Book Title: Chandraprabhacharitam
Author(s): Virnandi, Amrutlal Shastri
Publisher: Lalchand Hirachand Doshi Solapur

View full book text
Previous | Next

Page 556
________________ पञ्जिका ५०३ वर्णोऽक्षरादिः, स्तुतिश्च ॥ १८ ॥ मन्दत्वं गमने मन्दता, मूर्खत्वं च ॥ १९ ॥ पारे । आत्मना स्वयम् ॥२०॥ सार्वभौमं चक्रिणम् ।। २१ ॥ मदनफलैः धत्तूरबीजैः ॥ २२ ॥ मन्दोद्य मं शिथिलसाहसम् । स्वातन्त्र्यं स्वाधीनत्वम् । अभिभूत्यै तिरस्काराय ॥ २३ ॥ व्युत्थानं प्रतिरोधवृत्तिम् । निशम्य आकर्ण्य । प्रतस्थे प्रस्थानं चक्रे ॥ २४ ॥ धूत० निर्जितधन्वा । स्वशरव्यं स्वेन वेध्यम् । विदधत् ददत् । उपाय० प्राभृतोकृतगजे ॥ २५ ॥ प्रोद्दाम० प्रोत्कटाश्च ते द्विरदा दन्तिनश्च तेषां रदानां दन्तान् (-नां) प्रभेदात् प्रहाराद् निर्याता, भग्नाश्च ते योधाश्च तेषामसृताप्लुतं रथचक्रस्य चक्रवालं मण्डलं यत्र । वलयम् अङ्गदादि ॥ २६ ॥ शिलीमु० भ्रमरायमानम् ( णम् ) । व्ययुक्त व्ययविषयमकृत ॥ २७ ॥ उद्घान् उद्भटान् । अचिरांशुशोभान् विद्युत्सदृशान् । मरुदनुकारकारि पवनप्रचण्डम् ॥ २८ ॥ क्षितितलपालिनः भूमिपतेः । बलौघः सेनाप्रवाहः। प्रोत्खात० समूलमुत्पाटितं द्विषदवनोरुहाणां शत्रुराज्ञां (-राजानां ) प्रतिरोधिवृक्षाणां च प्रतानं संततिर्येन सः। जज्ञे जातः । संगमाभः संगमसदृशः ॥ २९॥ विदीर्णा प्रस्फुटिता। ते प्रसिद्धाः । अनुवेलं वेला कल्लोलम् अनु ॥ ३० ।। प्रहरणम् आयुधम् । शुचि निर्मलम् । अन्तर्वणं वनमध्ये । कक्कोलं' चन्दनफलम् । ववल्गः जगणुः ॥ ३१ ॥ जयककुदं जयचिह्नम् । 'प्राधान्ये राजलिङ्गे च वृषाङ्के ककुदोऽस्त्रियाम् ।' इत्यभिधानात् । निखानयांबभूव निचखान । नाकं स्वर्गम् । आरुरुक्षोः चटितुमिच्छोः ॥ ३२ ॥ यियासोः गन्तुमिच्छोः । सैकतैः सिकतामयैः। उडुवम गगनम् ॥ ३३ ॥ अन्ध्रीणाम् अन्ध्रप्रदेशस्त्रीणाम् । गण्डभित्तिः कपोलतलम् ॥ ३४॥ व्यपगतधामसु प्रतापप्रकाशरहितेषु । नयनोपलेषु सूर्यकान्तेषु ॥ ३५ ॥ उपयुक्ततोयाः पीतपीयूषाः । स्रोतोभि: प्रवाहैः । प्रवृद्धः प्रचुरैः ॥ ३६॥ ग्रेवेयैः कण्ठभूषाभिः । अकृषत आकृष्टाः ।। ३७ ।। पण्यस्त्रीमिव गणिकां यथा । अपाचों दक्षिणां दिशम् । संसर्पता प्रसरता । अकटाक्षि भोक्तुमुत्प्रेक्षिता ।। ३८ ॥ प्रतिहतशक्तिः निःसामर्थ्य: । अपसारसंज्ञा साररहितनामा ॥ ३९ ॥ पयोधराग्रं स्तनाग्रम् । लाटोये लाटदेशोद्भवनरसंबन्धिनि ॥ ४० ॥ विपक्षाणां कक्षं पक्ष, वनं च। ज्वलितं संतपितुम् ॥ ४१ ॥ पारसीकान् पारसोकदेशोद्भवान् । वैतस्या वेतसवन्नम्रया। वृत्त्या वर्तनेन । विनीय विनदान विधाय। आदित गृहीतवान् ॥ ४२ ॥ अनुकारि ( णो) सदशा। करेण भागधेयेन हस्तेन च ।। ४३ ।। संरम्भात् क्रोधोद्रेकात् । अभिपततः संमुखमागच्छमानान् । जलगजान् । निहत्य । मुक्तान् मुक्ताफलानि ( ? ) । उदलम्बयत् प्रलम्बयामास ।। ४४ ।। कुबेरगुप्ताम् उदीचोम् ।। ४५ ।। तिग्मांशोः सूर्यस्यापि । व्याक्षेपक्षणं कलहकालम् ॥ ४६ ॥ अनन्तस्य भाव आनन्त्यम् । स्वस्यानन्त्यम् । 'अनन्त उत्तरापथः' इति लोकोक्तिः ॥ ४७ ॥ शीकरोघैः हस्तिनोजलकणसमूहैः ॥ ४८॥ हुत्वापि गृहीत्वापि । अभोगबृद्धं भोगं विना चिरतरसंचितम् । टक्कानाम् उत्तरदेशोद्भवानां भिल्लानाम् ॥ ४९ ॥ भूमिभृत्सु राजसु भूधरेषु च । वज्रोभूय निर्वाशको भूत्वा, वज्रं पविश्च अजनिष्ट चकोरेत्पर्थः ॥ ५० ॥ खशाः खशदेशोद्भवा एव । मशकाः देशभेदाः । मशकेषु किल धूमो ध्वंसकः ।। ५१ ॥ शुश्राव शृणोति स्म ।। ५२ ॥ हस्तमर्दिताः बलिदिताश्च ॥ ५३ ।। वसनं वस्त्रं [ तद्-] युगादिः । यथायथं यथायोग्यम् ।। ५४ ।। प्रागेव षण्मासानिति संबन्धः । अहिद्विषा इन्द्रेण ।। ५५ ।। कर्तव्यं कार्यविशेषम् । व्यधिषत चक्रुः ।। ५६ ॥ कल्याणाङ्गी भद्राङ्गो ।। ५७ ।। शैलेन्द्राभं विजयाद्धतुल्यम् । रेकमाणं शब्दयन्तम् ( नदन्तम् ) ॥ ५८ ।। शोतभानु चन्द्रम् ॥ ५९ ॥ सिंहव्यूढं सिंहोद्धृतम् ॥ ६० ॥ धूमकेतुं वह्निम् ।। ६१ ॥ कल्याणं मङ्गलम् । तत्फलज्ञा स्वप्नफलावगमनशीला ॥ ६२ ।। उदार उत्कट ( टो ) दुर्लङ्घयो लचि तुमशक्यः ।। ६३ ॥ हे सुभ्र सुलोचने ॥ ६४ ॥ पाथोनाथात् समुद्रात् ।। ६५ ॥ धक्ष्यति भस्मोकरिष्यति ॥ ६६ ॥ दयितात् वल्लभात् ॥ ६७ ।। अनुत्तरवैजयन्तनामविमानात् ।। ६८ ॥ क्षोभः व्याकुलत्वम् । आटोपेन संभ्रमेण ॥ ६९ ॥ तन्वतीभिः विस्तारयन्तोभिः ॥ ७० ॥ इति चन्द्रप्रमकाव्यपञ्जिकायां षोडशः सर्गः ॥ १६॥ १. जवषाणां । २. ब वन्दन। ३. ज युगादिः यानादिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616