________________
पत्रिका
१९५
वाक्येन वचनप्रतीत्या । पयोऽपि जलमपि । गोरसः क्षीरम् ॥ २३ ॥ अकैतवताम् [ अकैतवाम् ] अवितथाम् । प्रिया इष्टा प्रिया भार्या यस्य सः ॥ २४ ॥ आक्षिपन् आक्षेपविषयां कुर्वन् । कटाक्षितः अक्षणा भाषितः । उदाहरत बभाषे ॥ २५ ॥ विनयप्रशमौ एकं भूषणं यस्य--वचसः तत, पक्षे विगतं नयप्रशमै कभूषणं यस्य तत् । परमश्चासौ न्यायश्च तस्य समर्थने पुष्टिदाने उद्यतमुत्कटं, पक्षे परं केवलमन्यायस्य अनीतेः समर्थनोद्य तम् । उपक्रमेत प्रारभेत ॥ २६ ॥ परा उत्कटा चासो मेधा च उद्यमश्च योग्यता च तया सहितैः. पक्षे परं केवलम् एषांसि काष्ठानि तेषां निक्षेपणे उद्यमयोग्यता ( तया ) सहितः । स्तवभूतिः स्तुतिसंपत, पक्षे तव भवतः प्रभोमन्दिरे भूतिभस्म ॥ २७ ॥ विशिष्टनयेषु एका रतिर्यस्य सः, पक्षे विनष्टा नयैकरतिर्यस्य ( सः)। महान् गुणो यस्य, पक्षे महानगुणो यस्य सः । उचितम् इति काकुवचनं, पक्षे योग्यमेव ॥ २८ ॥ अक्षमा तितिक्षा ॥ २९ ॥ निज स्वभुजपराक्रमसाधितमात्मीयम् । अक्रमः अयोग्यता ॥ ३० ॥ क्रमसंप्रकाशनैः अनुक्रमोद्योतनैः ॥ ३१ ॥ कृतपुण्यं प्राक्पुण्यपुष्टम् । अपास्यते हठाद् गृह्यते ॥ ३२ ॥ अथवा श्लोक्तिप्राधान्यात् इति चेत् भयशिवचः किमभिधत्से वदसि अभिधत्ते भवानिति वा पाठः ॥ ३३ ॥ अभियोक्तुं योद्ध सन्मुखीकर्तुम् ॥ ३४ ॥ अधिकक्रमता अत्युल्लङ्घनता। लिलङ्घिषोः लङ्घि तुमिच्छोः ॥ ३५ ॥ प्रविधित्सुः कर्तु। मिच्छुः । अतिक्रमम् उल्लङ्घनम् ॥ ३६ ॥ विबोधनां विनिद्रताम् ॥ ३७ ॥ अभियुज्य अभिकण्डूय । अभियुक्तः कटाक्षितः। संप्रधुक्षितः :प्रेरितः ।। ३८ ॥ क्षयवान् प्रक्षीणबलः । व्यसनी विरोधापद्गतः। दैवविवर्जितः शत्रुजये भाग्यरहितः ॥ ३९ ॥ क्षुद्र जने स्वभावतो दुर्जने ।। ४०॥ सांख्याः संखया गृहीतुं शक्याः पु[पू] रुषाः सामन्ता नरा यस्य स तम् ।। ४१ ॥ न्यगदोत् जगाद ॥ ४२ ॥ अविधेयविधिः अप्राञ्जलदैवः ॥ ४३ ॥ निमित्तं शकुनादि ॥ ४४ ॥ निजविक्रमः स्वगृहमान्यपराक्रमः ॥ ४५ ॥ उदेतुं सन्मुखं गन्तुम् । शरभस्य अष्टापदस्य ॥ ४६ ॥ अधमेन स्वतो न्यूनेन ॥ ४७ ॥ परिवारितः वेष्टितः । हतबुद्धिः मतिभ्रष्टः ॥ ४८ ॥ स्तब्धवतः कठिनस्य । यथा--'स्तब्धमुत्खनति किं न दूरतः पादपं तटरुहं नदीरयः । वेतसः प्रणमनाद् विवर्तते चाटुरेव कुरुते हि जीवितम् ॥' ॥ ४९॥ बहुसत्त्वयुती प्रचुरप्राणियक्तौ। स्थिराशयो स्थिरस्य तोयस्य भाजनभूती ॥५०॥ प्रियवादपरेषु इष्टवाक्यवादिषु । कूभटेष अष्टरणेषु (?) ॥ ५१ ।। प्रधने संग्रामे ॥ ५२ ॥ अभीप्सितं हृद्यम् ॥ ५३॥ मुक्तमत्सरः त्यक्ताभिमानः ॥५४॥ असो पद्मनाभः । अनुवादिनः जल्पितजल्पिनः ॥ ५५ ॥ उदतिष्ठत उत्तस्थौ। प्रविजिता अखिलसम्या येन सः ॥ ५६ ॥ समं युगपत् ॥ ५७ ॥ अवभासयते प्रकाशयते ॥ ५८ ॥ कौशलैः चातुर्यप्रयोगः ॥ ५९ ।। अभिजाग्रति सावधाना भवन्ति ॥ ६० ॥ मदमूढान् मदेन हिताहितापरिज्ञानिनः ॥६१ । पुरस्कृतः संस्कतः॥६२॥ आहितश्रतिभिः दत्तश्रवणः । शठेन पिशुनेन ।। ६३ ॥ परुषं कठोरम । उपव्रजत अनुगच्छत ॥ ६४॥ उदयन उदगच्छन, उत्पद्यमान एवेत्यर्थः । ६५ ।। प्रकृष्यते परिवर्द्धते । आसर्वविदः सर्वज्ञपर्यन्तम ॥६६॥ पुरुभूति म मन्त्री । पुरुभूतिः गरिष्ठसंपत् ॥ ६७ ॥ ऋद्धः संपत्तेः ॥ ६८ ॥ लिप्तधीः गर्वितमतिः। परिजिह्वेति लज्जति ( ते ) ॥ ६९ ॥ अलक्षवेदिनः अमर्मज्ञस्य ॥ ७० ॥ अनुशिष्यः अनुजल्प्यः ।। ७१ ॥ जिगीषुणा जेतुमिच्छना ॥ ७२ ।। शबरेण भिल्लेन । हरिः सिंहः ॥७३ ॥ नीतिवतिनां नयमार्गस्थितानाम् ॥७४॥ विघटेत विनश्यत ॥ ७५ ॥ उल्मुखं प्रज्वलितमङ्गारम् । कृच्छ कष्टम् ॥ ७६ ॥ प्रथमः मुख्यः ॥७७ ॥ प्रत्युत विपरीतम् ॥ ७८ ॥ साम शान्तिनामा नयः । 'सामदाने भेददण्डावित्युपायचतुष्टयम् ।' ॥ ७९ ॥ प्रभुदोषशतं गरिष्ठदोषगणम् । पयोमुचः मेघाः ॥ ८० ।। उपप्रदानतः संप्रदानात् । भेदतः भेदनयात ॥ ८१॥ सासूयं सेय॑म् ॥ ८२ ॥ पशुः अनड्वान् ॥ ८३ ॥ अनिरूपितकृत्यया असंदर्शितकार्यया ॥ ८४ ॥ खरः कठोरः । अविभाव्या असंभावनीया प्रकृतिः स्वभावो यस्य ॥ ८५ ।। क्रमते संचरते। ग्रावणि शैले ॥ ८६ ॥ उशन्ति जल्पन्ति । नासादवरकरहितः ॥ ८७ ॥ तपनीयवत् स्वर्णवत् ॥ ८८॥ विप्रकृष्यते दूरतयोरायते (?) ॥ ८९ ॥ पादसंगम, गभस्तिसंसर्गम् । अतिग्म० चन्द्रस्य ॥ ९० ॥ कृपणस्य कदर्यस्य-परमुखावलोकिनः ॥ ९१ ॥ असारतां रिक्तताम् । निनदन् संप्रगर्जन् ॥ ९२ ॥ परिभूतिजीवितः अपमानप्राणधारकः ॥ ९३ ॥
१.ज अथ अथवा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org