस्य प्रतिगजस्य श्रुतेरवधारणाद् भूरेवावधि ॥ १० ॥ अनिष्ठया चलतया ॥ ११ ॥ व्यवायेन व्यवधानभूतेन । जयलक्ष्म्याः परिष्वङ्गमहं विदधे । व्यवाय मयं करोतीति वा हेतोः ॥ १२ ॥ भीमरथो नाम नृपतिः ॥ १३ ॥ भीमरथस्यापत्यं भैमरथिः ॥ १४ ॥ कृतोत्सर्गः विहितसंप्रदानः ॥ १५ ॥ सः चतुरः । सच्चकार संमानयामास । कुलकम् ॥ १८ ॥ विशेषज्ञः कार्यविपश्चित् । तत्सात् तदीयमेव ॥ १९ ॥ सेना वाहिनी । सह इनेन प्रभुणा वर्तते इति सेना । यती प्रयत्ने गच्छमाना । बद्धराजिः कृतश्रेणिः । आजिसमुत्सुका संग्रामोत्कण्ठा । चक्राणि च इषवश्च खङ्गाश्च अस्त्राणि च तैः सारा स्थिरा। सा सेना अरातिसाध्वसं भियं चक्रे विदधे ॥ २० ॥ महामात्रैः प्रधानैः । सज्जीकृतं सावधानीकृतम् । पुरोधसा रोपितास्त्रं मन्त्रपततया धृतास्त्रम् । अभिशत्रु शत्रुसन्मुखम् ॥ २१ ॥ रथिना रथारूढेन । अनुसने अनुजग्मे ॥ २२ ॥ रणविग्रहं ( रणविग्रह- ) नामानम् । पूषणं सूर्यम् ॥ २३ ॥ दीप्यमानाय॑शस्त्रमूलम् ॥ २४ ॥ हस्त्यश्वरथपादातिलक्षणबलसहिताः ॥ २५ ॥ व्यक्तेयत्प्रमाणा ॥ २६ ॥ स्वनं कृतवती ॥ २७ ॥ परीयाय प्रदक्षिणं कृतवान् । 'लोमा कांस भरॅजनकुलः खञ्जरोटकः । एतेषां दर्शनं ग्राह्यं दुर्लभा च प्रदक्षिणा ॥' प्रदक्षिणं दक्षिणां दिशमासृ ( श्रि ) त्य काको मृदु वावसे [ववाशे ] शब्दितवान् ॥ २८ ॥ सुश्रुवे श्रुतम् [ सुस्रुवे स्रुतम् ] ॥ २९ ॥ इष्टः मनोऽभिलषितैः । इष्टार्थों जयस्तस्य सूचकैः ॥ ३० ॥ सराजकनृपतिः [ सराजकः ] क्षत्रियगणसहितः । अमर्षात् रोषात् ॥ ३१ ॥ अशिवम् अकल्याणकरम् ॥ ३२ ॥ आतें रुदितस्य स्वरं शब्दम् ॥ ३३ ।। सन्मुखवाराम् । रुधिरवर्षणम् ॥ ३४ ॥ संघट्टः तुमुलम् ॥ ३५ ॥ त्वरान् शीघ्रवेगान् ॥ ३६ ॥ मदोत्सेकेन मद्यसिञ्चनेन । वल्गन्ती शस्त्रश्रमं कुर्वती ॥ ३७॥ 'हेषा हृषा च निस्वनः' इत्यमरः। कूजत्पटहे ॥ ३८ ॥ अरिः कश्चिच्छत्रुः । किविशिष्टः। रैरोराः रायं द्रव्यं राति ददातीति रैरो धनदस्तद्वदुरो हृदयं यस्यासी रैरोरा:-धनदवत् त्यागकरणे विपुलमनाः। रैररैरेरी रायं रातोति रैरो धनदाता स चासो रैरश्च धनदश्च रैररैरः धनव्ययकर्ता धनदः तमोरयति परिभवतीति रैररेरी। स्वदातृत्वेन धनदातुर्धनदस्यापि जेता, परिभवकर्तेत्यर्थ । पुनरपि किंविशिष्टोऽरिः। रोरु: शब्दयन् स्वमाहात्म्यं ( त्म्य- ) सूचक इत्यर्थः । पुनरपि फिविशिष्टः । उरूरूरुः ऊरू च ऊरू च स्थूलस्थूलो ऊरू जो यस्य स उरूरूरुः दृढजानुरित्यर्थः । स च ( चा ) रेः शत्रोः सन्मुखम् । अरोरैः अराश्चक्राङ्गानि विद्यन्ते येषां तान्यरीणि चक्राणि तेषामीरैः क्षेपैः चक्रक्षेपैरित्यर्थः । कथम् । अरम् अतिशयेन । आर डुढौके । किंविशिष्टस्यारेः । रोरोः १. बन्तरे। २. ब विवाह । ३. ब 'भर' इति नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy