________________
४९१
पञ्जिका दिन्यां निरपेक्षोपकारः ॥४०॥ परिणामिनि 'कालवृद्धिगते । विविक्तं विजनम् ॥ ४१ ॥ पुलकैः रोमाः । पीनतां स्थूलत्वम् ॥४२॥ प्रतिकूलं क्षणं प्रतीकं (पं) कालविडम्बनम् । शासनम् आज्ञा ||४३|| अरविन्दामुकु लितनेत्राणाम् । त्रपया रात्री किल कमलं च मुकुलितम् । उन्नमिताननः ऊर्ध्वा कृतमुखैः || ४४ || विपरीततया कामस्य प्रतिकूलाचरणेन || ४५ || अमिमीत अनुमानेन बुधत् ||४६ || चुम्बने वक्त्रसंयोगकरणे । सहसा शीघ्रम् । मासंजयति स्म व्यापारयति स्म परिरम्भमकरोदित्यर्थः ॥४७॥ करताडनं करशब्देन करजातैस्ताडनं प्रहतिः । परिरम्भः कराभ्यामालिङ्गनम् । दशच्छदः अधरः ||४८ || अनवकाशः अवकाशं मध्यवसतिमप्राप्नुवद्भिः ॥ ४९ ॥ परिरम्भेण गाढालिङ्गनेन । अजीगमत् विलम्बयति स्म || ५० ॥ समीयुषे दीर्घकालगताय ॥५१॥ परिरे आलिलिङ्ग ॥ ५२ ॥ सचिवत्वं सहायत्वम् ॥ ५३ ॥ असंभवन् अवकाशमलभमानः ॥५४॥ परिरब्धुम् आश्लिष्टुं दृढबन्धहस्ताभ्यां संपुटीकरणं यथा भवति ।। ५५ ।। परिशान्त्य कषायरहितां प्रियवाक्यैविधाय । व्यदिव्यपत् विध्यापयतिस्म ॥ ५६ ॥ परितस्थे उपरिस्थितम् ॥ ५७ ॥ वामं प्रतिकूलम् ॥ ५८ ॥ अतिमात्र संस्तवात् गाढालिङ्गनात् पुनः पुनः परिचयाद्वा । भणितैः रतिकूजितैः ॥ ५९ ॥ सुरखेषु मैथुनेषु ॥ ६० ॥ रतोत्सवे मैथुनानन्दे ॥ ६१ ॥ प्रक्षुभ्य एकहेलया शब्दयित्वा । क्षणं किचित्कालम् | विश्रान्तिं विरामम् । सूताः बन्दिनः ॥ ६२ ॥ विकीणं विस्तृतम् ॥ ६३ ॥ केशकलापमध्ये रेखा सीमन्तः ॥ ६४ ॥ ब्रह्माण्डप्रसृतं सकलजगद्वयातम् ॥ ६५ ॥ रथाङ्गयुग्मं चक्रवाकयुगलम् । वक्षोजद्वयं स्तनयुग्मम् ॥ ६६ ॥ घर्मांशोः सूर्यस्य । प्रणुन्नम् अपसारितम् । वृत्ति पुनरागमनाय वर्तनम् । अनुशीलतां भवच्छत्रुभिः सादृश्यम् ॥ ६७ ॥ प्रत्यूषः अहर्मुखम् । परिष्कृताङ्गाः भूषितशरीराः ॥ ६८ ॥ पाथेयं शम्बलम् । गरिष्ठवियोगमार्गगमनाय ॥ ६९ ॥ मनपायिना अनश्वरेण ।। ७० ।। नियतं निश्चितम् । अमङ्गलं मरणम् ॥ ७१ ॥ निजविरुतैः स्वशब्दैः । निशान्तं प्रातः । ताम्रचूडः समदः कुक्कुटः ॥ ७२ ॥ कल्पयामि सहजं न विभावयामि ॥ ७३ ॥ विवृत्य पराङ्मुखीभूय | अनुनयविषयां विधाय ॥ ७४ ॥ सप्तीनां हयानाम् । रुचिरं सुन्दरम् । प्रतीक्षां 'कालविलम्बम् ।। ७५ । रोचिष्मान् सूर्यः ॥ ७६ ॥ प्रबोधं निद्राक्षयम् ॥ ७७ ॥ तपने सूर्ये ॥ ७८ ॥ जहासोः शिखरं त्यक्त्वानन्तरं गन्तुमिच्छोः ॥ ७९ ॥
।
५
६
इति चन्द्रप्रभकाव्यपञ्जिकायां दशमः सर्गः ॥ १० ॥
एकादशः सर्गः
आप्तमीमांसादिशास्त्रप्रकाशं योऽकरोन्मुनिः । स श्रुतादिमुनिर्जीयाच्छ्रद्धादिगुणभासिवाक् ।। सच्छ्रद्धादिगुणैर्युक्तस्तपसां निधिरस्तु मे । प्रकाशयामास मुनिः सर्वशास्त्राणि स श्र ॥
विशां प्रजानाम् । अधिश्रिये अधिवस्थो । कलि ( ल्पि ) त० आरोपित सिहासनम् ॥ १ ॥ सर्वे च तेऽवसराश्च कार्यविशेषास्तत्साधनार्थं व्यवस्थितं सिंहासनारूढं वा स्नानविलेपनाद्यनन्तरं तत्रोपविष्टं वा । प्रधानदीवारिक ० प्रधाना विशिष्टाश्च ते द्वारिनियुक्ताश्च तैः सूचितो निवेदित आगम आगमनं येषां ते तथा । आश्लिष्टचुम्बितशिखरेण मोलिना किरीटेन ॥ २ ॥ प्रतीहारः द्वारपालः । यथायथं स्वोचितस्थाने । सभाजिरे प्राङ्गणे ॥ ३ ॥ अनल्पसत्त्वं प्रचुरोत्साहबलम् । गुरुवंश ० गरिष्ठान्वयशोभमानं, पक्षे पृष्ठास्थि० । प्रलम्बहस्तम् आजानु, (पक्षे ) लम्बशुण्डादण्डम् । कुतूहलात् कौतुकात् । अचूचुदत् प्रेरयामास । धीरनरान् सुभट
१. ब 'काल' इति नास्ति । २. बघत । ३. ब 'परितस्थे' इति नास्ति । ४. ब संसृपात् । ५. ज मध्यं । ६. बशीलितां । ७. ब इति चिह्नान्तर्गतः पाठो नोपलभ्यते । ८. व श्रियै । ९. ब प्रधान ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org