________________
चन्द्रमचरितम्
3
१४ ॥
पुरुषान् ॥ ४ ॥ समुपेत्य' प्राप्य । धीरधीः निष्कम्पमनाः । जघान ताडयामास । धनपीवरे श्लिष्टस्यूले । जवेन वेगेन । आरया लोहसूची विशेषेण ॥ ५ ॥ निवृत्य परिवृत्य । प्रधावति ढोकते । निपत्य प्राप्य । स्थूललोष्टेन घातम् ॥ ६ ॥ विनीयमानः खेदं प्राप्यमाणः । शाशनदो ज्ञातः ( शासनाद् अज्ञातः ) । कृतक्रियैः विहितसमयोचितप्रयासः । प्रधावितुं प्रपलायितुम् । उद्यतः सोद्यमः ॥ ७ ॥ गृहागतं करान्तः पतितम् । समास्फालयति स्म उच्छालय पातयामास । व्ययुज्यत वियुक्तसर्वावयवोऽभूत् ॥ ८ ॥ विलीनं विलयं प्राप्तम् ॥ निर्वेदं वैराग्यम् || ९ || 'भवगर्त ० संसाररन्ध्रस्थितानाम् । अशाश्वतीं विनश्वरोम् ॥ १० ॥ गदेन व्याधिना । अशनिना मेघोत्पातेन । कटाक्ष्यते वक्रं निरीक्ष्यते ॥ ११ ॥ शाश्वतं ध्रुवम् । प्रमोहः मोहनीयोदयाद्भान्तिः ' ॥ १२ ॥ परुद्दिने । 'परुत्परार्येषमोऽब्दे पूर्वे पूर्वतरे यति । कर्तव्यं करणीयम् । आसन्नं निकटम् ॥ १३ ॥ असंमतात् अनिष्टात् । विलोभ्यमानः वञ्चयमानः । आमिषं भोज्यविशेषः । अकर्तव्यं सद्भिनिषिद्धम् ॥ नयनान्तं ( न्तः ) कटाक्षः । सहासितुं युगपत्स्थातुम् । वज्रहविर्भुजः वज्राग्नेः । जये विजृम्भणे* ॥ १५ ॥ विलेख्यते विलीयते । कालमरीचिमालिनः यमसूर्यस्य ॥ १६ ॥ विहास्यन्ति त्यक्षन्ति । बद्धा गाढोकृता घषु द्रव्यसंपत्तिषु बुद्धिर्यैस्ते । चूतावनिजम् आम्रवृक्षम् । जिहासवः त्यक्तुमिच्छवः ॥ १७ ॥ प्रपित्सु पतनाकांक्षि | निचयाः पुत्रादयः । नष्टुं [ नंष्टुं ] गन्तुम् । असमर्थम् ॥ १८ ॥ कषायाः क्रोधादयः सारन्धनानि दृढकाष्ठानि तैर्द्धा रचिता पद्धतिश्चतुर्गतिपक्तिर्येन सः । उत्तुङ्गतर उच्चैः शिखः ॥ १९ ॥ दुरात्मकात् दुष्टस्वभावात् । भवात् संसारात् । अनर्थाः निष्प्रयोजनाः । उत्खातमूलः । सः भवः । अहेतुकाः कारणरहिताः ॥ २० ॥ सरागतां विषयैकतानत्वम् । तद्विपरीतेषु वैराग्येषु भावना निरन्तरं चिन्तनं यस्य सः । वारिदे मेघे । अलं समर्थः । अम्बरं गगनम् ॥ २१ ॥ चराचरे जङ्गमस्थावरे । अभोजि भुक्तम् । पराङ्मुखः पराचीनः । मोक्षसाधनात् रत्नत्रयात् ॥ २२ ॥ दुरन्ताः दुरवसानाः । शेमुषीं बुद्धिम् । लेशः कणः । उपरूढि प्ररोहम् । संसारवल्लीम् ॥ २३ ॥ मलिनस्य मलीमसस्य । हिते रत्नत्रये । विजाग्रति सावधाना भवन्ति ॥ २४ ॥ आगन्तुकदुःखं नारकादि पर्यायाः । संसारसौख्यम् । यत् यदा । विषयुक्तस्य मिश्रितस्य ।। २५ ।। विबन्धकान् प्रतिरोधकान् । वरीतुमिच्छो: विधातुमनसः । विबन्धुं प्रतिरोधुं (द्ध ) । परः प्रतिकूलः ॥ २६ ॥ व नाशम् । स्वकर्मणां ज्ञानावरणादीनां प्रकृतीः स्वभावान् । सिद्धिभागिनः मुक्तिसाधनोद्यतस्य ॥ २७ ॥ कदर्थनी : पीडाविधायिनीः । प्रशान्ति भोगोपरतिम् । क्लेशं दुःखम् । परम् अन्यत् ॥ २८ ॥ विवेकिनः चिदचिद्विभागं कृत्वा आत्मध्यानिनः । जन्मनः संसाराद् [ वि- ] पत्तयो नारकादिपर्यायास्तेभ्यो भीलुकाः । निरापदां सिद्धानाम् । अनीकं चक्रम् | ईशते प्रोत्सहन्ते ।। २९ ।। निर्वार्तितात्मा व्यावृत्तचेताः । चतुरः विवेकी । हितं मुक्तिस्तत्कारणं च ॥ ३० ॥ गुणप्रभसंज्ञकम् । सवृन्दं ससङ्घम् । मिथ्याज्ञानान्धकारभानुम् । उद्यानचरात् वनपालात् ॥ ३१ ॥ निशम्य आकर्ण्य । तस्थुषः समासीनस्य । अभ्युदस्थात् उत्तस्थो । कृती पुण्यवान् । कृतकृत्यः ॥ ३२ ॥ निरित्य निर्गत्य । तद्धाम मुनिस्थानम् । समं सार्द्धम् । समन्वितैः तन्मयभावं गतैः ॥ ३३ ॥ गतस्य प्राप्तस्य । तस्य मुनेः । अवलोकयामास । कः परमात्मा समुत् परमानन्दैकस्वभावस्तत्र चेतो यस्य स तस्य । विविक्तं विजनम् । अत्यन्तम् अतिशयेन । स्त्रीपशुक्लीवादिभिरित्यर्थः । अजन्तुकं जन्तुभिः क्षुद्रजीवै रहितम् । आश्रमं स्थानम् । श्रिया तपोजनितशोभया ॥ ३४ ॥ गृहीतयोगं स्वीकृतध्यानम् । आतपे सूर्य प्रतापप्रकाशे स्थितम् उद्घोभूतम् । दिवाकरस्य सूर्यस्यांशवो मयूखास्तेषां प्रकरः ससुहस्तेनैक लक्ष्यतामतिशयगम्यताम् | उन्मूलितः समुत्पाटितो मोहविद्विड् येन स तम् ।। ३५ ।। प्रभावनायां जिनमार्गप्रकाशने । समुद्यतम् उद्यमयुक्तम् । ऐक्षत व्यलोकत ॥ ३६ ॥ उज्ज्वलात्मभिः निर्मलस्वभावः । प्रवादिन एव खद्योता ज्योतिरिङ्गणास्तेषां चयं समूहम् । पराभवं पराजयम् । उद्योतितलोकं प्रकाशितभुवनम् । लोक्यन्ते जीवादयोऽर्था यस्मिन् स लोकस्तं— जीवादिपदार्थान् प्रकाशयन्तमित्यर्थः ||३७|| अतीतानागतवर्तमानानां त्रिकालानां भव्यस्थितम् । अनन्यगोचरं प्रत्यक्ष विषयम् । परोक्षवस्तु सूक्ष्मान्तरितदूरार्थान् सर्वज्ञज्ञानविषयान्
८
४९२
१. ब॰पैत्य । २. ब शाशदो । ३. ब ' ' इति चिह्नान्तर्गतः पाठो नोपलभ्यते । ४. व यदि । ५. ब ंणेषु । ६. व विप्र ं । ७. ब इदं पर्यायपदं नोपलभ्यते । ८. व इदमपि पर्यायपदं नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,