________________
चन्द्रप्रमचरितम् मृगराजसेविता अभिमानरूपिणी ॥ ९४ ॥ अवगात् अवजानातिस्म । च्युतनीति नीतिरहितम् ॥ ९५ ॥ क्षीणबलः क्षयंगतकटकः, इति बलव्यपेक्षा। सुहृदव्यसनं विरुद्धं यस्येति कालव्यपेक्षा ॥ ९६ ॥ अभियातम अभियोद्धम् । प्रभवेत् जयवान् स्यात् ॥ ९७ ॥ भवभूति म मन्त्री ।। ९८ ॥ प्रतिशब्दः भाषितभाषि (ष) णम् ॥ ९९ ॥ असमुज्झितान्वयां वंशानुरूपाम् । बृहस्पतिः सुरगुरुः ॥ १०० ॥ गहने दुष्प्रवेश्ये ॥ १०१॥ रभसा करणं वेगेन विधानम् । कर्मणां कार्यव्यापाराणाम् ॥ १०२ ॥ विभेदकं भेदजनकम् ॥ १०३ ॥ युवराण्मतं दण्डोऽस्तु । समयः शास्त्रवाक्यम् । षण्णां गुणानां भावः षाङ्गण्यम् । 'सन्धिविग्रहयानासनद्वैधाश्रयाः षङ्गणाः। ॥ १०४ ॥ रिपोः शत्रोः सर्वस्वं रहस्यम् ॥ १०५ ॥ कृतकग्रथितैः कपटरचितैः। समवाये भवाः सामवायिकाः-सभ्याः ॥१०६॥ भीमरथस्य नाम्नो मित्रस्य । रंहसा वेगेन ॥ १०७ ।। व्यसने द्वन्द्वे ॥ १०८ ।। घनात्यये शरदि ॥ १०९॥ समरं संग्रामम् । प्रहोयतां प्रेष्यताम् । द्वयाश्रितैः उभयनयाश्रितैः ॥ ११०॥ अनलसमतिः सोद्यमबुद्धिः ॥ १११ ॥
इति चन्द्रप्रमकाव्यपञ्जिकायां द्वादशः सर्गः ॥ १२ ॥
त्रयोदशः सर्गः श्रुतादिमुनिपात् के के न ययुः शास्त्रवारिधेः ।
यतः पारं स वः पायाद् विपश्चित्सज्जनादयः ।। निरगमत् निर्जगाम । जिगीषया जेतुमिच्छया। प्रशमितमपसारितं प्रकृतीनामष्टादशप्रजानां व्यसनं परेणोपद्रवजननं येन । जिग( गी) षुणा किल स्वदेश्यं त्यक्त्वा परदेशे तत्सन्धी वा योधं गन्तव्यमिति ॥१॥ आतपवारणं छत्रम् ।। २ ।। जलदवीथि० नभो विशालं विपुलम् । उत्पन्नचन्द्रारेकैः ॥३॥ प्रसृतया विस्तृतया। वारिजरागमणिः पद्मरागमणिः ॥ ४ ॥ परस्परमन्योन्यं व्यतिकरणानुप्रवेशेनोल्लसितोद्गतामलरोचिषो निर्मलदीप्तयो यस्य सः ॥ ५ ॥ परिभवति तिरस्कुरुते । माण्डलिकान् राज्ञो मण्डलाकारोपेतांश्च । अङ्गदे वलये ॥६॥ शिखिगलाकृतिना मयूरकण्ठनीलाकारेण । रशनाश्मनां कटिमेखलानीलरत्नानाम् ॥ ७॥ गुरूणां मन्त्रिणां मते पर्यालोचनेऽभिरतममलं निर्व्यसनं मानसं स्वान्तं यस्य० गुरुबंहस्पते (तिश्च ।। ८॥ तुरङ्गमें: शीघ्रगामिघोटकैः ॥ ९॥ त्तगिमिरश्ववारैर्यत्नेन प्रयासेन निरुद्धो महावेगो येषां ते तैः । हरिभिः घोटकैः ॥१०॥ निजीजसा स्वरंहसा। अनिलः वायः ।। ११ । निरवधिप्रसतैः अमर्यादं विस्ततः । बलः कटकैः । बंहिते वद्धि गते ।। १२ ।। प्रवितन्वते विस्तारयन्ति । विकसद्रत्नकम्बलः ॥ १३॥ डिण्डिमः जयध्वनिवादित्रम् । ध्वनितं स्वनितम् । विवर्तिता व्यापरिता ॥ १४ ॥ हे गजाः ! वः युष्मान् ( 5 ) बलदन्तिनां शिबिरगजानाम् । मधुलिङ्गणाः भ्रमरकुलानि ॥१५॥ जगृहिरे परिमुञ्चिरे। धातुनामनेकार्थः ॥ १६ ॥ प्रजविभिः वेगिभिः । विषमीकृते स्थपुटी कृते । रथकड्यया रथव्रजेन ।। १७ ॥ अपरस्य मण्डलिनः । चीवरैः वस्त्रखण्डैः । अन्तरितं गूढम् ।। १८ ॥ विवप्सुभिर्वातुम् (वस्तुम् ) इच्छुभिः । मधुव्रतानां कुलं भ्रमरसमूहस्तेनाकुलं (लः ) व्यग्रं (ग्रः) कपोलं (लः) येषां ते, तैः ॥ १९ ॥ बलभरेण शिविरप्राग्भारेण । मण्डलानि चक्राणि ॥ २० ॥ भटगणाः सामन्तनिकराः ॥ २१ ॥ परिहितं परिधानीकृतमायसकञ्चुकं लोहसन्नाहस्तेन मेचकं श्यामलम् । पदातिकदम्बकं पत्तिसमूहः। तिमिरशत्रुः सूर्यः । तामसं ध्वान्तम् ॥ २२ ॥ वंशो वेणुः, अन्वयश्च । मुष्टिगता हस्ततलस्थिता, मौनस्थिता च । गुणः मौर्वी, कुलवधूगुणा:-'अभ्युत्थानमुपागते गृहपती संभाषणे नम्रता, तत्पादापितदृष्टिरासनविधी स्मेरा सपत्नीष्वपि । [ सुप्ते तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामिति प्राच्यैः पुत्रि निवेदितः कुलवधूसिद्धान्तधर्मागमः ॥ ॥ २३ ॥ अवरोधपुरन्ध्रयः अन्तःपुरसुचरित्राः । अ ( आ ) चिररोचिषों विद्युल्लतोद्भवाम् ॥ २४ ।। पुटभेदनं पत्तनम् । निरतैः निश्चितं
सावधानः ॥ २५ ॥ परिचिते अवलोकिते । रमणीयं सुन्दरम् । अपोहति उज्झति ॥ २६ ॥ अवरोधिका Jain Education International For Private & Personal Use Only
www.jainelibrary.org