Book Title: Chandraprabhacharitam
Author(s): Virnandi, Amrutlal Shastri
Publisher: Lalchand Hirachand Doshi Solapur

View full book text
Previous | Next

Page 538
________________ पञ्जिका ४८५ उत्तालयति ॥ ५४॥ प्रहाय त्यक्त्वा ॥ ५५ ॥ उत्कटपुरद्वारम् ।। ५६ ॥ पुरः प्र० अग्रेसरगमने ॥ ५७ ॥ छत्रव्याजेन ॥ ५८ ॥ विकृत्य निर्वृत्य ॥ ५९ ।। पुरःसरम् अग्रेसरम् ॥ ६० ॥ करभयात् भागधेयभीतेः ॥ ६१ ।। पतदश्रुनयनाः ॥ ६२ । उपतस्थिरे प्रतिजगृहुः ।। ६३ ॥ उपचितान् पुष्टान् ॥ ६४ ॥ संनिकृष्टं निकटस्थम् ।। ६५ ।। एत्य समागत्य । मागधः साक्षाद् बन्दो ।। ६६ ।। पर्युपास्त सेवयामास ॥ ६७ ।। पूर्वदक्षिणपश्चिमस्थितान् ॥ ६८ ॥ प्रभावोत्साहमन्त्र लक्षणाभिः । पराभूतसूर्यदीप्तेः ॥ ६९ ॥ न्यक्कृतशत्रुपराक्रमः ॥ ७० ॥ द्वात्रिंशत्सहस्रमुनिमस्तकेषु ॥ ७१॥ विद्युच्चमत्कृतिषण्णवतिसहस्रमहिलामुखभ्रमरः ।। ७२ ॥ 'मन्दगामी तू मन्थरः', चतुष्टयेनाधिकान्यशोतिलक्षाणि मानं येषां ते चतुष्ट०, तेच ते करिणश्च चतुष्टया०, मन्थराश्च ते चतुष्टयाधिकाशीतिलक्षकरिणश्च मन्थर०, तेषां दानं तस्य कर्दमास्तैः ।। ७३ ।। अष्टादशकोटिजात्यहयैः ॥ ७४ ॥ आचिताः सम्भृताः ॥७५॥ सस्यसम्पदं धान्यद्धिम् ॥ ७६॥ ईप्सितम् अभिलषितम् ॥ ७७ ॥ अधिगम्य प्राप्य । द्यावाभूमी तु रोदसी ॥ ७८ ॥ बहुरत्नखनिभिः ॥ ७९ ॥ अखण्डम् अनूनम् । कोदण्डं कार्मुकम् । साभिलाषस्वकीयबन्धुलोकाम् ॥ ८० ॥ विपणिविहिताधिकशोभायाम् ॥ ८१ ॥ गुणवान् तन्तुमान, गुणयुक्तश्च । अनिष्ट: ।। ८२ ।। उद्ग्र०शिथिलितबन्धनम् । अन्तरीयं परिधानम् ॥ ८३ ॥ 'चित्रं मण्डनम् । चित्रं चमत्कृतिम् ॥ ८४ ।। परभागं शोभाम् । अनश्नुवाना अप्राप्नुवती ।। ८५ ।। 'यावोड लक्तो द्रुमामयः' । 'अतिरिक्तः समधिके' ।। ८६ ।। संहतः मिलितः । उत्क्षि० ऊवं कुर्वती ।। ८७ ।। अञ्जितनयना । सहास्यावलोकिनः । ईश्वरस्मरणहेतुताम् ॥ ८८ ॥ बन्धनरहिततया । रसना कटिमेखला ॥ ८९ ॥ चित्तभ्रंशम् । संस्का० चित्तभ्रमः ।। ९० ॥ विद्युत्कान्ताः । विनि० स्थापित० ॥ ९१ ॥ क्षणचतुष्कं चतुर्थभूमिः वा क्षणेन चतुष्क मङ्गलस्त्रीभिर्विरचितं स्वस्तिकम् ॥ ९२ ॥ चक्रिणा विसजिताः ॥ ९३ ॥ निर्विशत् अनुभवन् ॥ ९४ ।। इति चन्द्रप्रभचरितमहाकाव्यपञ्जिकायां सप्तमः सर्गः ॥ ७ ॥ अष्टमः सर्गः आप्तमीमांसादिशास्त्रप्रकाशं योऽकरोन्मुनिः । स श्रुतादिमुनि याच्छ्रद्धादिगुणमासिवाक् ॥ पदकमलनम्रस्य । लोकसमूहस्य । रक्षके चक्रिणि । पृथ्वी रक्षति सति । भ्रमराणाम् । विहिततन्मकरन्दास्वादनाम् । पङ्क्तिम् । हर्षयन् । वसन्तोऽजनि । ॥ १ ॥ अश्रुसहितः। मनोहरैः । यः नेत्रः। कान्तास्स्यक्तास्तैः । वियोगिनः । वृक्षेषु । म्रमराणाम् । नूतननूतनोद्भिदलीनाम् । संहति वृन्दम् । अवलोकितुम् । न समर्या बभूवुः ॥ २ ॥ अणौ सूक्ष्मे । हे कामनिष्पादिनि । चम्पकमकरन्दे। पतति सति । प्रविश्लिष्टमतिः । पथिकः । देवानाम । नितम्बिनीमिव । मनोहरध्वनिम्। कामिनीम् । सस्मार। विधुरं तु प्रविश्लेषे ॥ ३ ॥ अलम् अतिशयेन। पापश्यामलं मधुव्रतं दधती । नागकेसरवृक्षस्य कलिका कोरकः । भर्तृशयनीयम् अप्राप्तानां कामिनीनां कामपीडां चकार ॥४॥ नाना मधुपुष्परसं भक्षयन्ती कमलसंज्ञक पुष्पं भक्षयन्ती भ्रमरावलिः। स्त्रीजनचित्तं मध्ये बिभेद । च पुनः । इतस्ततः कूजन्तः पिकाः। कामिनीजनचित्तमभिनत । अर्थवशाद्विभक्तिपरिणाम इति ।। ५ ।। आम्रवृक्षं जातकोशमवलोक्य पञ्चबाणबाणरत्यर्थ विद्धा का नितम्बिनी भी सह प्रेमकरं मैथुनं न चकार, अपि तु सर्वापि ॥ ६ ॥ वनभूमोनां शीतलो वायुः । चलं स्त्रीजनं भतृ स्थाननिमित्तमलमुत्कण्ठयन् । प्रविकसन्ती कमला आस्ये यस्य तत् प्रतिकसत्कमलवदनं कं' किशलयं नृत्यरहितं चक्रे, न कमपि ॥ ७ ॥ अये पथिक, स्तबकेन गुच्छेन नम्रः सैरेयकस्तव भवतः केन कारणेन तापकारी न । अतस्त्वं नो प्रावस: प्रोषितो भव । कोकिलध्वनिः पान्थं प्रति, इत्यदः, वचनं नाभ्यधित १. ब प्रतिषेधे । २. ब किं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616