________________
पञ्जिका
संजायते ॥ २२ ॥ कुलकम् ॥ विरहिणीसंतापको वसन्तः पुनरुपवर्ण्यते । अत्र वसन्ते का कामिनी न विननाश, अपितु सर्वापि । किंलक्षणा, क्षता विद्धा। कैः सायकः बाणः । कस्य. हद हदयभ: काम एव शबरी मार्गलुण्टाकस्तस्य । पुनः किंलक्षणा, संस्मरन्ती स्मरणं कुर्वन्तो। कस्य, वरस्य भर्तुः । किंलक्षणस्य, प्रोषितस्य प्रवासिनः पुनः किंलक्षणस्य, उपमारहितस्य । पुनः किंलक्ष०, मधुमासश्चैत्रो हितो यस्मै-अहं मधु. मासे आगमिष्यामीति प्रतिज्ञावतः ॥ २३ ॥ पुनः किंलक्षणोऽयं वसन्तः। यत्र बकुलानि, अबलाहसितानां कामिनीहास्यानां साम्यं सादृश्यं प्रापुः । कामिनीर्वसन्ते दुःखवतीर्दृष्ट्वा हसन्तोवेत्यर्थः । किंलक्षणानां, नोररिक्तजलवाहाः शरद्धनास्तैरिव सितानां श्वेतानाम् । किंलक्षणानि बकुलानि, प्रीणितानि तोषितानि सर्पनरसुराणां कुलानि यस्तानि । पुनः किल० नितरामतिशयेन प्रोल्लसन्ति विकासवन्ति ॥ २४ ॥ कालिनी भ्रमरिणी, अरं नारमत, अपि तु अरमत । क्व, काञ्चनारपुष्पे। किंलक्षणे, द्युतिमतो भावो द्युतिमत्ता तया हेपिता लज्जाविषयोकृता अमला विद्युद् येन तस्मिन् । पुनः किंलक्षणा, मत्ता धूर्म (ण) यन्ती। पुनः किं लक्षणा, ध्वनि नादं कुर्वन्ती । कथम्, अतारम् अतारंमन्दं मन्दम् । पुनः किंलक्षणा, सरसा रसवती ॥ २५ ॥ अथ पञ्चभिः कुलकम् । काचिद् दूतो दयितया प्रेषिता रुष्टमपि प्राणनाथं प्रति प्राह । हे नयकोविद, शशाकुस्य चन्द्रस्य कराः 'तां भवत्प्रणयिनी विदहन्ति तापयन्ति । च पुनः। मन्मथश्च तां हन्ति । किंलक्षणां तां. पीडितां बाधिताम् । केन, निजं च तन्मनश्च निजमनः तच्च तत् कमलं च निजमन:- कमलं तेन । किंलक्षणेन, त्वद्वियोगाद्भवं शोकमलं यत्र तत् तेन । शशास्तु कमलं दहति । मन्मथोऽपि वियोगयुक्तं मन इति कोविदेन भवता विचार्यमिति भावः ॥ २६ ॥ पुनर्दूती प्राह। त्वं यदि तां वल्लभां पासि त्रासि । अयं भवतो गणः। कथंभूतां ताम् । शोतेन दग्धा चासो नलिनी च शीत० तया समो देहो यस्याः सा ताम् । पुनः किलक्षणां, च्युता गता विलासमदयोरीहा अभिलाषो यस्याः सा ताम् । वा अथवा । हे जितमनोभव, एवंविधामपि तां
यदि न एसि तदा तोयं जलं देहि । मृताय किल जलाञ्जलिर्दीयते इति भावः ॥ २७ ॥ पुनती प्राह । हे सखे यो रतिपतेः कामस्य इषुणिः । रजनीषु रात्रिषु सुभ्रवो वामलोचनाया हृदये प्रविश्य स्थैर्यवान स्थिरतरोऽजनि । यद्येकवारं भवान् मानयिष्यति तदा पुन पराधिनी भविष्यतीत्याह । अनेन प्रसिद्धन तव संगमनेन संपर्केणोदधतो निष्काषितः स इषः सङ्गं पन. संयोगं न व्रजति । अथवा अनेन हृदयेन सङन व्रजति ।। २८ ॥ तत् तस्मात् कारणात् हे सुभग सारमयत्वं लोहमयत्वं संप्रहाय त्यक्त्वा गच्छ त्वं दयितं रमय । हे मन्मथ० मन्मथस्य कामस्य व्यसनं लुनातीति मन्मथव्यसनलावि तद् रहस्यं यस्य स तस्य संबोधने कामव्यसनानभिभूत हृदय', इन्दुवदना विरहस्य वियोगस्य क्षमा समर्था न ॥ २९ ॥ इति दूतिकोक्तं निकामम् अतिशयेन सुश्रुवान् कोऽपि का मुकः कोपयुक्त मनसि तत्क्षणात् तत्कालं कामम् अभिलाषम् उपययौ । केन परमेण दीर्घमानकलुषोपरमेण, मानमेष( एव ) कलुष पापं तस्योपशमेन ॥ ३० ॥ कुलक.म् ।। अथ वसन्तवैभवमुच्यते । कणिकारं काञ्चनारकुसुमं तान्तं रिक्तमजनि । किंलक्षणम्, अथवा प्रोषितभर्तृका तस्या जनितमन्तं (जनितोऽन्तो-) येन तत् । कस्मात्, चारुगन्धगुणतः मनोज्ञपरिमलगुणात् । अत्र कारणमाह । सर्जने उत्पादने । अप्रतिमोहा( हो ) असदृशविचारोऽपि विधिस्तस्य कणिकारस्य युक्तघटनां प्रति मोहो मूढोऽ जनि । रूपं दत्तं परिमलं ( लो ) न दत्तमिति ( दत्त इति ) विधाता विस्मृतः ॥ ३१ ।। वृक्षपङ्क्तिकामिन्या ओष्ठेन । मनोहरतोत्कृष्टपारधारकेन( ण ) किंशुकेन पलाशपुष्पेण । असी समयो मधुः। शुशुभे चकासे । असो खङ्गे सविलासं मनोहरम् अयो लोहं बिन्दुना जलेन इव ।। ३२ ।। शम० । संयमनाशकरेषु भ्रमरिणीसमहेषु गायनेषु जातवत्सु मरुत् शोभनलतानां नर्तकोऽभूत् । कथंभूतानां, पांसुलस्य भावः पांसुलता पुष्परेणुभिः कृता पांसुलता स्थलता यासां ता: तासाम् ॥ ३३ ॥ भवत् संजातम् अशोकेभ्यो बलं यस्य स तेन कन्तुना कामेन सकलो विरहो मृत्युना यमेन कवलेन ग्रासेन, अथवा अकवलेन युगपद् एकवारमित्यर्थः, ग्रस्यते स्म । किंलक्षणो विरही, प्रमदायाः संस्मरन् । किंलक्षणायाः, अकम्प्रो निश्चलो मदो यस्याः सा तस्याः ॥ ३४ ॥ यो विरहिणीसमुदायः प्राग वसन्तात् पूर्वमतीव समुदा हर्षेण मनसा तस्थिवान् स माधवेऽतिदुःसह
१. ब ध्वनि दम् । २. ब ' ' इति चिह्नान्तर्गतः पाठो नोपलभ्यते । ३. ज°दयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org