________________
चन्द्रप्रमचरितम्
यन्मतिमतां संवादकं प्रतीतिजनकं तत्प्रमाणम् ॥ ७८ ॥ प्रह्लादिना आनन्दजनकेन ॥ ७९ ॥ आकस्मिकोद्गता अकारणोत्पन्ना चासो बहती गरिष्ठा परचक्रशङ्का च तस्यास्थ्यस्यन्तश्च ते जनाश्च तैरुक्तः किमिदमितिध्वनिस्तेन पूर्यमाणो वर्द्धमानः ॥ ८० ॥ वचस्वी वाग्मो ॥ ८१ ॥ क्षरत्करटभित्तिः उद्भिन्नकपोलः। ऐरावतपराक्रमः । आरटन्तम् आक्रन्दन्तम् ॥ ८२ ॥ प्रकट: तदृष्टिपथप्राप्तः । संहारकालः प्रलयः ।। ८३ ॥ करटिनः गजस्य ॥ ८४ ।। बाहुबलद्वितीयः भुजबलेन दृढः, अथवा मूलबलम् ॥ ८५ ॥ परिकरं तनुत्राणनितम्बपरिधानादिकम् । आजुहवे आह्वानयति स्म डुढोके वा ।। ८६ ॥ आयतः अभिगच्छतः । हस्तिनीमूत्रवासितम् ।। ८७ ॥ तलेन उदराधोभागेन । निर्गतवान् ॥ ८८ ॥ परिधिः प्राकारः। सौधतलं राजसदनवेदिका ॥ ८९ ॥ निःस्पन्दं निश्चलम् । विधृतसृणि: गृहीताङ्कुशः ॥ ९० ॥ अनुपमबलवीयें: असदृशपराक्रमप्रभावः । लीलया हेलया ॥ ९१ ॥ केलि क्रीडाम् । निवासं चक्रे । अवितथं सत्यम् । महेन उत्सवेन । उद्गीर्यमानं ( णं) प्रघुष्यमाणम् ॥९२॥
इति चन्द्रप्रभकाम्यपञ्जिकायामेकादशः सर्गः ॥११॥
द्वादशः सर्गः जीयाच्छु तमुनिनामा मुनिपः सच्छास्त्ररत्ननिकरस्य ।
शिष्यानुरोधबुद्ध्या प्रकाशको योऽत्र सदृष्टिः ।। शासनात् अनुरोधात् । निजभर्तुः पृथ्वीपालराज्ञः ( जस्य ) । इलाधिपति तं पद्मनाभम् । कुशाग्रधीः जाग्रत्प्रतिभः । वचोहरः संदेशधारी दूतः ॥ १ ॥ कठिनान् कठोरान्, पक्षे स्तब्धान् । महीभृतः पर्वतान् राज्ञश्च । मित्रबान्धवैः बन्धूकपुष्पविशेषैः । सार्द्धम् । रिपवः क्षुद्राः । महापदाश्रिताः पर्वतादिगुहास्थिताः कृताः, पक्षे रिपवः शत्रवो मित्रबान्धवैः साद्धं महती गरिष्ठामापदमाश्रिताः कृताः ॥ २ ॥ प्रभुशक्तिः इन्द्रस्येव माहात्म्यसंपत् । शक्तयस्तिसः प्रभावोत्साहमन्त्रजाः ॥ ३॥ द्वितयेन द्विधावृत्त्या । मानदः म (मा) नं पूज्यत्वं ददाति यच्छति द्यति खण्डयतीति वा मानदः । तद्विपरीतवृत्तिषु अप्रणतेषु ॥ ४ ॥ संक्रामित. नियोजितवचनावलिः । इति वक्ष्यमाणम् । अक्षतस्नेहम् । दूता वचोहरा मुखं येषां ते दूतमुखाः । 'गन्धेन गावः पश्यन्ति ब्राह्मणा वेदचक्षुषा। चारैः पश्यन्ति राजानश्चक्षुमितरे जनाः ॥ इति वचनात् ॥ ५॥' ते सौजन्यादयो गुणाः । 'क्व सरसि वनखण्डं पङ्कजानां क्व सूर्यः क्वच कुमुदवनानां कौमुदीबन्धुरिन्दुः । अति परिचयबद्धा प्रायशः सज्जनानां नहि विचलति मैत्री दूरतोऽपि स्थितानाम् ॥' इति न्यायः ॥ ६॥ विनयकवत्तिता विशिष्टो नयो विनयः प्रश्रयविशेषः, तत्र एकवृत्तिता एकतानत्वम् । सुमनोभिः प्रसूनैरिव ॥ ७ ॥ लज्जया द्रवता द्रवरूपतां गच्छता ॥ ८॥ निजनेतुः स्वहस्तिपकस्य ॥ ९ ॥ पुरातनं पूर्वजैरनुष्ठितम् । क्रम परिपाटीम् ॥ १०॥ करिणा हस्तिना ॥ ११॥ स्वयमेव । भवानेव । आत्मवान् वशीकृतेन्द्रियः ॥ १२॥ जात्यन्धः स्वभावान्धः । धिया अन्तःकरणेन ॥ १३ ।। मदादयः-'कामः क्रोधश्च हर्षश्च लोभो मानस्तथा मदः । षडमी रिपकः प्रोक्ताः शरीरस्था हि देहिनाम् ॥' । शास्ति अनुकलतया विदधाति ॥ १४ ॥ परिभूतिभयात् पराभवसाध्वसात् । अपास्य परित्यज्य । अपसरन्ति अपगच्छन्ति ॥ १५ ॥ शठता मदान्धता। अवधोरिता अवगणिता। दुःसहः अवधीरयितुमशक्यः ॥ १६ ॥ धृतः अवरुद्धः । सत्वरैः सवेगैः । चरैः गूढपुरुषैः ॥ १७॥ आत्मसात्कृतः स्वीकृतः। मत्तः सकाशात् । अपेक्षारहितेन निर्भयेन ॥ १८ ॥ अज्ञजनः नीतेरनभिज्ञः ॥ १९॥ अपय प्रयच्छ । मतङ्गजं सामजम् ॥ २० ॥ प्रसादितः प्रसन्नतां नीतः ॥ २१ ॥ जिगीषुतां जेतुमिच्छुताम् । प्रणक्ष्यति विनश्यति ॥ २२ ॥ अतिलङ्घनम् अतिक्रमः ।
१. पर।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org