Book Title: Chandraprabhacharitam
Author(s): Virnandi, Amrutlal Shastri
Publisher: Lalchand Hirachand Doshi Solapur

View full book text
Previous | Next

Page 540
________________ पञ्जिका संजायते ॥ २२ ॥ कुलकम् ॥ विरहिणीसंतापको वसन्तः पुनरुपवर्ण्यते । अत्र वसन्ते का कामिनी न विननाश, अपितु सर्वापि । किंलक्षणा, क्षता विद्धा। कैः सायकः बाणः । कस्य. हद हदयभ: काम एव शबरी मार्गलुण्टाकस्तस्य । पुनः किंलक्षणा, संस्मरन्ती स्मरणं कुर्वन्तो। कस्य, वरस्य भर्तुः । किंलक्षणस्य, प्रोषितस्य प्रवासिनः पुनः किंलक्षणस्य, उपमारहितस्य । पुनः किंलक्ष०, मधुमासश्चैत्रो हितो यस्मै-अहं मधु. मासे आगमिष्यामीति प्रतिज्ञावतः ॥ २३ ॥ पुनः किंलक्षणोऽयं वसन्तः। यत्र बकुलानि, अबलाहसितानां कामिनीहास्यानां साम्यं सादृश्यं प्रापुः । कामिनीर्वसन्ते दुःखवतीर्दृष्ट्वा हसन्तोवेत्यर्थः । किंलक्षणानां, नोररिक्तजलवाहाः शरद्धनास्तैरिव सितानां श्वेतानाम् । किंलक्षणानि बकुलानि, प्रीणितानि तोषितानि सर्पनरसुराणां कुलानि यस्तानि । पुनः किल० नितरामतिशयेन प्रोल्लसन्ति विकासवन्ति ॥ २४ ॥ कालिनी भ्रमरिणी, अरं नारमत, अपि तु अरमत । क्व, काञ्चनारपुष्पे। किंलक्षणे, द्युतिमतो भावो द्युतिमत्ता तया हेपिता लज्जाविषयोकृता अमला विद्युद् येन तस्मिन् । पुनः किंलक्षणा, मत्ता धूर्म (ण) यन्ती। पुनः किं लक्षणा, ध्वनि नादं कुर्वन्ती । कथम्, अतारम् अतारंमन्दं मन्दम् । पुनः किंलक्षणा, सरसा रसवती ॥ २५ ॥ अथ पञ्चभिः कुलकम् । काचिद् दूतो दयितया प्रेषिता रुष्टमपि प्राणनाथं प्रति प्राह । हे नयकोविद, शशाकुस्य चन्द्रस्य कराः 'तां भवत्प्रणयिनी विदहन्ति तापयन्ति । च पुनः। मन्मथश्च तां हन्ति । किंलक्षणां तां. पीडितां बाधिताम् । केन, निजं च तन्मनश्च निजमनः तच्च तत् कमलं च निजमन:- कमलं तेन । किंलक्षणेन, त्वद्वियोगाद्भवं शोकमलं यत्र तत् तेन । शशास्तु कमलं दहति । मन्मथोऽपि वियोगयुक्तं मन इति कोविदेन भवता विचार्यमिति भावः ॥ २६ ॥ पुनर्दूती प्राह। त्वं यदि तां वल्लभां पासि त्रासि । अयं भवतो गणः। कथंभूतां ताम् । शोतेन दग्धा चासो नलिनी च शीत० तया समो देहो यस्याः सा ताम् । पुनः किलक्षणां, च्युता गता विलासमदयोरीहा अभिलाषो यस्याः सा ताम् । वा अथवा । हे जितमनोभव, एवंविधामपि तां यदि न एसि तदा तोयं जलं देहि । मृताय किल जलाञ्जलिर्दीयते इति भावः ॥ २७ ॥ पुनती प्राह । हे सखे यो रतिपतेः कामस्य इषुणिः । रजनीषु रात्रिषु सुभ्रवो वामलोचनाया हृदये प्रविश्य स्थैर्यवान स्थिरतरोऽजनि । यद्येकवारं भवान् मानयिष्यति तदा पुन पराधिनी भविष्यतीत्याह । अनेन प्रसिद्धन तव संगमनेन संपर्केणोदधतो निष्काषितः स इषः सङ्गं पन. संयोगं न व्रजति । अथवा अनेन हृदयेन सङन व्रजति ।। २८ ॥ तत् तस्मात् कारणात् हे सुभग सारमयत्वं लोहमयत्वं संप्रहाय त्यक्त्वा गच्छ त्वं दयितं रमय । हे मन्मथ० मन्मथस्य कामस्य व्यसनं लुनातीति मन्मथव्यसनलावि तद् रहस्यं यस्य स तस्य संबोधने कामव्यसनानभिभूत हृदय', इन्दुवदना विरहस्य वियोगस्य क्षमा समर्था न ॥ २९ ॥ इति दूतिकोक्तं निकामम् अतिशयेन सुश्रुवान् कोऽपि का मुकः कोपयुक्त मनसि तत्क्षणात् तत्कालं कामम् अभिलाषम् उपययौ । केन परमेण दीर्घमानकलुषोपरमेण, मानमेष( एव ) कलुष पापं तस्योपशमेन ॥ ३० ॥ कुलक.म् ।। अथ वसन्तवैभवमुच्यते । कणिकारं काञ्चनारकुसुमं तान्तं रिक्तमजनि । किंलक्षणम्, अथवा प्रोषितभर्तृका तस्या जनितमन्तं (जनितोऽन्तो-) येन तत् । कस्मात्, चारुगन्धगुणतः मनोज्ञपरिमलगुणात् । अत्र कारणमाह । सर्जने उत्पादने । अप्रतिमोहा( हो ) असदृशविचारोऽपि विधिस्तस्य कणिकारस्य युक्तघटनां प्रति मोहो मूढोऽ जनि । रूपं दत्तं परिमलं ( लो ) न दत्तमिति ( दत्त इति ) विधाता विस्मृतः ॥ ३१ ।। वृक्षपङ्क्तिकामिन्या ओष्ठेन । मनोहरतोत्कृष्टपारधारकेन( ण ) किंशुकेन पलाशपुष्पेण । असी समयो मधुः। शुशुभे चकासे । असो खङ्गे सविलासं मनोहरम् अयो लोहं बिन्दुना जलेन इव ।। ३२ ।। शम० । संयमनाशकरेषु भ्रमरिणीसमहेषु गायनेषु जातवत्सु मरुत् शोभनलतानां नर्तकोऽभूत् । कथंभूतानां, पांसुलस्य भावः पांसुलता पुष्परेणुभिः कृता पांसुलता स्थलता यासां ता: तासाम् ॥ ३३ ॥ भवत् संजातम् अशोकेभ्यो बलं यस्य स तेन कन्तुना कामेन सकलो विरहो मृत्युना यमेन कवलेन ग्रासेन, अथवा अकवलेन युगपद् एकवारमित्यर्थः, ग्रस्यते स्म । किंलक्षणो विरही, प्रमदायाः संस्मरन् । किंलक्षणायाः, अकम्प्रो निश्चलो मदो यस्याः सा तस्याः ॥ ३४ ॥ यो विरहिणीसमुदायः प्राग वसन्तात् पूर्वमतीव समुदा हर्षेण मनसा तस्थिवान् स माधवेऽतिदुःसह १. ब ध्वनि दम् । २. ब ' ' इति चिह्नान्तर्गतः पाठो नोपलभ्यते । ३. ज°दयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616