________________
चन्द्रप्रमचरितम् अनुमम्लो म्लानिं गता। दरम् ईषत् ॥ ४२ ॥ विदधति धारयन्ति । विनियवृत्ति क्रयविक्रयशेषं गृहीत्वा वितरणमित्यर्थः ॥ ४३ ॥ जलात्मकानां द्रवरूपाणां, पक्षे जडतायुक्तानाम् ॥ ४४ ॥ शिलीमुखेन भ्रमरेणानुकुवंती अनुविदधती ॥ ४५ ॥ विगाढ़ेः विलोडितैः ॥ ४६ ॥ चिरं नि० चिरं स्थित्वा ॥ ४७ ॥ विचकृषुः थाकर्षन्ति स्म । भुजङ्गवृत्ति विटत्वम् ॥ ४८ ॥ अतिरिच्यमानं समधिकम् ॥ ४९ ॥ प्रतियुवते सपल्याः । ॥५०॥ कबर्याः केशबन्धनतः ॥५१॥ कृष्णपञः नीलोत्पलः ॥ ५२ ।। ममः संमान्तिस्म ॥ ५३॥ कृतकृतकः जनितकपट: ॥ ५४ ॥ चलशफरीतरला मत्सी (?)॥ ५५ ॥ वनजवनं कमलवनम् ॥ ५६ ॥ स्तनपरि० स्तनस्पर्शनसाभिलाषाः ।। ५७ ॥ अनुपलिनम् अनुतटम् । स्रवणपदेन निश्च्योतनव्याजेन ॥ ५८ ॥ प्रस्थं सानुम् । अम्भोधराध्वा गगनमार्ग : । त्यक्तजलक्रीडाविशेषः ।। ५९ ॥
इति चन्द्रप्रमकाव्यपञ्जिकायां नवमः सर्गः ॥ ९ ॥
दशमः सर्गः
आप्तमीमांसादिशास्त्रप्रकाशं योऽकरोन्मुनिः।
स श्रुतादिमुनिर्जीयाच्छ्रद्धा दिगुणमासिवाक् ॥ उदयाः तेजोऽभिवृद्धयः । निरत्ययाः निरपायाः। अधिशिश्रिये अधिजग्मे ॥ १॥ नयनप्रान्ताः कटाक्षाः ॥ २॥ वल्लभः भर्ता ॥ ३ ॥ कृच्छ्रगतः कष्टगतः, आपद्गतश्च ।। ४ ॥ अन्तरधीयत अतिरोघीयत ।। ५ । विधिरेव दैवमेव ननु सहायादिः । अभ्यभूयत तिरस्कृतः ॥ ६॥ मलिनैः श्यामल: सपापश्च ॥ ७॥ दीप्तरवैः अवदातशब्दैः । नीडं कुलायः । प्रविलापं परिदेवनध्वनिम् ॥ ८॥ विध्वंसभयात् विप्लवत्रासात ॥९॥ अम्बरे गगने ॥१०॥ सदसत्प्रसंगजाः शुभाशुभसंसर्गजनिताः ॥ ११ ॥ परिवत्तिम आह्निकक्रियाः । सकाशादन्यथावृत्ति वेष्टनोद्वेष्टनवत् ॥ १२ ॥ कृतज्ञतां कृतोपकाराविस्मरणत्वम् । इयाय गतः ॥ १३ ॥ अपरज्यते विरक्तो भवति ॥ १४ ॥ विवरेषु मध्येषु । ध्वान्तलवाः अन्धकारलेशाः ।। १५ ।। आर्तनि:स्वनः सकरुणध्वनिभिः । बहलं प्रचुरम् । मषो कज्जलम् ॥ १६ ॥ बिसतन्तु: मृण( णाल ) सूत्रम् ॥ १७ ॥ अलकाः चूणकुन्तलाः । बलभि द्दशः पूर्वस्याः ॥१८॥ तिरोहितं प्रच्छादितम् ॥ १९ ॥ आजिघांसुना हन्तुमिच्छुना ॥ २० ॥ घनवीथिरथम् आकाशवाहनम् । परदारग्रहणोत्पन्नात् ॥ २१ ॥ भ्रश्यदन्धकारप्रावरणम् । सुरतस्थां ग्राम्यधर्मवतीम् ॥ २२ ॥ घटना निष्पत्तिः । स्फुटीकृतं व्यक्तीकृतम् । चन्द्रस्य किल कुवलयः प्रयोजनाभावाद् निःकारणबन्धुत्वम् ॥ २३ ॥ न्यलीयत उपविष्टम् ॥ २४ ॥ अपनीतम् अपाकृतम ॥ २५ ॥ कोटिं शिखरम् । अद्यभवा अद्यतनी ॥ २६ ॥ प्रसर्पति विस्तते ॥ २७॥ अन्यजातिना चाण्डालेन । परिमृष्टा स्पृष्टा । धनव० आकाशमार्गे ॥ २८ ॥ नगाः पर्वताः । चन्द्रस्यात्राल्पकालोदयत्वं शान्तप्रतापत्वं च ॥ २९ ॥ उद्गमारुणं कुड्मलरक्तम् । आपीड: शेखरम् ॥ ३०॥ सुखि सुखयुक्तम् । मिथुनं युगलम् ॥ ३१ ॥ उद्धरतिस्म निष्काशयामास ॥ ३२ ॥ काण्डपट: यवनिका-प्रच्छादनवस्त्रम् । 'कुट्टिमोऽस्त्री निबद्धा भूः ॥ ३३ ॥ मूर्छाकपटेन 'मूर्छा पित्ततमःप्राया' इति वचनात् ॥ ३४ ।। भासुरीभवत् देदीप्यमानम् । अनन्यायः ( ? )। 'वह्निना क्वालिते तैले घृते वा कुत्रचिद् यथा। शीततोयच्छटापातः प्रतिप्रक्षालनं भवेत् ॥३५॥ रजसा परागेण-कुसुमरेणुना । निर्यत्पुलका रोमाञ्चवती ॥३६॥ त्वरमाणचेतसाम् उत्तालहृदयानाम् ॥३७॥ स्मरस्य सामर्थ्यसंपत्तेः । 'चन्द्रासवाभ्यां रमणीजनेभ्यः' इति भाषितात् ॥३८॥ पतः शक्तिः सामर्थ्यम् । हरिणाङ्काभिगमे चन्द्रागमने ॥३९॥ विभावर्याः रात्रेः प्रकाशने सदृशोपयोगः कुमु
१. ज 'दा' इति नास्ति । २ ज अतिरों'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.