Book Title: Chandraprabhacharitam
Author(s): Virnandi, Amrutlal Shastri
Publisher: Lalchand Hirachand Doshi Solapur

View full book text
Previous | Next

Page 548
________________ पत्रिका १९५ वाक्येन वचनप्रतीत्या । पयोऽपि जलमपि । गोरसः क्षीरम् ॥ २३ ॥ अकैतवताम् [ अकैतवाम् ] अवितथाम् । प्रिया इष्टा प्रिया भार्या यस्य सः ॥ २४ ॥ आक्षिपन् आक्षेपविषयां कुर्वन् । कटाक्षितः अक्षणा भाषितः । उदाहरत बभाषे ॥ २५ ॥ विनयप्रशमौ एकं भूषणं यस्य--वचसः तत, पक्षे विगतं नयप्रशमै कभूषणं यस्य तत् । परमश्चासौ न्यायश्च तस्य समर्थने पुष्टिदाने उद्यतमुत्कटं, पक्षे परं केवलमन्यायस्य अनीतेः समर्थनोद्य तम् । उपक्रमेत प्रारभेत ॥ २६ ॥ परा उत्कटा चासो मेधा च उद्यमश्च योग्यता च तया सहितैः. पक्षे परं केवलम् एषांसि काष्ठानि तेषां निक्षेपणे उद्यमयोग्यता ( तया ) सहितः । स्तवभूतिः स्तुतिसंपत, पक्षे तव भवतः प्रभोमन्दिरे भूतिभस्म ॥ २७ ॥ विशिष्टनयेषु एका रतिर्यस्य सः, पक्षे विनष्टा नयैकरतिर्यस्य ( सः)। महान् गुणो यस्य, पक्षे महानगुणो यस्य सः । उचितम् इति काकुवचनं, पक्षे योग्यमेव ॥ २८ ॥ अक्षमा तितिक्षा ॥ २९ ॥ निज स्वभुजपराक्रमसाधितमात्मीयम् । अक्रमः अयोग्यता ॥ ३० ॥ क्रमसंप्रकाशनैः अनुक्रमोद्योतनैः ॥ ३१ ॥ कृतपुण्यं प्राक्पुण्यपुष्टम् । अपास्यते हठाद् गृह्यते ॥ ३२ ॥ अथवा श्लोक्तिप्राधान्यात् इति चेत् भयशिवचः किमभिधत्से वदसि अभिधत्ते भवानिति वा पाठः ॥ ३३ ॥ अभियोक्तुं योद्ध सन्मुखीकर्तुम् ॥ ३४ ॥ अधिकक्रमता अत्युल्लङ्घनता। लिलङ्घिषोः लङ्घि तुमिच्छोः ॥ ३५ ॥ प्रविधित्सुः कर्तु। मिच्छुः । अतिक्रमम् उल्लङ्घनम् ॥ ३६ ॥ विबोधनां विनिद्रताम् ॥ ३७ ॥ अभियुज्य अभिकण्डूय । अभियुक्तः कटाक्षितः। संप्रधुक्षितः :प्रेरितः ।। ३८ ॥ क्षयवान् प्रक्षीणबलः । व्यसनी विरोधापद्गतः। दैवविवर्जितः शत्रुजये भाग्यरहितः ॥ ३९ ॥ क्षुद्र जने स्वभावतो दुर्जने ।। ४०॥ सांख्याः संखया गृहीतुं शक्याः पु[पू] रुषाः सामन्ता नरा यस्य स तम् ।। ४१ ॥ न्यगदोत् जगाद ॥ ४२ ॥ अविधेयविधिः अप्राञ्जलदैवः ॥ ४३ ॥ निमित्तं शकुनादि ॥ ४४ ॥ निजविक्रमः स्वगृहमान्यपराक्रमः ॥ ४५ ॥ उदेतुं सन्मुखं गन्तुम् । शरभस्य अष्टापदस्य ॥ ४६ ॥ अधमेन स्वतो न्यूनेन ॥ ४७ ॥ परिवारितः वेष्टितः । हतबुद्धिः मतिभ्रष्टः ॥ ४८ ॥ स्तब्धवतः कठिनस्य । यथा--'स्तब्धमुत्खनति किं न दूरतः पादपं तटरुहं नदीरयः । वेतसः प्रणमनाद् विवर्तते चाटुरेव कुरुते हि जीवितम् ॥' ॥ ४९॥ बहुसत्त्वयुती प्रचुरप्राणियक्तौ। स्थिराशयो स्थिरस्य तोयस्य भाजनभूती ॥५०॥ प्रियवादपरेषु इष्टवाक्यवादिषु । कूभटेष अष्टरणेषु (?) ॥ ५१ ।। प्रधने संग्रामे ॥ ५२ ॥ अभीप्सितं हृद्यम् ॥ ५३॥ मुक्तमत्सरः त्यक्ताभिमानः ॥५४॥ असो पद्मनाभः । अनुवादिनः जल्पितजल्पिनः ॥ ५५ ॥ उदतिष्ठत उत्तस्थौ। प्रविजिता अखिलसम्या येन सः ॥ ५६ ॥ समं युगपत् ॥ ५७ ॥ अवभासयते प्रकाशयते ॥ ५८ ॥ कौशलैः चातुर्यप्रयोगः ॥ ५९ ।। अभिजाग्रति सावधाना भवन्ति ॥ ६० ॥ मदमूढान् मदेन हिताहितापरिज्ञानिनः ॥६१ । पुरस्कृतः संस्कतः॥६२॥ आहितश्रतिभिः दत्तश्रवणः । शठेन पिशुनेन ।। ६३ ॥ परुषं कठोरम । उपव्रजत अनुगच्छत ॥ ६४॥ उदयन उदगच्छन, उत्पद्यमान एवेत्यर्थः । ६५ ।। प्रकृष्यते परिवर्द्धते । आसर्वविदः सर्वज्ञपर्यन्तम ॥६६॥ पुरुभूति म मन्त्री । पुरुभूतिः गरिष्ठसंपत् ॥ ६७ ॥ ऋद्धः संपत्तेः ॥ ६८ ॥ लिप्तधीः गर्वितमतिः। परिजिह्वेति लज्जति ( ते ) ॥ ६९ ॥ अलक्षवेदिनः अमर्मज्ञस्य ॥ ७० ॥ अनुशिष्यः अनुजल्प्यः ।। ७१ ॥ जिगीषुणा जेतुमिच्छना ॥ ७२ ।। शबरेण भिल्लेन । हरिः सिंहः ॥७३ ॥ नीतिवतिनां नयमार्गस्थितानाम् ॥७४॥ विघटेत विनश्यत ॥ ७५ ॥ उल्मुखं प्रज्वलितमङ्गारम् । कृच्छ कष्टम् ॥ ७६ ॥ प्रथमः मुख्यः ॥७७ ॥ प्रत्युत विपरीतम् ॥ ७८ ॥ साम शान्तिनामा नयः । 'सामदाने भेददण्डावित्युपायचतुष्टयम् ।' ॥ ७९ ॥ प्रभुदोषशतं गरिष्ठदोषगणम् । पयोमुचः मेघाः ॥ ८० ।। उपप्रदानतः संप्रदानात् । भेदतः भेदनयात ॥ ८१॥ सासूयं सेय॑म् ॥ ८२ ॥ पशुः अनड्वान् ॥ ८३ ॥ अनिरूपितकृत्यया असंदर्शितकार्यया ॥ ८४ ॥ खरः कठोरः । अविभाव्या असंभावनीया प्रकृतिः स्वभावो यस्य ॥ ८५ ।। क्रमते संचरते। ग्रावणि शैले ॥ ८६ ॥ उशन्ति जल्पन्ति । नासादवरकरहितः ॥ ८७ ॥ तपनीयवत् स्वर्णवत् ॥ ८८॥ विप्रकृष्यते दूरतयोरायते (?) ॥ ८९ ॥ पादसंगम, गभस्तिसंसर्गम् । अतिग्म० चन्द्रस्य ॥ ९० ॥ कृपणस्य कदर्यस्य-परमुखावलोकिनः ॥ ९१ ॥ असारतां रिक्तताम् । निनदन् संप्रगर्जन् ॥ ९२ ॥ परिभूतिजीवितः अपमानप्राणधारकः ॥ ९३ ॥ १.ज अथ अथवा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616