________________
१८८
चन्द्रप्रमचरितम् श्चासौ मनोभवश्च तेन दूनः कथितः सुखितया सुखित्वेन ऊनो रिक्तोऽभवत् ॥ ३५ ॥ अथ काचिद् दूतिका रुदन्ती गतभर्तृकां प्रति प्राह । हे आलि कामशोक० कामाज्जातो यः शोकः स एव जलधिस्तस्मादुदि. तान्युत्पन्नानि सततं रुदितानि संहर । यतोऽमुक्तम् अत्यक्तं धैर्य धीरत्वमापदामसनक्षमं निराकरणसमर्थमुक्तं भाषितम् । कथंभूतं धैर्यम्, आपदामसनं क्षेपणं तत्र क्षमं समर्थम् ।। ३६ ॥ तव प्रेयसा यो वसन्तोऽवधिरकारि स भर्ता तमतिवर्तितुमलं नेत्यर्थः । किंलक्षणो वसन्तः, यत्र निजगुणः स्वगुणैः सन्त इव शाखिनो वृक्षा अमलाभैनिर्मलदीप्तिभिर्जनानां लोकानां मनोरमस्य लाभो येभ्यस्तानिति । कुसुमैर्भान्ति ।। ३७ ॥ तं समयं मधु . मतिवर्तितुमतिक्रमितुम् उत्सुकः । स तव भर्ता अलं समर्थो न । केन चेतसा। किंलक्षणेन विप्रयोगेन कृशा चासौ दाराश्च तदर्थ हितेन । पुनः किलक्षणेन, कठिनता स्तब्धता ( तया) रहितेन । किलक्षणं समयं विकास प्रकाशमयन्तं गच्छन्तम् ।। ३८॥ युग्मम् ॥हे आलि तदिदं वपुनियमेन रक्ष। यमेनातडून लध्वी हानि'र्यस्य तल्लघुहानि'' शीघ्रनश्वरं मा विधेहि । त्वं तेन सहाल्पदिवस रस्यसे । यतः स भर्त्ता त्वदीयविरहं न सहते ॥ ३९ ॥ आल्या काचनेति हितं यथा भवति तथा जगदे। फिलक्षणा काचन, मन्दा दीप्तिर्यस्याः सा मन्ददीप्तिः । असुखावहं( हो ) मानं( नो ) यस्याः सा असुखावहमाना। पुन: किंलक्षणा, जीविते शियिलतां वहमाना । पुनरपि किंलक्षणा, दूरदिशि पतिर्यस्याः सा । अपोहितं त्यक्तं माल्यं यया सा अपोहितमाल्या ॥ कूलकम ॥ ४०॥ कश्चित कामी कामानलाभितप्तो मानिनी चाटुभिर्मानयत्राह । हे सुभ्र तव 'भ्रकुटीनां दारुणा कर्कशा विरचना कूटीनां साम्यमावहति, पक्षे दारुणा काष्ठेन । प्रियतमे मयि दास्यं धारयति सति तवास्यं कोपनं कोपयुक्तं किमिति' जातवत् ।। ४१ ॥ तथा हे सुभ्र तव रतेन व्यवायेन विना मे का धति. स्तोषः । अहं तव विनामे प्रह्वीभावे नोद्यताञ्जलिन । भवतो अमाने मयि नममाने वृथैव मानं किं तनोति ॥ ४२॥ तथा हे सुभ्र नभोवदाकाशवदनन्ते कान्तिजले मग्नं कमलसदृशम् । जाय० उत्पद्यमानाने कविभ्रमरोहं ते वदनं पातं लेढं सादरमवलोकितमित्यर्थः। अहं भ्रमर इवोत्सूकोऽस्मि ॥ ४३ ॥ हे सतन अनेन मद. नेनानिशं बाध्यमानं मन्मनो भीमद् वर्तते । हे पीवरतरस्तनि स्थूलपयोधरे। रुषः क्रोधस्य तनोविस्तनिमा तं कृशत्वम्। त्यज मानं मुञ्च ॥ ४४।। इत्थं दयितेन भी उदिता भाषिता काचित तेन सार्द्धम उदयि उदयोपेतं प्रेम स्नेहमकृत । अवार्थान्तरमपन्यस्यते। बुधैः पण्डितै रचितानि रसभारेण चितानि संभूतानि वचांसि कं न प्रोणयन्ति, अपितु सर्वमपि ॥ ४५ ॥ कुलकम् । इत्थं विलसति वसन्ते । भानुहिमवन्तमचलमाप । कथंभूतं , कन्दरासु दरीषु अनुकृताहिं सर्पसदृशं ध्वान्तं तमोनिकायमवन्तं रक्षन्तम् । यो हिमवान् शशीव शुद्धा नदा यस्यां सा तस्यां, वसन् धनदो यस्यां सातस्यां दिशि भाति राजते । ४६ । तत्र वसन्ते लीनं षटपदानां कुलं यस्यां सा लीन० । तिलैरिव काली श्यामला तिलकाली तिलपङ्क्तिर्यद्विकासमगमत् तेन गतहर्षेण मनसा मानिनी उदारं कामतापमगमत् गतवती ।। ४७ । तत्र वसन्तेऽलयो भ्रमरा अलिन्या साकं सततं रागकारि कमलिन्या मधु पुष्परसं निषेव्य यानि ध्वनितानि चक्रः तानि सन्ति (निशम्य ) अध्वनि के ययुन केऽपीत्यर्थः ॥४८॥ तत्र जनेन परिवारेण शीतला इति ज्ञात्वा सजलतालवृन्तेन पातिता आपो जलानि जातविरहो निष्पन्नवियोगोऽतनुतापो बहुलक्लेशयुक्तः कः पुमान् क्वाथिताम्बु० उत्क्वालितजलसमानानि नातनुत, अपि तु उत्पन्नतापो वियोगी तापस्फेटनार्थं परिवारेण व्यजनेन क्षिप्ता आप उत्क्वलितजलसदशा अकरोदित्यर्थः ॥ ४९ ।। असमहानि असदृशहानियुक्तं पद्मखण्डं कमलवनम् अविकासं विकासरहितं वीक्ष्य अवलोक्य जात. रुडिव उत्पन्न रोष इव तिग्मगुः सूर्यः । अहानि दिनानि अहिमानि उष्णानि विहितवान् अकरोत् । उचितमेतत् । भास्वतं हृदयं मानि नहि, (इति) न, मान्येव ।। ५० ।। अलयो भ्रमरा भ्रमरिण्या सार्द्ध रागोलादक कमलिन्याः पुष्परसं सततं निषेव्य यानि शब्दितानि चक्रस्तानि श्रुत्वा के पथिका अध्वनि पथि ययुः, अपि तु न केऽपि । मधुकरी० अलिनीवाचालितदिशि । व्याजृम्भिते विस्फूति । कामसहजबन्धौ । विस्रब्धं सहसा ॥ ५१ ॥ परभत० कोकिलशब्दितव्याजेन । प्रादुर्भवन्ती तिलकपत्रविशेषशोभा यत्र सा ताम । सीमन्ति.
१. ज ' ' इति चिह्नान्तर्गतः पाठो नोपलभ्यते । २. ब ' ' इति चिह्नान्तर्गतः पाठो नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,