________________
पञ्जिका
४९७
विलासिनी । गलदम्बरं प्रस्खलद्वस्त्रम् ॥ २७ ॥ मयः करभः ॥ २८ ॥ वृषैः बलीवर्देः ॥ २९ ॥ वल्लव ० गोपालकामिन्या ॥ ३० ॥ वैवधिकः भारवाहिभिः ।। ३१ ।। पोतः प्रवहणम् ।। ३२ ।। सरभसैः सवेगैः । प्रतिपालयताम् अन्वेषयताम् ।। ३३ ।। तुङ्गतरङ्गाः, उच्चैरश्वाः । आह्वयता आकारयि (य) ता । प्रतिनिःस्वनैः प्रतिशब्दैः ॥ ३४ ॥ एधितया समृद्धया ॥ ३६ ॥ शिरोधरा कन्धरा । व्यधित अकृतं (त) ॥ ३७ ॥ मधुपायिनां भ्रमराणाम् । वसुमतीदयितं राजानम् ॥ ३८ ॥ शारदयात्रया शरत्कालगमनेन ॥ ३९ ॥ हृदयहृतो (?) वयांसि पक्षिणो यासु ताः, पक्षे वयः प्रथमयौवनम् । अम्बरं गगनं, वस्त्रं च । पयोधराः मेघाः स्तनाश्च ॥४०॥ गोष्ठहत्तरैः गोपालप्रभुभिः उपहितानि आनीतानि ॥ ४१ ॥ असहाम् असमर्थाम् । शुकानां कीराणाम् ॥ ४२ ॥ बृहन्तः ( त्यः ) स्थूलाश्च ते ( ता: ) अलाबुकास्तुम्बकारच बृहदलाबुकास्तेषां ( तासां ) गौरवेण भारेण वामनां मनिम्नाम् ( निम्नाम् ) । वृत्ति वाडिम् ॥ ४३ ॥ समीहिताम् अभिलषिताम् । सज्जनगोचरा । सज्जनाः किल फलसंपदं प्राप्य नम्रा भवन्ति ॥ ४४ ॥ अवजानतीम् आदरमकुर्वाणाम् । कैतवं छद्म ॥ ४५ ॥ शशिकराङ्कुरवत् निर्गमवत् (2) निर्मला गावो भूमयो गोमण्डलानि वा येषु ते तान्, पक्षे गावो वावो येषां बुधानां ते । सीमा बहिर्भूमिविशेषः, मर्यादा गाम्भीर्यं च ॥ ४६ ॥ कोकं चक्रवाकम् ॥ ४७ ॥ मथिध्वनि मन्या ( न्थ ) न शब्दः । भुजङ्गद्विषां मयूराणाम् ॥ ४८ ॥ कुरङ्गकुलं मृगयूथम् ॥ ४९ ॥ ' राजहंास्तु ते चञ्चुचरणैर्लोहितैः सिताः । ॥ ५० ॥ गौः दृष्टिः ॥ ५१ ॥ अवहितश्रुति सावधानं यथा भवति तथा ।। ५२ ।। कुथवाहिनीं 'कुथः स्यात्करिकम्बलः' वाहिनीं नदीम् ।। ५३ ।। घनाघनाः मेघाः ॥ ५४ ॥ समवगाढवतां मज्जताम् । कटतटात् कपोलमूलात् ॥ ५५ ॥ पततां पक्षिणाम् ॥ ५६ ॥ सततायनो वायुस्तस्य वर्त्म गगनम् । प्रतिमया प्रतिच्छायया ।। ५७ ।। अम्बुधराणां मेघानामध्वनि मार्गे विहायसि ॥ ५८ ॥ अंशुमदंशुषु प्रच्छादितसूर्यकरासु । नभः सदां खेचराणाम् ।। ५९ ।। उपरञ्जितवारिभिः संस्कृतजलैः ॥ ६० ॥ वारणानां गजानाम् ॥ ६१ ॥ अम्बुवाहवीथीम् अन्तरिक्षम् ॥ ६२ ॥
इति चन्द्रप्रभकाव्यपञ्जिकायां त्रयोदशः सर्गः ॥ १३॥
चतुर्दशः सर्गः
श्रुतादिमुनिपस्यास्य किं वर्ण्यन्ते वचोंऽशवः । बहुशोऽस्तानि भव्यानामज्ञानतिमिराणि यैः ॥
मणिकूटं नाम पर्वतम् । उच्चैर्दृषदं स्थूलोपलम् । तडित्त्वतां विद्युत्सहितानाम् ।। १ ।। कटैः [कटकैः ] नितम्बः । अद्वितीयाम् अनन्यसंभाविनीम् । चूड़ामणिः शिरोरत्नम् ॥२॥ किङ्किणीनां क्षुद्रघण्टिकानाम् || ३ || तपान्तः मेघकालः तस्य लक्ष्मीः शोभा ॥ ४ ॥ गगनेचराणां नभःसदाम् ॥ ५ ॥ सवितुः सूर्यस्य ॥ ६ ॥ प्रभावतः तपसा दीप्यमानस्य । प्रभावतः माहात्म्यात् । नरः पुमान् । गतः प्राप्तः । रोगतः व्याधेः ॥ ७ ॥ नितम्बः कटकः । खचराः विद्याधराः ॥ ८ ॥ इन्दुमणि० चन्द्रकान्तमणिप्रणालात् । अ [ भि ] नवोद्भिदाः ।। ९ ।। अनाशं० निःशङ्कमतयः । कान्तैः भर्तृभिः । कान्ताः कामिन्यः ॥ १० ॥ घना निबिडा अयमाने नीयमाने । घनायमाने मेघकल्पे । कमनीयभावं सुन्दरत्वम् । देहविभा कायकान्तिः । सुराणां देवानाम् । विभासुराणां देदीप्यमानानाम् । अचिरांशुदेश्या विद्युत्तुल्या ॥ ११ ॥ पतङ्गोपल: सूर्यकान्तपाषाणः । अपारयन्त्यः अशक्नुवन्त्यः । द्विषन्ति निदन्ति । तुरङ्गवक्त्राः किन्नर्यः ॥ १२ ॥ ग्रावतले पाषाणोपरि । जडीकृतः शती विहतः । तपेऽपि ग्रीष्मेऽपि । पतङ्गः सूर्यः ।। १३ ।। श्रमापोहः श्रमापनयनम् । प्रत्युपकर्तुकामैः प्रत्युप- करणाभिलाषिभिः ॥ १४ ॥ कान्तैः मनोहरैः । विचित्रा: बहुविधाः । प्ररूढैः प्ररोहतां गतैः । शाखिभिः वृक्षैः । तिरोहितः प्रच्छादित इनो रवि येन सः ।। १५ ।। मधु पुष्परसः । समुन्नयन्तः उत्पादयन्तः । भृङ्गाः भ्रमराः ॥ १६ ॥ घनध्वान० मेघननादसदृशम् । यत्सानुगतं यच्छिखरस्थितम् । वितृष्णं विमनस्कम् ॥ १७॥ ध्येयहिमे ६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org