________________
पञ्जिका
परोक्षेण मतिश्रतद्वयेनोपदिशन्तं प्रकाशयन्तम् । स्वस्य परमात्मनो मार्गो रत्नत्रयं तस्य माहात्म्यमतिशयस्तस्यनिवेदने कथने उद्यतमुद्यमपरम् । व्यलोकत विलोकयामास । अन्यम् अपरम् । तपोधनं तपस्विनम् ॥ ३८ ॥ अनेका बहुप्रकाराश्चेष्टास्तपश्चरणक्रिया येषु ते तैः। पर्युपासितं सेवितम्। तपस्विनां तपोधनानां वृन्दैः संहतिभिः । अविनिन्द्यवृत्तिभिः निरवद्यानुष्ठानैः। प्रणिपत्य नमस्कृत्य । इति वक्ष्यमाण प्रकारेण । प्रचक्रमे प्रारेभे ॥ ३९ ॥ मनस्विभिः विदग्धैः । भवान्तकृत् संसारनाशकारी । आत्मवेदिभिः अध्यात्मनिरतैः । आत्तशुभाः प्राप्तपुण्यातिशयाः । कृतार्थतां कृतकृत्यत्वम् । कृता. विहितजीवादिविलोकने भवति। विचारणा चर्चा ॥ ४०॥ महामोहो गाढमिथ्यात्वं स एव तमःपटोऽन्धकारप्रावरणं तेनावृतं वेष्टितम् । कुदृष्टयः षडनायतनानि तेषां सेवयोपासने विकसद्गाढभ्रान्तिम् । वाङ्मरीचयः बचनकिरणाः ॥ ४१ ॥ निराश्रयाणाम् आश्रयरहितनाम् । आलम्बनम् अवष्टम्भः । स्थिराश्रयः दृढतरः । यियासतां गन्तुमिच्छताम् ॥ ४२ ॥ स्वभावजैः सहजोत्पन्नः । विकसत् । कुन्दपुष्पवच्छुभ्रः । अमेयतां प्रमाणरहितताम् ।। ४३ ॥ दिवसा० सूर्यवत्प्रकाशमान । मार्गस्य सम्यग्दर्शनादेः शुद्धिनिर्मलत्वं, पक्षे मार्गस्य पथः शुद्धिः । इष्टस्थानहेतुरहितम् (?) अलम्भि प्राप्ता। घूकायितं घूकमिवाचरिम् ।। ४४ ॥ विभिन्दतः अपाकुर्वतः । हादं हृदिभवम् । तमः पापान्धकारम् । भास्वतः सूर्यस्य । वक्त्रं मुखं किल पूर्व बहुभिर्दृष्टमर्यादिना सत्कृतं च । यतोऽयं भगवान् पूर्व कैरपि न दृष्टस्ततोऽपूर्वभास्वान् ॥ ४५ ॥ अपायमुक्ताम् अविनश्वराम् । पदवी मुक्तिमार्ग रत्नत्रयम् । परे मिथ्यादृशः । प्रापयितुं लम्भयितुम् । त्वदाश्रयः भवदाश्रयणम् ॥ ४६ ।। मोक्षलक्ष्मीप्रतिरोधविधायिनाम् ॥४७॥ सशरीरविनयराशिसमारेकिणाम् । अक्षीणि नेत्राणि ॥ ४८ ॥ मिथः परस्परम् । उदंशुः प्रस्फुरत्किरणा । द्यौः किल धारितैकचन्द्रा, अहं द्विचन्द्रा । आह्लादकरत्वाच्चन्द्रेणोपमानम् ॥ ४९ ॥ विलोकितोऽशेषाणां सभ्यानां मुखेन्दुर्येन सः । उपाददे उद्गिरति स्म ॥ ५० ॥ पार्थिवता नृपता। कादम्बर्यादिर्वा ( ? ) यथा मदकारणमित्युक्तिलेशः । सा पार्थिवता । अन्यथा मार्दवानुरूपा ॥ ५१ ॥ गतस्पृहाणां त्यक्ताकांक्षाणाम ॥ ५२ ॥ तुलाव्यतीतः असमानः । सार्वभौमी सर्वस्या भूमेराधिपत्यं यस्यां सा ॥ ५३ ॥ परलोकसाधने प्रेत्यभावसंस्करणे ॥ ५४ ॥ प्रश्रय० विनयनतमूर्द्धा । यियासतः गन्तुमिच्छतः ॥ ५५ ॥ इति समाकलय्य विचार्य ॥ ५६ ॥ वरं वाञ्छितं ददातीति वरदः । आत्मना स्वीकृता या दीक्षा तया अस्मान् संस्कुरु । अनुग्रहः अनुभावः ॥ ५७ ॥ निवेदितां० प्ररूपितचित्तस्थवस्तुनः ॥ ५८ ॥ सुदुष्करं कर्तुमशक्यम् ॥ ५९॥ धर्माय धनं यस्य स तस्य, पक्षे धर्मो दशधा धनं यस्य । अनिन्द्यं निन्दारहितं वृत्तं वर्तनं यस्य, पक्षे वृत्तं चारित्रम् । परार्थं परनिमित्तं संपद् यस्य, पक्षे पर उत्कृष्टोऽर्थः प्रयोजनं मोक्षोद्यमो यस्य ॥ ६० ॥ साधुषु यतिषु रतो विनीतः । अतः कारणात् । अनुशाधि प्रतिपालय ॥ ६१॥ उदोरितायां जल्पितायाम् । अचलान्तराशयः निश्चलान्तःकरणः, पक्षे अङ्गीकृतम् ॥६२ ॥ शिरःसमभ्ययं शिरसाधार्यम् । अनुशासनं शिक्षाविशेषः । जन्मव्यसनानि संसारदुःखानि ॥ ६३ ॥ दुराधयः दुष्टा मानसव्यथाः । श्रीजिनचन्द्रप्रतिपालितम् ॥ ६४ ॥ भवमृत्युसंततिः उत्पादमरणसंतानम् (नः) ॥६५॥ विनिश्चितः परिज्ञातः एकान्तेन सर्वथा तदीयस्तस्य राज्ञो निश्चयो हठप्रतिज्ञा येन सः ॥ ६६ ॥ अग्रहीत् जग्राह ॥ ६७ ॥ अघोरमानसः शान्तमनाः । स्थिरा निश्चला एकेनाद्वितीयेन पर्यङ्ग्रेनासनविशेषेण कृता विहिता स्थितिरवस्थानं येन सः । निस्त्रिशैः प्राणहरैः ॥ ६८ ॥ विभीषणं भयानकम् ॥ ६९ ।। तपे ऊष्मागमे । अभिसूर्यप्रतिमं सूर्यबिम्बसन्मुखम् ॥ ७० ॥ भावनासु अनुप्रेक्षासु । ध्रुवं निश्चलम् । क्षुण्णमदः निरहंकारः ॥ ७१ ॥ विविधं बहुप्रकारम् । परिणता एकीभावेन जाता उज्ज्वला निर्मला निरतिचारा धर्म ( में ) सत्क्षमादौ लेश्या यस्य सः ॥ ७२ ॥ द्वाविंशतिसागरप्रमाणायुः ।। ७३ ॥ विगलितायुः सम्यगनुभूतबद्धायुः । जनमनोज्ञ सर्वजनतासुन्दर । बोध्यम् ( ? ) ॥ ७४ ॥ तूष्णीमभूत् मौनवान् जातः । बद्धा (द्धो ) अञ्जलिर्येन सः । यतिवृषं मुनिप्रधानम् ॥ ७५ ॥ तत्प्रत्ययं तेषां जन्मान्तराणां प्रत्ययं विश्वासजनकं ज्ञानम् । संशयाना संशयं प्राप्तवती ॥ ७६ ॥ निशम्य आकर्णयित्वा। संदेहपत संशयकर्दमम् । अपहस्तितुं निराकर्तुम् । मदान्धमतिः मदप्रच्छादितविवेकः ।। ७७ ॥ तत्प्रत्ययात् स चासो प्रत्ययश्च तस्मात् । अन्यत् परोक्षम् ।
१. ज करी। २. ज नहेतुताम् । ३. बयाणकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org