Book Title: Chandraprabhacharitam
Author(s): Virnandi, Amrutlal Shastri
Publisher: Lalchand Hirachand Doshi Solapur

View full book text
Previous | Next

Page 544
________________ ४९१ पञ्जिका दिन्यां निरपेक्षोपकारः ॥४०॥ परिणामिनि 'कालवृद्धिगते । विविक्तं विजनम् ॥ ४१ ॥ पुलकैः रोमाः । पीनतां स्थूलत्वम् ॥४२॥ प्रतिकूलं क्षणं प्रतीकं (पं) कालविडम्बनम् । शासनम् आज्ञा ||४३|| अरविन्दामुकु लितनेत्राणाम् । त्रपया रात्री किल कमलं च मुकुलितम् । उन्नमिताननः ऊर्ध्वा कृतमुखैः || ४४ || विपरीततया कामस्य प्रतिकूलाचरणेन || ४५ || अमिमीत अनुमानेन बुधत् ||४६ || चुम्बने वक्त्रसंयोगकरणे । सहसा शीघ्रम् । मासंजयति स्म व्यापारयति स्म परिरम्भमकरोदित्यर्थः ॥४७॥ करताडनं करशब्देन करजातैस्ताडनं प्रहतिः । परिरम्भः कराभ्यामालिङ्गनम् । दशच्छदः अधरः ||४८ || अनवकाशः अवकाशं मध्यवसतिमप्राप्नुवद्भिः ॥ ४९ ॥ परिरम्भेण गाढालिङ्गनेन । अजीगमत् विलम्बयति स्म || ५० ॥ समीयुषे दीर्घकालगताय ॥५१॥ परिरे आलिलिङ्ग ॥ ५२ ॥ सचिवत्वं सहायत्वम् ॥ ५३ ॥ असंभवन् अवकाशमलभमानः ॥५४॥ परिरब्धुम् आश्लिष्टुं दृढबन्धहस्ताभ्यां संपुटीकरणं यथा भवति ।। ५५ ।। परिशान्त्य कषायरहितां प्रियवाक्यैविधाय । व्यदिव्यपत् विध्यापयतिस्म ॥ ५६ ॥ परितस्थे उपरिस्थितम् ॥ ५७ ॥ वामं प्रतिकूलम् ॥ ५८ ॥ अतिमात्र संस्तवात् गाढालिङ्गनात् पुनः पुनः परिचयाद्वा । भणितैः रतिकूजितैः ॥ ५९ ॥ सुरखेषु मैथुनेषु ॥ ६० ॥ रतोत्सवे मैथुनानन्दे ॥ ६१ ॥ प्रक्षुभ्य एकहेलया शब्दयित्वा । क्षणं किचित्कालम् | विश्रान्तिं विरामम् । सूताः बन्दिनः ॥ ६२ ॥ विकीणं विस्तृतम् ॥ ६३ ॥ केशकलापमध्ये रेखा सीमन्तः ॥ ६४ ॥ ब्रह्माण्डप्रसृतं सकलजगद्वयातम् ॥ ६५ ॥ रथाङ्गयुग्मं चक्रवाकयुगलम् । वक्षोजद्वयं स्तनयुग्मम् ॥ ६६ ॥ घर्मांशोः सूर्यस्य । प्रणुन्नम् अपसारितम् । वृत्ति पुनरागमनाय वर्तनम् । अनुशीलतां भवच्छत्रुभिः सादृश्यम् ॥ ६७ ॥ प्रत्यूषः अहर्मुखम् । परिष्कृताङ्गाः भूषितशरीराः ॥ ६८ ॥ पाथेयं शम्बलम् । गरिष्ठवियोगमार्गगमनाय ॥ ६९ ॥ मनपायिना अनश्वरेण ।। ७० ।। नियतं निश्चितम् । अमङ्गलं मरणम् ॥ ७१ ॥ निजविरुतैः स्वशब्दैः । निशान्तं प्रातः । ताम्रचूडः समदः कुक्कुटः ॥ ७२ ॥ कल्पयामि सहजं न विभावयामि ॥ ७३ ॥ विवृत्य पराङ्मुखीभूय | अनुनयविषयां विधाय ॥ ७४ ॥ सप्तीनां हयानाम् । रुचिरं सुन्दरम् । प्रतीक्षां 'कालविलम्बम् ।। ७५ । रोचिष्मान् सूर्यः ॥ ७६ ॥ प्रबोधं निद्राक्षयम् ॥ ७७ ॥ तपने सूर्ये ॥ ७८ ॥ जहासोः शिखरं त्यक्त्वानन्तरं गन्तुमिच्छोः ॥ ७९ ॥ । ५ ६ इति चन्द्रप्रभकाव्यपञ्जिकायां दशमः सर्गः ॥ १० ॥ एकादशः सर्गः आप्तमीमांसादिशास्त्रप्रकाशं योऽकरोन्मुनिः । स श्रुतादिमुनिर्जीयाच्छ्रद्धादिगुणभासिवाक् ।। सच्छ्रद्धादिगुणैर्युक्तस्तपसां निधिरस्तु मे । प्रकाशयामास मुनिः सर्वशास्त्राणि स श्र ॥ विशां प्रजानाम् । अधिश्रिये अधिवस्थो । कलि ( ल्पि ) त० आरोपित सिहासनम् ॥ १ ॥ सर्वे च तेऽवसराश्च कार्यविशेषास्तत्साधनार्थं व्यवस्थितं सिंहासनारूढं वा स्नानविलेपनाद्यनन्तरं तत्रोपविष्टं वा । प्रधानदीवारिक ० प्रधाना विशिष्टाश्च ते द्वारिनियुक्ताश्च तैः सूचितो निवेदित आगम आगमनं येषां ते तथा । आश्लिष्टचुम्बितशिखरेण मोलिना किरीटेन ॥ २ ॥ प्रतीहारः द्वारपालः । यथायथं स्वोचितस्थाने । सभाजिरे प्राङ्गणे ॥ ३ ॥ अनल्पसत्त्वं प्रचुरोत्साहबलम् । गुरुवंश ० गरिष्ठान्वयशोभमानं, पक्षे पृष्ठास्थि० । प्रलम्बहस्तम् आजानु, (पक्षे ) लम्बशुण्डादण्डम् । कुतूहलात् कौतुकात् । अचूचुदत् प्रेरयामास । धीरनरान् सुभट १. ब 'काल' इति नास्ति । २. बघत । ३. ब 'परितस्थे' इति नास्ति । ४. ब संसृपात् । ५. ज मध्यं । ६. बशीलितां । ७. ब इति चिह्नान्तर्गतः पाठो नोपलभ्यते । ८. व श्रियै । ९. ब प्रधान । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616